श्लोक 1
रागादिरोगाः सहजाः समूला येनाऽशुसर्वे जगतोऽप्यपास्ताः।
तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन्॥
श्लोक 2
अथात आयुष्कामीयं नामाध्यायं व्याख्यास्यामः इति ह स्मा+आहुरात्रेयादयो महर्षयः॥
श्लोक 3
आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः॥
श्लोक 4
आयुर्वेदामृतं सार्वं ब्रह्मा सनातनम्।
ददौ दक्षाय सोऽश्विभ्यां तौ शतक्रतवे ततः॥
श्लोक 5
धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः।
नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुम्॥
श्लोक 6
धन्वन्तरिभरद्वाजनिमिकाश्यपकश्यपाः।
महर्धयो महात्मानस्तथा लम्बायनादयः॥
श्लोक 7
शतक्रतुमुपाजग्मुः शरण्यममरेश्वरम्।
तान्दृष्ट्वैव सहस्राक्षो निजगाद यथागमम्॥
श्लोक 8
आयुषः पालनं वेदमुपवेदमथर्वणः।
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषैः॥
श्लोक 9
गतमष्टाङ्गतां पुण्यं बुबुधे यं पितामहः।
गृहीत्वा ते तमाम्रायं प्रकाश्य च परस्परम्॥
श्लोक 10
आययुर्मानुषं लोकं मुदिताः परमर्षयः।
स्थित्यर्थमायुर्वेदस्य तेऽथ तन्त्राणि चक्रिरे॥
श्लोक 11
कृत्वाऽग्निवेशहारीतभेडमाण्डव्यसुश्रुतान्।
करालादींश्च तच्छिष्यान् ग्राहयामासुरादृताः॥
श्लोक 12
स्वं स्वं तन्त्रं ततस्तेऽपि चक्रुस्तानि कृतानि च।
गुरून् संश्रावयामासुः सर्षिसङ्घान्सुमेधसः॥
श्लोक 13
तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे।
तेषामेकैकमव्यापि समस्तव्याधिसाधने॥
श्लोक 14
प्रतितन्त्राभियोगे तु पुरुषायुषसंक्षयः।
भवत्यध्ययनेनैव यस्मात् प्रोक्तः पुनः पुनः॥
श्लोक 15
तन्त्रकारैः स एवऽर्थः क्वचित् क्श्चिद्विशेषतः।
तेऽर्थप्रत्यायनपरा वचने यच्च नादृताः॥
श्लोक 16
सर्वतन्त्राण्यतः प्रायः संहृत्याऽष्टाङ्गसङ्ग्रहः।
अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः॥
श्लोक 17
हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः।
विनिगूढार्थतत्वानां प्रदेशानां प्रकाशकः॥
श्लोक 18
स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्तकः।
युगानुरूपसन्दर्भो विभागेन करिष्यते॥
श्लोक 19
नित्योपयोगि दुर्बोधं सर्वाङ्गव्यापि भावतः।
सङ्गृहीतं विशेषेण यत्र कायचिकित्सितम्॥
श्लोक 20
न मात्रामात्रमप्यत्र किच्चिदागमवर्जितम्।
तेऽर्थाःस ग्रन्थबन्धश्च सङ्क्षेपाय क्रमोऽन्यथा॥
श्लोक 21
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः।
प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदयः॥
श्लोक 22
उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि।
विकृताऽविकृता देहं घ्नन्ति ते वर्त्तयन्ति च॥
श्लोक 23
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः।
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्॥
श्लोक 24
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः।
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि॥
श्लोक 25
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः।
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्॥
श्लोक 26
समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः।
तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलोऽनिलः॥
श्लोक 27
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्।
स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः॥
श्लोक 28
संसर्गः सन्निपातश्च तद्वित्रिक्षयकोपतः।
तौ षोढा दशधा चोक्तावुत्कर्षादिविकल्पनात्॥
श्लोक 29
रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः।
सप्त दूष्या मला मूत्रशकृत्स्वेदादयोऽपि च॥
श्लोक 30
रसादिस्थेषु दोषेषु व्याधयः सम्भवन्ति ये।
तज्जानित्युपचारेण तानाहुर्घृतदाहवत्॥
श्लोक 31
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे।
गर्भोत्पादश्च कर्माणि धातूनां क्रमशो विदुः॥
श्लोक 32
शरीरं धारयन्त्येते धात्वाहारश्च सर्वदा।
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः॥
श्लोक 33
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः।
षड् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः॥
श्लोक 34
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्।
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते॥
श्लोक 35
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा।
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्॥
श्लोक 36
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः।
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः॥
श्लोक 37
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः।
इन्द्रियार्था व्यवायी च विकाषी चापरे गुणाः॥
श्लोक 38
व्यवायी देहमखिलं व्याप्य पाकाय कल्पते।
विकाषी विकषन् धातून् सन्धिबन्धान् विमुञ्चति॥
श्लोक 39
सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकीर्त्तितौ।
सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः॥
श्लोक 40
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्॥
श्लोक 41
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता।
निजागन्तुविभागेन रोगाश्च द्विविधा मताः॥
श्लोक 42
तेषां कायमनोभेदादधिष्ठानमपि द्विधा।
रजस्तमश्च मनसो द्वौ च दोषवुदाहृतौ॥
श्लोक 43
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्।
रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः॥
श्लोक 44
भूमिदेहप्रभेदेन देशमाहुरिह द्विधा।
जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम्।
श्लोक 45
साधारणं सममलं त्रिधा भूदेशमादिशेत्।
क्षणादिव्यार्ध्यवस्था च कालो भैषज्ययोगकृत्॥
श्लोक 46
शोधनं शमनं चेति समासादौषधं द्विधा।
शरीरजानां दोषाणां क्रमेण परमौषधम्॥
श्लोक 47
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु।
धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम्॥
श्लोक 48
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः।
आयुष्कामीयशिष्यार्थदिनर्तुव्याध्यसम्भवाः॥
श्लोक 49
द्रवान्नज्ञानसंरक्षाविरुद्धान्नान्नपानिकाः।
मात्राशितौषधज्ञानश्रेष्ठशुध्यादिसङ्ग्रहाः॥
श्लोक 50
महाकषायविविधद्रव्यादिरसभेदकाः।
दोषादिज्ञानतद्भेदतत्क्रिया रोगभेषजम्॥
श्लोक 51
व्द्यैषधस्नेहनस्वेदशुध्यास्थापननावनम्।
धूमगण्डूषदृक्सेकतृप्तियन्त्रजलौकसः॥
श्लोक 52
सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः।
चत्वारिंशदिमेऽध्यायः सूत्रम् शारीरमुच्यते॥
श्लोक 53
पुत्रार्थगर्भावक्रान्तिचर्याव्यापच्छरीरजाः।
सिरामर्मप्रकृत्याख्या विकृताङ्गेहितामयाः॥
श्लोक 54
सदूता द्वादशाध्यायाः निदानं सार्वरौगिकम्।
ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम्॥
श्लोक 55
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च।
पाण्डुकुष्ठानिलार्त्तानां वातास्रस्य च षोडश॥
श्लोक 56
चिकित्साज्वरयोरस्रकासयोः श्वासयक्ष्मणोः।
वमौ मदात्ययेऽर्शस्सु विशि द्वौ द्वौ च मूत्रिते॥
श्लोक 57
विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु।
कुष्टश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥
श्लोक 58
चतुर्विशतिरध्यायाः कल्पसिद्धिरतःपरम्।
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बास्तिकल्पना॥
श्लोक 59
कल्पश्च सिद्धबस्तीनां सिद्धिर्बस्त्यनुवासयोः।
द्रव्यकल्पोऽष्टमः स्थानमत उत्तरमुत्तरम्॥
श्लोक 60
बालोपचरणे व्याधिग्रहज्ञाननिषेधने।
स्नाने पृथग्ग्रहे भूते द्वावुन्मादे स्मृतिक्षये॥
श्लोक 61
वर्त्मसन्धिगतौ द्वौ द्वौ दृक्तमोलिङ्गनाशिषु।
सर्वदृक्स्यन्ददृक्पाके कर्णनासामुखेषु च॥
श्लोक 62
मूर्ध्नि व्रणे तथा द्वौ द्वौ सद्योभङ्गे भगन्दरे।
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥
श्लोक 63
विषे द्वौ भुजगे कीटे द्वौ च लूतासु मूषिके।
विषे विषोपयोगे च तथाऽध्यायो रसायने॥
श्लोक 64
वाजीकरणमुद्दिश्य पञ्चाशोऽष्टाङ्गपूरणः।
पञ्चाशदध्यायशतं षड्भिः स्थानैः समीरितम्॥
इति प्रथमोऽध्यायः