अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 38

श्लोक 1

लालनश् चपलः पुत्रो हसिरश् चिक्किरो ऽजिरः ।
कषाय-दन्तः कुलकः कोकिलः कपिलो ऽसितः ॥ १ ॥

श्लोक 2

हसिरश् चिक्रिरो ऽजनः हसिरश् चिक्किरो ऽजरः हसिरश् चिकिलो ऽजिरः अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः ।
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ २ ॥

श्लोक 3

कपोतः पलितोन्दुरुः छुच्छुन्दरो बलासाख्यो छुच्छुन्दरो रसालाक्षो दश चाष्टौ च मूषिकाः शुक्रं पतति यत्रैषां शुक्र-दिग्धैः स्पृशन्ति वा ।
यद् अङ्गम् अङ्गैस् तत्रास्रे दूषिते पाण्डु-तां गते ॥ ३ ॥

श्लोक 4

ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो ऽ-रुचिः ।
शीत-ज्वरो ऽति-रुक् सादो वेपथुः पर्व-भेदनम् ॥ ४ ॥

श्लोक 5

ग्रन्थयः श्वयथुः कोथो रोम-हर्षः स्रुतिर् मूर्छा दीर्घ-कालानुबन्धनम् ।
श्लेष्मानुबद्ध-बह्व्-आखु-पोतक-च्छर्दनं स-तृट् ॥ ५ ॥

श्लोक 6

श्लेष्मानुबन्ध-बह्व्-आखु- श्लेष्मानुविद्ध-बह्व्-आखु-पोतक-च्छर्दनं सकृत् व्यवाय्य् आखु-विषं कृच्छ्रं भूयो भूयश् च कुप्यति ।
मूर्छाङ्ग-शोफ-वैवर्ण्य-क्लेद-शब्दा-श्रुति-ज्वराः ॥ ६ ॥

श्लोक 7

शिरो-गुरु-त्वं लालासृक्-छर्दिश् चा-साध्य-लक्षणम् ।
शून-वस्तिं वि-वर्णौष्ठम् आख्व्-आभैर् ग्रन्थिभिश् चितम् ॥ ७ ॥

श्लोक 8

छुच्छुन्दर-स-गन्धं च वर्जयेद् आखु-दूषितम् ।
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञा-वहाश्रिताः ॥ ८ ॥

श्लोक 9

मुष्णन्तः कुर्वते क्षोभं धातूनाम् अति-दारुणम् ।
लाला-वान् अन्ध-बधिरः सर्वतः सो ऽभिधावति ॥ ९ ॥

श्लोक 10

स्रस्त-पुच्छ-हनु-स्कन्धः शिरो-दुःखी नताननः ।
दंशस् तेन विदष्टस्य सुप्तं कृष्णं क्षरत्य् असृक् ॥ १० ॥

श्लोक 11

हृच्-छिरो-रुग्-ज्वर-स्तम्भ-तृष्णा-मूर्छोद्भवो ऽनु च ।
अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्रा-प्रहारिणः ॥ ११ ॥

श्लोक 12

हृच्-छिरो-रुग्-ज्वर-स्तम्भस् हृच्-छिरो-रुग् ज्वरः स्तम्भस् तृष्णा-मूर्छोद्भवो ऽनु च तृष्णा मूर्छोद्भवो ऽनु च व्याल-दंष्ट्रा-प्रहारिणः शृगालाश्वतराश्वर्क्ष-द्वीपि-व्याघ्र-वृकादयः ।
कण्डू-निस्तोद-वैवर्ण्य-सुप्ति-क्लेद-ज्वर-भ्रमाः ॥ १२ ॥

श्लोक 13

विदाह-राग-रुक्-पाक-शोफ-ग्रन्थि-विकुञ्चनम् ।
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥ १३ ॥

श्लोक 14

सर्व-त्र स-विषे लिङ्गं विपरीतं तु निर्-विषे ।
दष्टो येन तु तच्-चेष्टा-रुतं कुर्वन् विनश्यति ॥ १४ ॥

श्लोक 15

पश्यंस् तम् एव चा-कस्माद् आदर्श-सलिलादिषु ।
यो ऽद्भ्यस् त्रस्येद् अ-दष्टो ऽपि शब्द-संस्पर्श-दर्शनैः ॥ १५ ॥

श्लोक 16

शब्द-स्पर्श-निदर्शनैः जल-संत्रास-नामानं दष्टं तम् अपि वर्जयेत् ।
आखुना दष्ट-मात्रस्य दंशं काण्डेन दाहयेत् ॥ १६ ॥

श्लोक 17

दर्पणेनाथ-वा तीव्र-रुजा स्यात् कर्णिकान्य-था ।
दग्धं विस्रावयेद् दंशं प्रच्छितं च प्रलेपयेत् ॥ १७ ॥

श्लोक 18

दग्ध्वा विस्रावयेद् दंशं प्रच्छिन्नं च प्रलेपयेत् शिरीष-रजनी-वक्र-कुङ्कुमामृतवल्लिभिः ।
अगार-धूम-मञ्जिष्ठा-रजनी-लवणोत्तमैः ॥ १८ ॥

श्लोक 19

लेपो जयत्य् आखु-विषं कर्णिकायाश् च पातनः ।
ततो ऽम्लैः क्षालयित्वानु तोयैर् अनु च लेपयेत् ॥ १९ ॥

श्लोक 20

पिष्टैर् अनु च लेपयेत् पालिन्दी-श्वेत-कटभी-बिल्व-मूल-गुडूचिभिः ।
अन्यैश् च विष-शोफ-घ्नैः सिरां वा मोक्षयेद् द्रुतम् ॥ २० ॥

श्लोक 21

सिरां वा मोचयेद् द्रुतम् छर्दनं नीलिनी-क्वाथैः शुकाख्याङ्कोल्लयोर् अपि ।
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ २१ ॥

श्लोक 22

कोशवत्याः शुकाख्यायाः मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् ।
वचा-मदन-जीमूत-कुष्ठं वा मूत्र-पेषितम् ॥ २२ ॥

श्लोक 23

पूर्व-कल्पेन पातव्यं सर्वोन्दुर-विषापहम् ।
विरेचनं त्रिवृन्-नीली-त्रि-फला-कल्क इष्यते ॥ २३ ॥

श्लोक 24

विरेचने त्रिवृन्-नीली- शिरो-विरेचने सारः शिरीषस्य फलानि च ।
अञ्जनं गो-मय-रसो व्योष-सूक्ष्म-रजो-ऽन्वितः ॥ २४ ॥

श्लोक 25

अञ्जने गो-मय-रसो व्योष-सूक्ष्म-रजो-ऽन्वितः कपित्थ-गो-मय-रसो मधु-मान् अवलेहनम् ।
तण्डुलीयक-मूलेन सिद्धं पाने हितं घृतम् ॥ २५ ॥

श्लोक 26

मधु-मान् अवलेहने द्वि-निशा-कटभी-रक्ता-यष्ट्य्-आह्वैर् वामृतान्वितैः ।
आस्फोत-मूल-सिद्धं वा पञ्च-कापित्थम् एव वा ॥ २६ ॥

श्लोक 27

सिन्धुवारं नतं शिग्रु-बिल्व-मूलं पुनर्नवा ।
वचा-श्वदंष्ट्रा-जीमूतम् एषां क्वाथं स-माक्षिकम् ॥ २७ ॥

श्लोक 28

सिन्धुवार-नतं शिग्रु- बिल्व-मूलं पुनर्नवम् पिबेच् छाल्य्-ओदनं दध्ना भुञ्जानो मूषिकार्दितः ।
तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥ २८ ॥

श्लोक 29

अङ्कोल्ल-मूल-कल्को वा बस्त-मूत्रेण कल्कितः ।
पानालेपनयोर् युक्तः सर्वाखु-विष-नाशनः ॥ २९ ॥

श्लोक 30

पान-लेपनयोर् युक्तः कपित्थ-मध्य-तिलक-तिलाङ्कोल्ल-जटाः पिबेत् ।
गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥ ३० ॥

श्लोक 31

कपित्थ-मध्य-तिलकं कपित्थ-मध्यं तिलकं -तिलाङ्कोल्ल-जटां पिबेत् तिलाङ्कोल्ल-जटाः पिबेत् मञ्जरीस् तिलकस्य वा अथ-वा सैर्यकान् मूलं स-क्षौद्रं तण्डुलाम्बुना ।
कटुकालाबु-विन्यस्तं पीतं वाम्बु निशोषितम् ॥ ३१ ॥

श्लोक 32

पिबेद् वाम्बु निशोषितम् पिबेच् चाम्बु निशोषितम् सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् ।
जल-पिष्टो ऽ-गदो हन्ति नस्याद्यैर् आखु-जं विषम् ॥ ३२ ॥

श्लोक 33

स-शेषं मूषिक-विषं प्रकुप्यत्य् अभ्र-दर्शने ।
यथा-यथं वा कालेषु दोषाणां वृद्धि-हेतुषु ॥ ३३ ॥

श्लोक 34

स-शेषं मूषक-विषं तत्र सर्वे यथावस्थं प्रयोज्याः स्युर् उपक्रमाः ।
यथा-स्वं ये च निर्दिष्टास् तथा दूषी-विषापहाः ॥ ३४ ॥

श्लोक 35

दंशं त्व् अलर्क-दष्टस्य दग्धम् उष्णेन सर्पिषा ।
प्रदिह्याद् अ-गदैस् तैस् तैः पुराणं च घृतं पिबेत् ॥ ३५ ॥

श्लोक 36

अर्क-क्षीर-युतं चास्य योज्यम् आशु विरेचनम् ।
अङ्कोल्लोत्तर-मूलाम्बु त्रि-पलं स-हविः-पलम् ॥ ३६ ॥

श्लोक 37

अर्क-क्षीर-युतं वास्य पिबेत् स-धत्तूर-फलां श्वेतां वापि पुनर्नवाम् ।
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥ ३७ ॥

श्लोक 38

श्वेतां चापि पुनर्नवाम् रूयिकायाः पयो गुडः रूषिकायाः पयो गुडः भिनत्ति विषम् आलर्कं घन-वृन्दम् इवानिलः ।
स-मन्त्रं सौषधी-रत्नं स्नपनं च प्रयोजयेत् ॥ ३८ ॥

श्लोक 39

चतुष्-पाद्भिर् द्वि-पाद्भिर् वा नख-दन्त-परिक्षतम् ।
शूयते पच्यते राग-ज्वर-स्राव-रुजान्वितम् ॥ ३९ ॥

श्लोक 40

ज्वरास्राव-रुजान्वितम् सोमवल्को ऽश्वकर्णश् च गोजिह्वा हंसपादिका ।
रजन्यौ गैरिकं लेपो नख-दन्त-विषापहः ॥ ४० ॥