अष्टाङ्गहृदयम्/शारीरस्थानम् Adhyay 1

श्लोक 1

शुद्धे शुक्रार्तवे सत्-त्वः स्व-कर्म-क्लेश-चोदितः ।
गर्भः संपद्यते युक्ति-वशाद् अग्निर् इवारणौ ॥ १ ॥

श्लोक 2

स्व-कर्म-फल-नोदितः बीजात्मकैर् महा-भूतैः सूक्ष्मैः सत्-त्वानुगैश् च सः ।
मातुश् चाहार-रस-जैः क्रमात् कुक्षौ विवर्धते ॥ २ ॥

श्लोक 3

तेजो यथार्क-रश्मीनां स्फटिकेन तिरस्-कृतम् ।
नेन्धनं दृश्यते गच्छत् सत्-त्वो गर्भाशयं तथा ॥ ३ ॥

श्लोक 4

कारणानुविधायि-त्वात् कार्याणां तत्-स्व-भाव-ता ।
नाना-योन्य्-आकृतीः सत्-त्वो धत्ते ऽतो द्रुत-लोह-वत् ॥ ४ ॥

श्लोक 5

अत एव च शुक्रस्य बाहुल्याज् जायते पुमान् ।
रक्तस्य स्त्री तयोः साम्ये क्लीबः शुक्रार्तवे पुनः ॥ ५ ॥

श्लोक 6

वायुना बहु-शो भिन्ने यथा-स्वं बह्व्-अपत्य-ता ।
वि-योनि-विकृताकारा जायन्ते विकृतैर् मलैः ॥ ६ ॥

श्लोक 7

मासि मासि रजः स्त्रीणां रस-जं स्रवति त्र्य्-अहम् ।
वत्सराद् द्वा-दशाद् ऊर्ध्वं याति पञ्चाशतः क्षयम् ॥ ७ ॥

श्लोक 8

पूर्ण-षो-डश-वर्षा स्त्री पूर्ण-विंशेन संगता ।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रे ऽनिले हृदि ॥ ८ ॥

श्लोक 9

वीर्य-वन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ।
रोग्य् अल्पायुर् अ-धन्यो वा गर्भो भवति नैव वा ॥ ९ ॥

श्लोक 10

वातादि-कुणप-ग्रन्थि-पूय-क्षीण-मलाह्वयम् ।
बीजा-समर्थं रेतो-ऽस्रं स्व-लिङ्गैर् दोष-जं वदेत् ॥ १० ॥

श्लोक 11

प्रजा-समर्थं रेतो-ऽस्रं रक्तेन कुणपं श्लेष्म-वाताभ्यां ग्रन्थि-संनिभम् ।
पूयाभं रक्त-पित्ताभ्यां क्षीणं मारुत-पित्ततः ॥ ११ ॥

श्लोक 12

कृच्छ्राण्य् एतान्य् अ-साध्यं तु त्रि-दोषं मूत्र-विट्-प्रभम् ।
कुर्याद् वातादिभिर् दुष्टे स्वौषधं कुणपे पुनः ॥ १२ ॥

श्लोक 13

धातकी-पुष्प-खदिर-दाडिमार्जुन-साधितम् ।
पाययेत् सर्पिर् अथ-वा विपक्वम् असनादिभिः ॥ १३ ॥

श्लोक 14

पलाश-भस्माश्मभिदा ग्रन्थ्य्-आभे पूय-रेतसि ।
परूषक-वटादिभ्यां क्षीणे शुक्र-करी क्रिया ॥ १४ ॥

श्लोक 

स्निग्धं वान्तं विरिक्तं च निरूढम् अनुवासितम् ।
योजयेच् छुक्र-दोषार्तं सम्यग् उत्तर-वस्तिभिः ॥ १४+१ ॥

श्लोक 15

संशुद्धो विट्-प्रभे सर्पिर् हिङ्गु-सेव्यादि-साधितम् ।
पिबेद् ग्रन्थ्य्-आर्तवे पाठा-व्योष-वृक्षक-जं जलम् ॥ १५ ॥

श्लोक 16

हिङ्गु-सेव्याग्नि-साधितम् पेयं कुणप-पूयास्रे चन्दनं वक्ष्यते तु यत् ।
गुह्य-रोगे च तत् सर्वं कार्यं सोत्तर-वस्तिकम् ॥ १६ ॥

श्लोक 17

शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु ।
घृत-माक्षिक-तैलाभं सद्-गर्भायार्तवं पुनः ॥ १७ ॥

श्लोक 18

शुद्धं शुक्रं गुरु स्निग्धं लाक्षा-रस-शशास्राभं धौतं यच् च विरज्यते ।
शुद्ध-शुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः ॥ १८ ॥

श्लोक 19

स्नेहैः पुं-सवनैः स्निग्धं शुद्धं शीलित-वस्तिकम् ।
नरं विशेषात् क्षीराज्यैर् मधुरौषध-संस्कृतैः ॥ १९ ॥

श्लोक 20

मधुरौषध-साधितैः नारीं तैलेन माषैश् च पित्तलैः समुपाचरेत् ।
क्षाम-प्रसन्न-वदनां स्फुरच्-छ्रोणि-पयो-धराम् ॥ २० ॥

श्लोक 21

क्षामां प्रसन्न-वदनां स्रस्ताक्षि-कुक्षिं पुंस्-कामां विद्याद् ऋतु-मतीं स्त्रियम् ।
पद्मं संकोचम् आयाति दिने ऽतीते यथा तथा ॥ २१ ॥

श्लोक 22

ऋताव् अतीते योनिः सा शुक्रं नातः प्रतीच्छति ।
मासेनोपचितं रक्तं धमनीभ्याम् ऋतौ पुनः ॥ २२ ॥

श्लोक 23

शुक्रं नान्तः प्रतीच्छति ईषत्-कृष्णं वि-गन्धं च वायुर् योनि-मुखान् नुदेत् ।
ततः पुष्पेक्षणाद् एव कल्याण-ध्यायिनी त्र्य्-अहम् ॥ २३ ॥

श्लोक 24

मृजालङ्कार-रहिता दर्भ-संस्तर-शायिनी ।
क्षैरेयं यावकं स्तोकं कोष्ठ-शोधन-कर्षणम् ॥ २४ ॥

श्लोक 25

कोष्ठ-शोधन-कर्शनम् पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्म-चारिणी ।
चतुर्थे ऽह्नि ततः स्नाता शुक्ल-माल्याम्बरा शुचिः ॥ २५ ॥

श्लोक 26

इच्छन्ती भर्तृ-सदृशं पुत्रं पश्येत् पुरः पतिम् ।
ऋतुस् तु द्वा-दश निशाः पूर्वास् तिस्रो ऽत्र निन्दिताः ॥ २६ ॥

श्लोक 27

पूर्वास् तिस्रश् च निन्दिताः एका-दशी च युग्मासु स्यात् पुत्रो ऽन्यासु कन्यका ।
उपाध्यायो ऽथ पुत्रीयं कुर्वीत विधि-वद् विधिम् ॥ २७ ॥

श्लोक 28

स्यात् पुत्रो ऽन्य-त्र कन्यका नमस्-कार-परायास् तु शूद्राया मन्त्र-वर्जितम् ।
अ-वन्ध्य एवं संयोगः स्याद् अपत्यं च कामतः ॥ २८ ॥

श्लोक 29

सन्तो ह्य् आहुर् अपत्यार्थं दम्-पत्योः संगतिं रहः ।
दुर्-अपत्यं कुलाङ्गारो गोत्रे जातं महत्य् अपि ॥ २९ ॥

श्लोक 30

दम्-पत्योः संगतं रहः दुर्-अपत्यं कुलाङ्गारं इच्छेतां यादृशं पुत्रं तद्-रूप-चरितांश् च तौ ।
चिन्तयेतां जन-पदांस् तद्-आचार-परिच्छदौ ॥ ३० ॥

श्लोक 31

कर्मान्ते च पुमान् सर्पिः-क्षीर-शाल्य्-ओदनाशितः ।
प्राग् दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया ॥ ३१ ॥

श्लोक 32

आरोहेत् स्त्री तु वामेन तस्य दक्षिण-पार्श्वतः ।
तैल-माषोत्तराहारा तत्र मन्त्र् अं प्रयोजयेत् ॥ ३२ ॥

श्लोक 

आरोहेत् स्त्री च वामेन आहिर् अस्य् आयुर् असि सर्वतः प्रतिष्ठासि ॥ ३२+१अ ॥
अहिर् असि सर्वतः प्रतिष्ठासि धाता त्वां दधातु विधाता त्वां दधातु ॥ ३२+१ब् ॥
ब्रह्म-वर्चसा भवेति ॥ ३२+१च् ॥

श्लोक 33

ब्रह्म-वर्चसा भवेद् इति ब्रह्मा बृहस्पतिर् विष्णुः सोमः सूर्यस् तथाश्विनौ ।
भगो ऽथ मित्रा-वरुणौ वीरं ददतु मे सुतम् ॥ ३३ ॥

श्लोक 34

सान्त्वयित्वा ततो ऽन्य-न्यं संविशेतां मुदान्वितौ ।
उत्ताना तन्-मना योषित् तिष्ठेद् अङ्गैः सु-संस्थितैः ॥ ३४ ॥

श्लोक 35

सान्तयित्वा ततो ऽन्यो-ऽन्यं संवसेतां मुदान्वितौ तथा हि बीजं गृह्णाति दोषैः स्व-स्थानम् आस्थितैः ।
लिङ्गं तु सद्यो-गर्भाया योन्या बीजस्य संग्रहः ॥ ३५ ॥

श्लोक 36

दोषैः स्व-स्थानम् आश्रितैः योन्यां बीजस्य संग्रहः तृप्तिर् गुरु-त्वं स्फुरणं शुक्रास्रान्-अनु बन्धनम् ।
हृदय-स्पन्दनं तन्द्रा तृड् ग्लानी रोम-हर्षणम् ॥ ३६ ॥

श्लोक 37

अ-व्यक्तः प्रथमे मासि सप्ताहात् कलली-भवेत् ।
गर्भः पुं-सवनान्य् अत्र पूर्वं व्यक्तेः प्रयोजयेत् ॥ ३७ ॥

श्लोक 38

बली पुरुष-कारो हि दैवम् अप्य् अतिवर्तते ।
पुष्ये पुरुषकं हैमं राजतं वाथ-वायसम् ॥ ३८ ॥

श्लोक 39

कृत्वाग्नि-वर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत् ।
गौरदण्डम् अपामार्गं जीवकर्षभ-सैर्यकान् ॥ ३९ ॥

श्लोक 40

पिबेत् पुष्ये जले पिष्टान् एक-द्वि-त्रि-समस्त-शः ।
क्षीरेण श्वेत-बृहती-मूलं नासा-पुटे स्वयम् ॥ ४० ॥

श्लोक 41

पुत्रार्थं दक्षिणे सिञ्चेद् वामे दुहितृ-वाञ्छया ।
पयसा लक्ष्मणा-मूलं पुत्रोत्पाद-स्थिति-प्रदम् ॥ ४१ ॥

श्लोक 42

नासयास्येन वा पीतं वट-शुङ्गाष्टकं तथा ।
ओषधीर् जीवनीयाश् च बाह्यान्तर् उपयोजयेत् ॥ ४२ ॥

श्लोक 43

वट-शृङ्गाष्टकं तथा उपचारः प्रिय-हितैर् भर्त्रा भृत्यैश् च गर्भ-धृक् ।
नव-नीत-घृत-क्षीरैः सदा चैनाम् उपाचरेत् ॥ ४३ ॥

श्लोक 44

अति-व्यवायम् आयासं भारं प्रावरणं गुरु ।
अ-काल-जागर-स्वप्नं कठिनोत्कटकासनम् ॥ ४४ ॥

श्लोक 45

अति-व्यवायं व्यायामं अ-काल-जागर-स्वप्न- -कठिनोत्कटकासनम् कठिनोत्कटुकासनम् -कठिनोत्कुटकासनम् शोक-क्रोध-भयोद्वेग-वेग-श्रद्धा-विधारणम् ।
उपवासाध्व-तीक्ष्णोष्ण-गुरु-विष्टम्भि-भोजनम् ॥ ४५ ॥

श्लोक 46

उपवासादि-तीक्ष्णोष्ण- रक्तं निवसनं श्वभ्र-कूपेक्षां मद्यम् आमिषम् ।
उत्तान-शयनं यच् च स्त्रियो नेच्छन्ति तत् त्यजेत् ॥ ४६ ॥

श्लोक 47

रक्तं वि-वसनं श्वभ्र- तथा रक्त-स्रुतिं शुद्धिं वस्तिम् आ-मासतो ऽष्टमात् ।
एभिर् गर्भः स्रवेद् आमः कुक्षौ शुष्येन् म्रियेत वा ॥ ४७ ॥

श्लोक 48

एवं गर्भः स्रवेद् आमः वातलैश् च भवेद् गर्भः कुब्जान्ध-जड-वामनः ।
पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥ ४८ ॥

श्लोक 49

व्याधींश् चास्या मृदु-सुखैर् अ-तीक्ष्णैर् औषधैर् जयेत् ।
द्वितीये मासि कललाद् घनः पेश्य् अथ-वार्बुदम् ॥ ४९ ॥

श्लोक 50

पुं-स्त्री-क्लीबाः क्रमात् तेभ्यस् तत्र व्यक्तस्य लक्षणम् ।
क्षाम-ता गरिमा कुक्षेर् मूर्छा छर्दिर् अ-रोचकः ॥ ५० ॥

श्लोक 51

क्षाम-ता गरिमा कुक्षौ जृम्भा प्रसेकः सदनं रोम-राज्याः प्रकाशनम् ।
अम्लेष्ट-ता स्तनौ पीनौ स-स्तन्यौ कृष्ण-चूचुकौ ॥ ५१ ॥

श्लोक 52

पाद-शोफो विदाहो ऽन्ये श्रद्धाश् च विविधात्मिकाः ।
मातृ-जं ह्य् अस्य हृदयं मातुश् च हृदयेन तत् ॥ ५२ ॥

श्लोक 53

पाद-शोफो विदाहो ऽन्ने संबद्धं तेन गर्भिण्या नेष्टं श्रद्धा-विमाननम् ।
देयम् अप्य् अ-हितं तस्यै हितोपहितम् अल्पकम् ॥ ५३ ॥

श्लोक 54

नेष्टं श्रद्धा-विधारणम् नेष्टं श्रद्धावमाननम् श्रद्धा-विघाताद् गर्भस्य विकृतिश् च्युतिर् एव वा ।
व्यक्ती-भवति मासे ऽस्य तृतीये गात्र-पञ्चकम् ॥ ५४ ॥

श्लोक 55

श्रद्धाभिघाताद् गर्भस्य मूर्धा द्वे सक्थिनी बाहू सर्व-सूक्ष्माङ्ग-जन्म च ।
समम् एव हि मूर्धाद्यैर् ज्ञानं च सुख-दुःखयोः ॥ ५५ ॥

श्लोक 56

सर्व-सूक्ष्माङ्ग-जन्म तु विज्ञानं सुख-दुःखयोः गर्भस्य नाभौ मातुश् च हृदि नाडी निबध्यते ।
यया स पुष्टिम् आप्नोति केदार इव कुल्यया ॥ ५६ ॥

श्लोक 57

यया पुष्टिम् अवाप्नोति चतुर्थे व्यक्त-ताङ्गानां चेतनायाश् च पञ्चमे ।
षष्ठे स्नायु-सिरा-रोम-बल-वर्ण-नख-त्वचाम् ॥ ५७ ॥

श्लोक 58

सर्वैः सर्वाङ्ग-संपूर्णो भावैः पुष्यति सप्तमे ॥ ५८अब् ॥
गर्भेणोत्पीडिता दोषास् तस्मिन् हृदयम् आश्रिताः ॥ ५८च्द् ॥
कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च ॥ ५८एf ॥

श्लोक 59

नव-नीतं हितं तत्र कोलाम्बु-मधुरौषधैः ।
सिद्धम् अल्प-पटु-स्नेहं लघु स्वादु च भोजनम् ॥ ५९ ॥

श्लोक 60

चन्दनोशीर-कल्केन लिम्पेद् ऊरु-स्तनोदरम् ।
श्रेष्ठया वैण-हरिण-शश-शोणित-युक्तया ॥ ६० ॥

श्लोक 61

अश्वघ्न-पत्त्र-सिद्धेन तैलेनाभ्यज्य मर्दयेत् ।
पटोल-निम्ब-मञ्जिष्ठा-सुरसैः सेचयेत् पुनः ॥ ६१ ॥

श्लोक 62

दार्वी-मधुक-तोयेन मृजां च परिशीलयेत् ।
ओजो ऽष्टमे संचरति माता-पुत्रौ मुहुः क्रमात् ॥ ६२ ॥

श्लोक 63

तेन तौ म्लान-मुदितौ तत्र जातो न जीवति ।
शिशुर् ओजो-ऽन्-अवस्थानान् नारी संशयिता भवेत् ॥ ६३ ॥

श्लोक 64

स्याताम् अत्र न जीवति स्यातां जातो न जीवति क्षीर-पेया च पेयात्र स-घृतान्वासनं घृतम् ।
मधुरैः साधितं शुद्ध्यै पुराण-शकृतस् तथा ॥ ६४ ॥

श्लोक 65

स-घृतान्वासनं हितम् शुष्क-मूलक-कोलाम्ल-कषायेण प्रशस्यते ।
शताह्वा-कल्कितो वस्तिः स-तैल-घृत-सैन्धवः ॥ ६५ ॥

श्लोक 66

तस्मिंस् त्व् एकाह-याते ऽपि कालः सूतेर् अतः परम् ।
वर्षाद् विकार-कारी स्यात् कुक्षौ वातेन धारितः ॥ ६६ ॥

श्लोक 67

तस्मिन्न् एकाह-याते ऽपि शस्तश् च नवमे मासि स्निग्धो मांस-रसौदनः ।
बहु-स्नेहा यवागूर् वा पूर्वोक्तं चानुवासनम् ॥ ६७ ॥

श्लोक 68

स्निग्ध-मांस-रसौदनः तत एव पिचुं चास्या योनौ नित्यं निधापयेत् ।
वात-घ्न-पत्त्र-भङ्गाम्भः शीतं स्नाने ऽन्व्-अहं हितम् ॥ ६८ ॥

श्लोक 69

निः-स्नेहाङ्गी न नवमान् मासात् प्रभृति वासयेत् ।
प्राग् दक्षिण-स्तन-स्तन्या पूर्वं तत्-पार्श्व-चेष्टिनी ॥ ६९ ॥

श्लोक 70

पुं-नाम-दौर्हृद-प्रश्न-रता पुं-स्वप्न-दर्शिनी ।
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥ ७० ॥

श्लोक 71

पुत्रं सूते ऽन्य-था कन्यां या चेच्छति नृ-संगतिम् ।
नृत्य-वादित्र-गान्धर्व-गन्ध-माल्य-प्रिया च या ॥ ७१ ॥

श्लोक 72

क्लीबं तत्-संकरे तत्र मध्यं कुक्षेः समुन्नतम् ।
यमौ पार्श्व-द्वयोन्नामात् कुक्षौ द्रोण्याम् इव स्थिते ॥ ७२ ॥

श्लोक 73

प्राक् चैव नवमान् मासात् सा सूति-गृहम् आश्रयेत् ।
देशे प्रशस्ते संभारैः संपन्नं साधके ऽहनि ॥ ७३ ॥

श्लोक 74

सूतिका-गृहम् आश्रयेत् तत्रोदीक्षेत सा सूतिं सूतिका-परिवारिता ।
अद्य-श्वः-प्रसवे ग्लानिः कुक्ष्य्-अक्षि-श्लथ-ता क्लमः ॥ ७४ ॥

श्लोक 75

आसन्न-प्रसवे ग्लानिः अधो-गुरु-त्वम् अ-रुचिः प्रसेको बहु-मूत्र-ता ।
वेदनोरूदर-कटी-पृष्ठ-हृद्-वस्ति-वङ्क्षणे ॥ ७५ ॥

श्लोक 76

योनि-भेद-रुजा-तोद-स्फुरण-स्रवणानि च ।
आवीनाम् अनु जन्मातस् ततो गर्भोदक-स्रुतिः ॥ ७६ ॥

श्लोक 77

अथोपस्थित-गर्भां तां कृत-कौतुक-मगलाम् ।
हस्त-स्थ-पुं-नाम-फलां स्व्-अभ्यक्तोष्णाम्बु-सेचिताम् ॥ ७७ ॥

श्लोक 78

स्व्-अक्ताम् उष्णाम्बु-सेचिताम् पाययेत् स-घृतां पेयां तनौ भू-शयने स्थिताम् ।
आभुग्न-सक्थिम् उत्तानाम् अभ्यक्ताङ्गीं पुनः पुनः ॥ ७८ ॥

श्लोक 79

अधो नाभेर् विमृद्नीयात् कारयेज् जृम्भ-चङ्क्रमम् ।
गर्भः प्रयात्य् अवाग् एवं तल्-लिङ्गं हृद्-विमोक्षतः ॥ ७९ ॥

श्लोक 80

आविश्य जठरं गर्भो वस्तेर् उपरि तिष्ठति ।
आव्यो ऽभित्वरयन्त्य् एनां खट्वाम् आरोपयेत् ततः ॥ ८० ॥

श्लोक 81

आव्यो हि त्वरयन्त्य् एनां अथ संपीडिते गर्भे योनिम् अस्याः प्रसारयेत् ।
मृदु पूर्वं प्रवाहेत बाढम् आ-प्रसवाच् च सा ॥ ८१ ॥

श्लोक 82

योनिम् अस्याः प्रसाधयेत् हर्षयेत् तां मुहुः पुत्र-जन्म-शब्द-जलानिलैः ।
प्रत्यायान्ति तथा प्राणाः सूति-क्लेशावसादिताः ॥ ८२ ॥

श्लोक 83

धूपयेद् गर्भ-सङ्गे तु योनिं कृष्णाहि-कञ्चुकैः ।
हिरण्यपुष्पी-मूलं च पाणि-पादेन धारयेत् ॥ ८३ ॥

श्लोक 84

सुवर्चलां विशल्यां वा जराय्व्-अ-पतने ऽपि च ।
कार्यम् एतत् तथोत्क्षिप्य बाह्वोर् एनां विकम्पयेत् ॥ ८४ ॥

श्लोक 85

कार्यम् एतत् तथोत्कृष्य बाह्वोर् एतां विकम्पयेत् कटीम् आकोटयेत् पार्ष्ण्या स्फिजौ गाढं निपीडयेत् ।
तालु-कण्ठं स्पृशेद् वेण्या मूर्ध्नि दद्यात् स्नुही-पयः ॥ ८५ ॥

श्लोक 86

भूर्ज-लाङ्गलिकी-तुम्बी-सर्प-त्वक्-कुष्ठ-सर्षपैः ।
पृथग् द्वाभ्यां समस्तैर् वा योनि-लेपन-धूपनम् ॥ ८६ ॥

श्लोक 87

योनि-धूपं च लेपनम् कुष्ठ-तालीश-कल्कं वा सुरा-मण्डेन पाययेत् ।
यूषेण वा कुलत्थानां बाल्बजेनासवेन वा ॥ ८७ ॥

श्लोक 88

बिल्व-जेनासवेन वा शताह्वा-सर्षपाजाजी-शिग्रु-तीक्ष्णक-चित्रकैः ।
स-हिङ्गु-कुष्ठ-मदनैर् मूत्रे क्षीरे च सार्षपम् ॥ ८८ ॥

श्लोक 89

तैलं सिद्धं हितं पायौ योन्यां वाप्य् अनुवासनम् ।
शतपुष्पा-वचा-कुष्ठ-कणा-सर्षप-कल्कितः ॥ ८९ ॥

श्लोक 90

योन्यां वा ह्य् अनुवासनम् निरूहः पातयत्य् आशु स-स्नेह-लवणो ऽपराम् ।
तत्-सङ्गे ह्य् अनिलो हेतुः सा निर्यात्य् आशु तज्-जयात् ॥ ९० ॥

श्लोक 91

कुशला पाणिनाक्तेन हरेत् कॢप्त-नखेन वा ।
मुक्त-गर्भापरां योनिं तैलेनाङ्गं च मर्दयेत् ॥ ९१ ॥

श्लोक 92

मक्कल्लाख्ये शिरो-वस्ति-कोष्ठ-शूले तु पाययेत् ।
सु-चूर्णितं यव-क्षारं घृतेनोष्ण-जलेन वा ॥ ९२ ॥

श्लोक 93

धान्याम्बु वा गुड-व्योष-त्रि-जातक-रजो-ऽन्वितम् ।
अथ बालोपचारेण बालं योषिद् उपाचरेद् ॥ ९३ ॥

श्लोक 94

सूतिका क्षुद्-वती तैलाद् घृताद् वा महतीं पिबेत् ।
पञ्च-कोलकिनीं मात्राम् अनु चोष्णं गुडोदकम् ॥ ९४ ॥

श्लोक 95

वात-घ्नौषध-तोयं वा तथा वायुर् न कुप्यति ।
विशुध्यति च दुष्टास्रं द्वि-त्रि-रात्रम् अयं क्रमः ॥ ९५ ॥

श्लोक 96

यथा वायुर् न कुप्यति स्नेहा-योग्या तु निः-स्नेहम् अमुम् एव विधिं भजेत् ।
पीत-वत्याश् च जठरं यमकाक्तं विवेष्टयेत् ॥ ९६ ॥

श्लोक 97

जीर्णे स्नाता पिबेत् पेयां पूर्वोक्तौषध-साधिताम् ।
त्र्य्-अहाद् ऊर्ध्वं विदार्य्-आदि-वर्ग-क्वाथेन साधिता ॥ ९७ ॥

श्लोक 98

हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाथ-वा ।
सप्त-रात्रात् परं चास्यै क्रम-शो बृंहणं हितम् ॥ ९८ ॥

श्लोक 99

सप्त-रात्रात् परं चास्याः सप्त-रात्रात् परं वास्याः द्वा-दशाहे ऽन्-अतिक्रान्ते पिशितं नोपयोजयेत् ।
यत्नेनोपचरेत् सूतां दुः-साध्यो हि तद्-आमयः ॥ ९९ ॥

श्लोक 100

पिशितं नैव योजयेत् गर्भ-वृद्धि-प्रसव-रुक्-क्लेदास्र-स्रुति-पीडनैः ।
एवं च मासाद् अध्य्-अर्धान् मुक्ताहारादि-यन्त्रणा ॥ १०० ॥

श्लोक 

गत-सूताभिधाना स्यात् पुनर् आर्तव-दर्शनात् ॥ १००ऊअब् ॥