धातूपधातुरसोपरसरत्नोपरत्नविषोपविषवर्गः contd.

श्लोक 140

टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत्

श्लोक 141

स्फटी च स्फटिका प्रोक्ता श्वेता शुभ्रा च रङ्गदा दृढरङ्गा रङ्गदृढा रङ्गाङ्गापि च कथ्यते

श्लोक 142

स्फटिका तु कषायोष्णा वातपित्तकफव्रणान् निहन्ति श्वित्रवीसर्पान् योनिसङ्कोचकारिणी

श्लोक 143

राजावर्त्तो नृपावर्त्तो राजन्यावर्त्तकस्तथा आवर्त्तमणिसंज्ञश्च ह्यावर्त्तोऽपि तथैव च

श्लोक 144

राजावर्त्तं कटुस्तिक्तः शिशिरः पित्तनाशनः राजावर्त्तः प्रमेहघ्नश्छर्दिहिक्कानिवारणः

श्लोक 145

चुम्बको लेखनः शीतो मेदोविषगरापहः चुम्बकः कान्तपाषाणोऽयस्कान्तो लौहकर्षकः

श्लोक 146

गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा सुवर्णगैरिकं त्वन्यत्ततो रक्ततरं हि तत्

श्लोक 147

गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम्

श्लोक 148

खटिका कठिनी चापि लेखनी च निगद्यते खटी दाहास्रजिच्छीता मधुरा विषशोथजित्

श्लोक 149

लेपादेतद्गुणा प्रोक्ता भक्षिता मृत्तिकासमा खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते

श्लोक 150

बालुका सिकता प्रोक्ता शर्करा रेतजाऽपि च वालुका लेखनी शीता व्रणोरःक्षतनाशिनी

श्लोक 151

खर्परी तुत्थकं तुत्थादन्यत्तद्र सकं स्मृतम् ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृता

श्लोक 152

काशीशं धातुकाशीशं पांशुकाशीशमित्यपि तदेव किञ्चित्पीतं तु पुष्पकाशीशमुच्यते

श्लोक 153

काशीशमम्लमुष्णं च तिक्तञ्च तुवरं तथा
वातश्लेष्महरं केश्यं नेत्रकण्डूविषप्रणुत्
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम्

श्लोक 154

सौराष्ट्री तुवरी काली मृत्तालकसुराष्ट्रजे

श्लोक 155

आढकी चापि सा ख्याता मृत्स्ना च सुरमृत्तिका स्फटिकायागुणाः सर्वे सौराष्ट्र्या अपि कीर्त्तिताः

श्लोक 156

मृन्मृदा मृत्तिका मृत्स्ना क्षेत्रजा कृष्णमृत्तिका कृष्णमृत् क्षतदाहास्रप्रदरश्लेष्मपित्तनुत्

श्लोक 157

पङ्कस्तु जलकल्कश्च चुलुकः कर्दमो मलः
चिकिलः पलितो द्रा पः पललश्च निषद्वरः
कर्दमो दाहपित्तास्रशोथघ्नः शीतलः सरः

श्लोक 158

कपर्दको वराटश्च कपर्दी च वराटिका कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी

श्लोक 159

शङ्खः समुद्र जः कम्बुः सुनादः पावनध्वनिः शङ्खो नेत्र्! यो हिमः शीतो लघुः पित्तकफास्रजित्

श्लोक 160

बोलगन्धरसप्राणपिण्डगोपरसाः समाः
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम्
मधुरं कटु तिक्तं च दाहस्वेदत्रिदोषजित्
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धिकृत्

श्लोक 161

हिमवत्पादशिखरे कङ्कुष्ठमुपजायते तत्रैकं रक्तकालं स्यात्तदन्यद्दण्डकं स्मृतम्

श्लोक 162

पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाऽण्डकम्

श्लोक 163

कङ्कुष्टं काककुष्ठं च विरङ्गं कोलकाकुलम्

श्लोक 164

कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् कृमिशोथोदराध्मानगुल्मानाहकफापहम्

श्लोक 165

धनार्थिनो जनाःसर्वे रमन्तेऽस्मिन्नतीव यत् ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः

श्लोक 166

रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते

श्लोक 167

रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च
इन्द्र नीलश्च गोमेदस्तथा वैदूर्यमित्यपि
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव

श्लोक 168

मुक्ताफलं हीरकं च वैदूर्यं पद्मरागकम्

श्लोक 169

पुष्परागं च गोमेदं नीलं गारुत्मतं तथा प्रवालयुक्तान्येतानि महारत्नानि वै नव

श्लोक 170

हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्रियः स्मृतः
पीतो वैश्योऽसितः शूद्र श्चतुर्वर्णात्मकश्च सः

श्लोक 171

रसायने मतो विप्रः सर्वसिद्धिप्रदायकः क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः

श्लोक 172

वैश्यो धनप्रदः प्रोक्तस्तथा देहस्यदार्ढ्यकृत् शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च

श्लोक 173

अथ पुंस्त्रीनपुंसकभेदात् त्रिविधस्य तस्य
पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः
सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः

श्लोक 174

पुरुषास्ते समाख्याता रेखाविन्दु विवर्जिताः रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः

श्लोक 175

त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुंसकाः तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः

श्लोक 176

स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः नपुंसकास्त्ववीर्याः स्युरकामा सत्ववर्जिताः 

श्लोक 177

स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीबं क्लीबे प्रयोजयेत् सर्वेभ्यः सर्वदादेयाः पुरुषा वीर्यवर्धनाः

श्लोक 178

अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा पाण्डुतां पङ्गुलत्वं च तस्मात्संशोध्य मारयेत्

श्लोक 179

आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः

श्लोक 180

गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः

श्लोक 181

माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहितम्

श्लोक 182

पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः

श्लोक 183

नीलं तथेन्द्र नीलञ्च गोमेदः पीतरत्नकम्

श्लोक 184

वैदूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम्

श्लोक 185

मौक्तिकं शौतिक्तं मुक्ता तथा मुक्ताफलञ्च तत्
शुक्तिः शङ्खो गजः क्रोडः फणी मत्स्यश्च दर्दुरः
वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः
मौक्तितं शीतलं वृष्यं चक्षुष्यं बलपुष्टिदम्

श्लोक 186

पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः

श्लोक 187

रत्नानि भक्षितानि स्युर्मधुराणि सराणि च
चक्षुष्याणि च शीतानि विषघ्नानि धृतानि च
मङ्गल्यानि मनोज्ञानि ग्रहदोषहराणि च

श्लोक 188

किं रत्नं कस्य ग्रहस्य प्रीतिकारित्वेन दोषहरं भवतीति प्रश्ने
तदुत्तरमाहै रत्नमालायाम्
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो
र्माहेयस्य तु विद्रुमो निगदितः सौम्यस्य गारुत्मतम्
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने
र्नीलं निर्मलमन्ययोर्निगदिते गोमेदवैदूर्यके

श्लोक 189

उपरत्नानि काचश्च कर्पूराश्मा तथैव च मुक्ताशुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि

श्लोक 190

गुणा यथैव रत्नानामुपरत्नेषु ते तथा किन्तु किञ्चित्ततो हीना विशेषोऽयमुदाहृतः

श्लोक 191

विषं तु गरलः क्षवेडस्तस्य भेदानुदाहरे
वत्सनाभः सहारिद्र सक्तुकश्च प्रदीपनः
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव

श्लोक 192

सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः

श्लोक 193

हरिद्रा तुल्यमूलो यो हारिद्र स उदाहृतः १९३

श्लोक 194

यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः

श्लोक 195

वर्णतो लोहितो यः स्याद्दीप्तिमान् दहनप्रभः महादाहकरः पूर्वैः कथितं स प्रदीपनः

श्लोक 196

सुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते

श्लोक 197

यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम् स शृङ्गिक इति प्रोक्तो द्र व्यतत्त्वविशारदैः

श्लोक 198

देवासुररणे देवैर्हतस्य पृथुमालिनः
दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः
सोऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्

श्लोक 199

गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः
असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये
दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते

श्लोक 200

वर्णतः कपिलो यः स्यात्तथा भवति सारतः ब्रह्मपुत्रः सविज्ञेयो जायते मलयाचले

श्लोक 201

ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो लोहितप्रभः वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः

श्लोक 202

रसायने विषं विप्रं क्षत्रियं देहपुष्टये वैश्यं कुष्ठविनाशाय शूद्रं दद्याद्वधाय हि

श्लोक 203

विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च आग्नेयं वातकफहृद्योगवाहि मदावहम्

श्लोक 204

तदेव युक्तियुक्तं तु प्राणदायि रसायनम् योगवाहि त्रिदोषघ्नं बृंहणं वीर्यवर्द्धनम्

श्लोक 205

ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत्

श्लोक 206

अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः