श्लोक 70
कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशाजनैः संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः
श्लोक 71
कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम् गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्
श्लोक 72
पित्तलं त्वारकूटं स्यादारो रीतिश्च कथ्यते राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलापि च
श्लोक 73
रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः
श्लोक 74
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः
श्लोक 75
रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम्
श्लोक 76
सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम्
श्लोक 77
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः
सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम्
भग्नसन्धानजननं व्रणशोधनरोपणम्
श्लोक 78
निदाघे घर्मसन्तप्ता धातुसारं धराधराः निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम्
श्लोक 79
सौवर्णं राजतं ताम्रमायसं तच्चतुर्विधम् शिलाजत्वद्रि जतु च शैलनिर्यास इत्यपि
श्लोक 80
गैरेयमश्मजं चापि गिरिजं शैलधातुजम् शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम्
श्लोक 81
छेदि योगवहं हन्ति कफमेहाश्मशर्कराः मूत्रकृच्छ्रं क्षयं श्वासं वातार्शांसि च पाण्डुताम्
श्लोक 82
अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन्
श्लोक 83
सौवर्णं तु जपापुष्पवर्णं भवति तद्र सात् मधुरं कटु तिक्तं च शीतलं कटुपाकि च
श्लोक 84
राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते
श्लोक 85
लौहं जटायुपक्षाभं सत्तिक्तं लवणं भवेत् विपाके कटुकं शीतं सर्वं श्रेष्ठमुदाहृतम्
श्लोक 86
रसायनार्थिभिर्लोकैः पारदो रस्यते यतः ततो रस इति प्रोक्तः स च धातुरपि स्मृतः
श्लोक 87
शिवाङ्गात्प्रच्युतं रेतः पतितं धरणीतले तद्देहसारजातत्वाच्छुक्लमच्छमभूच्च तत्
श्लोक 88
क्षेत्रभेदेन विज्ञेयं शिववीर्यं चतुर्विधम्
श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत्क्रमात्
ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्च खलु जातितः
श्लोक 89
श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने धातुवादे तु तत्पीतं खे गतौ कृष्णमेव च
श्लोक 90
पारदो रसधातुश्च रसेन्द्र श्च महारसः
श्लोक 91
चपलः शिववीर्यश्च रसः सूतः शिवाह्वयः पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः
श्लोक 92
योगवाही महावृष्यः सदा दृष्टिबलप्रदः सर्वामयहरः प्रोक्तो विशेषात्सर्वकुष्ठनुत्
श्लोक 93
स्वस्थो रसो भवेद् ब्रह्मा बद्धो ज्ञेयो जनार्दनः रञ्जितः कामितश्चापि साक्षाद्देवो महेश्वरः
श्लोक 94
मूर्च्छितो हरति रुजं बन्धनमनुभूय खे गतिं कुरुते अजरीकरोति हि मृतः कोऽन्य करुणाऽकरः सूतात्
श्लोक 95
असाध्यो यो भवेद्रो गो यस्य नास्ति चिकित्सितम् रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम्
श्लोक 96
मलं विषं वह्निगिरित्वचापलं नैसर्गिकं दोषमुशन्ति पारदे उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौ मुनीश्वरैः
श्लोक 97
मलेन मूर्च्छा मरणं विषेण दाहोऽग्निना कष्टतरः शरीरे
देहस्य जाड्यं गिरिणा सदा स्युश्चाञ्चल्यतो वीर्यहृतिश्च पुंसाम्
वङ्गेन कुष्ठं भुजगेन षण्ढो भवेदतोऽसौ परिशोधनीयः
श्लोक 98
वह्निर्विषं मलं चेति मुख्या दोषास्त्रयो रसे एते कुर्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात्
श्लोक 99
अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि तथाऽप्येते त्रयो दोषाहरणीया विशेषतः
श्लोक 100
संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् देहस्य नाशं विदधाति नूनं कष्टांश्च रोगाञ्जनयेन्नराणाम्
श्लोक 101
गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्कणं
राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटी गैरिकम्
कासीसं रसकं कपर्दसिकताबोलाश्च कुङ्कष्ठकं
सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः
श्लोक 102
हिङ्गुलं दरदं म्लेच्छमिङ्गुलं चूर्णपारदम् दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः
श्लोक 103
हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरम्
श्लोक 104
चर्मारः शुक्लवर्णः स्यात्स पीतः शुकतुण्डकः जपाकुसुमसङ्काशो हंसपादो महोत्तमः
श्लोक 105
तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति
श्लोक 106
उर्ध्वपातनयुक्त्या तु डमरुयंत्रपाचितम् हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत्
श्लोक 107
श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाऽप्लुतम् दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ
श्लोक 108
प्रसृतं यद्र जस्तस्माद्गन्धकः समभूत्ततः गन्धको गान्धिकश्चापि गन्धपाषाण इत्यपि
श्लोक 109
सौगन्धिकश्च कथितो बलिर्बलरसोऽपि च चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः
श्लोक 110
रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने व्रणादिलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्लभः
श्लोक 111
गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः
पित्तलः कटुकः पाके जन्तुकण्डूविसर्पजित्
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः
श्लोक 112
अशोधितो गन्धक एव कुष्ठं करोति तापं विषमं शरीरे सौख्यं च रूपं च वलं तथौजः शुक्रं निहन्त्येव करोति चास्रम्
श्लोक 113
पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः
श्लोक 114
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम्
श्लोक 115
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् गगनात्स्खलितं यस्माद्गगनं च ततो मतम्
श्लोक 116
विप्रक्षत्रियविट्शूद्र भेदात्तत्स्याच्चतुर्विधम् क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः
श्लोक 117
प्रशस्यते सितं तारे रक्तं तत्तु रसायने पीतं हेमनि कृष्णं तु गदेषु द्रुतयेऽपि च
श्लोक 118
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् मुच्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसञ्चयम्
श्लोक 119
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् दुर्दरं त्वग्निनिक्षिप्तं कुरुते दुर्दरध्वनिम्
श्लोक 120
गोलकान्बहुशः कृत्वा स स्यान्मृत्युप्रदायकः नागं तु नागवद्बह्वौ फूत्कारं परिमुञ्चति
श्लोक 121
तद्भक्षितमवश्यं तु विदधाति भगन्दरम् वज्रं तु वज्रवत्तिष्टेत्तन्नाग्नौ विकृतिं व्रजेत्
श्लोक 122
सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत्
श्लोक 123
अभ्रमुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम् दक्षिणाद्रि भवं स्वल्पसत्वमल्पगुणप्रदम्
श्लोक 124
अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनं च हन्यात्त्रिदोषं व्रणमेहकुष्टप्लीहोदरग्रन्थिविषकृमींश्च
श्लोक 125
रोगान्हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान्विक्रमैः सिंहतुल्यान्
मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम्
श्लोक 126
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोथम् हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं त्वसिद्धं गुरु तापदं स्यात्
श्लोक 127
हरितालं तु तालं स्यादालं तालकमित्यपि हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम्
श्लोक 128
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत्
श्लोक 129
पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्र सायनम् निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु
श्लोक 130
स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम्
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान्
श्लोक 131
हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापञ्चाङ्गसङ्कोचपीडाम्
वितरति कफवातौ कुष्ठरोगं विदध्यात्
इदमशितमशुद्धं मारितं चाप्यसम्यक्
श्लोक 132
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका नैपाली कुनटी गोला शिला दिव्यौषधिः स्मृता
श्लोक 133
मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत्
श्लोक 134
मनः शिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण मलानुबन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात्
श्लोक 135
अञ्जनं यामुनं चापि कापोताञ्जनमित्यपि तत्तु स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम्
श्लोक 136
वल्मीकशिखराकारे भिन्नमञ्जनसन्निभम् घृष्टं तु गैरिकाकारमेतत्स्रोतोऽञ्जनं स्मृतम्
श्लोक 137
स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत्
श्लोक 138
कषायं लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम् सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः
श्लोक 139
स्रोतोऽञ्जनगुणाः सर्वे सौवीरेऽपि मता बुधैः किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम्