श्लोक 166
दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्
श्लोक 167
कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा भूतिकं ध्यामपौरञ्च श्यामकं धूपगन्धिकम्
श्लोक 168
रौहिषं तुवरं तिक्तं कटुपाकं व्यपोहति हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान्
श्लोक 169
गुह्यबीजं तु भूतीकं सुगन्धं जम्बुकप्रियम् भूतृणं तु भवेच्छत्रा मालातृणकमित्यपि
श्लोक 170
भूतृणं कटुकं तिक्तं तीक्ष्णोष्णं रेचनं लघु विदाहि दीपनं रूक्षमनेत्र्! यं मुखशोधनम्
श्लोक 171
अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम्
श्लोक 172
नीलदूर्बा रुहाऽनन्ता भार्गवी शतपर्विका शष्पं सहस्रवीर्या च शतवल्ली च कीर्त्तिता
श्लोक 173
नीलदूर्वा हिमा तिक्ता मधुरा तुवरा हरेत् कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान्
श्लोक 174
दूर्वा शुक्ला तु गोलोमी शतवीर्या च कथ्यते श्वेता दूर्वा कषाया स्यात्स्वाद्वी व्रण्या च जीवनी तिक्ता हिमा विसर्पास्रतृट्पित्तकफदाहहृत्
श्लोक 175
गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलादनी गण्डदूर्वा हिमा लोहद्रा विणी ग्राहिणी लघुः
श्लोक 176
तिक्ता कषाया मधुरा वातकृत्कटुपाकिनी दाहतृष्णाबलासास्रकुष्ठपित्तज्वरापहा
श्लोक 177
वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः वाराहीकन्द एवान्यैश्चर्मकारालुको मतः
श्लोक 178
अनूपसम्भवे देशे वराह इव लोमवान् वाराहवदना गृष्टिर्वरदेत्यपि कथ्यते
श्लोक 179
वाराही तु रसे स्वाद्वी तिक्ता पाके पुनः कटुः शुक्रायुःस्वरवर्णाग्निबलपित्तविवर्द्धिनी कफकुष्ठमरुन्मेहकृमिहृच्च रसायनी
श्लोक 180
विदारी स्वादुकन्दा च सा तु क्रोष्ट्रीसिता स्मृता इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी
श्लोक 181
विदारी मधुरा स्निग्धा बृंहणी स्तन्यशुक्रदा
श्लोक 182
शीता स्वर्या मूत्रला च जीवनी बलवर्णदा गुरुः पित्तास्रपवनदाहान् हन्ति रसायनी
श्लोक 183
तालमूली तु विद्वद्भिर्मुशली परिकीर्त्तिता मुशली मधुरा वृष्या वीर्योष्णा बृंहणी गुरुः तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा
श्लोक 184
शतावरी बुहसुता भीरुरिन्दीवरी वरी नारायणी शतपदी शतवीर्या च पीवरी
श्लोक 185
महाशतावरी चान्या शतमूल्यूर्ध्वकण्टिका सहस्रवीर्या हेतुश्च ऋष्यप्रोक्ता महोदरी
श्लोक 186
शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायनी मेधाऽग्निपुष्टिदा स्निग्धा नेत्र्! या गुल्मातिसारजित्
श्लोक 187
शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित् महाशतावरी मेध्या हृद्या वृष्या रसायनी
श्लोक 188
शीतवीर्या निहन्त्यर्शोग्रहणीनयनामयान् तदङ्कुरस्रिदोषघ्नो लघुरर्शःक्षयापहा
श्लोक 189
गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया वराहकर्णी वरदा बलदा कुष्ठगन्धिनी
श्लोक 190
अश्वगन्धाऽनिलश्लेष्मश्वित्रशोथक्षयापहा बल्या रसायनी तिक्ता कषायोष्णाऽतिशुक्रला
श्लोक 191
पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका
श्लोक 192
पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः हन्ति शूलज्वरच्छर्दिकुष्ठातीसारहृद्रुजःदाहकण्डूविषश्वासकृमिगुल्मगरव्रणान्
श्लोक 193
श्वेता त्रिर्वृत् त्रिभण्डी स्यात् त्रिवृतात्रिपुटाऽपि च सर्वानुभूतिः सरला निशोत्रा रेचनीति च
श्लोक 194
श्वेता त्रिवृद्रे चनी स्यात्स्वादुरुष्णा समीरहृत् रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा
श्लोक 195
त्रिवृच्छ्यामाऽद्धचन्द्रा च पालिन्दी च सुषेणिका मसूरविदला काली कैषिका कालमेषिका
श्लोक 196
श्यामा त्रिवृत्ततो हीनगुणा तीव्रविरेचिनी मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी
श्लोक 197
लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि तथैरण्डफला शीघ्रा श्वेतघण्टा घुणप्रिया
श्लोक 198
वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः द्र वन्ती शम्बरी चित्रा प्रत्यक्पर्ण्याखुपर्ण्यपि
श्लोक 199
उपचित्रा श्रुतश्रोणी न्यग्रोधी च तथा वृषा दन्तीद्वयं सरं पाकं रसे च कटु दीपनम्
श्लोक 200
गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत् तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन्
श्लोक 201
क्षुद्र दन्तीफलं तु स्यान्मधुरं रसपाकयोः शीतलं सृष्टविण्मूत्रं गरशोथकफापहम्
श्लोक 202
जयपालो दन्तिबीजं विख्यातं तिन्तिडीफलम् जयपालो गुरुः स्निग्धो रेची पित्तकफापहः
श्लोक 203
अथेन्द्र वारुणी महेन्द्र वारुणी च एन्द्री न्द्र वारुणी चित्रा गवाक्षी च गवादनी वारुणी च पराऽप्युक्ता सा विशाला महाफला
श्लोक 204
श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी गवादनीद्वयं तिक्तं पाके कटु सरं लघु
श्लोक 205
वीर्योष्णं कामलापित्तकफप्लीहोदरापहम्
श्लोक 206
श्वासकासापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत् प्रमेहमूढगर्भामगण्डामयविषापहम्
श्लोक 207
नीली तु नीलिनी तूणी काला दोला च नीलिका रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका
श्लोक 208
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता नीलिनी रेचनी तिक्ता केश्या मोहभ्रमापहा
श्लोक 209
उष्णा हन्त्युदरप्लीहवातरक्तकफानिलान् आमवातमुदावर्त्तं मदं च विषमुद्धतम्
श्लोक 210
शरपुङ्खः प्लीहशत्रुर्नीलीवृक्षाकृतिश्च सः शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः तिक्तः कषायः कासास्रश्वासज्वरहरो लघुः
श्लोक
विऋ!द्धदारुक आवेगी छागान्त्री वृष्यगन्धिका वृद्धद्वारुः कषायोष्णः कटुस्तिक्तो रसायनः
वृष्यो वातामवातार्शः शोथमेहकफप्रणुत् शुक्रायुर्बलमेधाऽग्निस्वरकान्तिकरःसरः
श्लोक 211
थासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः दुरालभा दुरालम्भा समुद्रा न्ता च रोदिनी
श्लोक 212
गान्धारी कच्छुराऽनन्ता काषाया हरिविग्रहा यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः
श्लोक 213
कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः
श्लोक 214
यवासस्य गुर्णैस्तुल्या बुधैरुक्ता दुरालभा
श्लोक 215
मुण्डी भिक्षुरपि प्रोक्ता श्रावणी च तपोधना श्रवणाह्वा मुण्डतिका तथा श्रवणशीर्षका
श्लोक 216
महाश्रावणिकाऽन्या तु सा स्मृता भूकदम्बिका कदम्बपुष्पिका च स्यादव्यथाऽतितपस्विनी
श्लोक 217
मुण्डतिका कटुः पाके वीर्योष्णा मधुरा लघुः मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत्
श्लोक 218
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्तिहृत् महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः
श्लोक 219
अपामार्गस्तु शिखरी ह्यधः शल्यो मयूरकः मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी
श्लोक 220
अपामार्गः सरस्तीक्ष्णो दीपनस्तिक्तकः कटुः पाचनो रोचनश्छर्दिकफमेदोऽनिलापहः निहन्ति हृद्रुजाध्मार्शः कण्डूशूलोदरापचीः
श्लोक 221
रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली
श्लोक 222
अपामार्गोऽरुणो वातविष्टम्भी कफहृद्धिमः रूक्षः पूर्वगुणैर्न्यूनः कथितो गुणवेदिभिः
श्लोक 223
अपामार्गफलं स्वादु रसे पाके च दुर्जरम् विष्टम्भि वातलं रूक्षं रक्तपित्तप्रसादनम्
श्लोक 224
कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका
श्लोक 225
क्षुरकः शीतलो वृप्यः स्वाद्वम्लः पिच्छिलस्तथा तिक्तो वातामशोथाश्मतृष्णादृष्ट्यनिलास्रजित्
श्लोक 226
ग्रन्थिमानस्थिसंहारीवज्राङ्गीवाऽस्थिशृङ्खला अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक्
श्लोक 227
उष्णः सरः कृमिघ्नश्चदुर्नामघ्नोऽक्षिरोगजित् रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः
श्लोक 228
काण्डं त्वग्विरहितमस्थिशृङ्खलायामाषार्द्र द्विदलमकञ्चुकं तदर्द्धम् संपिष्टं सुतनु ततस्तिलस्य तैलेसंपक्वं वटकमतीव वातहारि
श्लोक 229
कुमारी गृहकन्या च कन्या घृतकुमारिका कुमारी भेदनी शीता तिक्ता नेत्र्! या रसायनी
श्लोक 230
मधुरा बृंहणी बल्या वृष्या वातविषप्रणुत् गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत् ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान्
श्लोक 231
पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका कटु कषायानुरसा पाण्डुघ्नी दीपनी परा शोफानिलगरश्लेष्महरी ब्रघ्नोदरप्रणुत्
श्लोक 232
पुनर्नवाऽपरा रक्ता रक्तपुष्पा शिलाटिका शोथघ्नी क्षुद्र वर्षाभूर्वर्षकेतुः कठिल्लकः
श्लोक 233
पुनर्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी
श्लोक 234
प्रसारणी राजबला भद्र पर्णी प्रतानिनी सरणी सारणी भद्रा बला चापि कटम्भरा
श्लोक 235
प्रसारणी गुरुर्वृष्या वलसन्धानकृत्सरा वीर्योष्णा वातहृत्तिक्ता वातरक्तकफापहा
श्लोक 236
कृष्णा तु शारिवा श्यामा गोपी गोपवधूश्च सा
श्लोक 237
धवला शारिवा गोपा गोपकन्या कृशोदरी स्फोटा श्यामा गोपवल्ली लताऽस्फोता च चन्दना