गुडूच्यादिवर्गः contd.

श्लोक 94

निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत् व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत्

श्लोक 95

निम्बपत्रं स्मृतं नेत्र्! यं कृमिपित्तविषप्रणुत् वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत्

श्लोक 96

निम्बफलं रसे तिक्तं पाके तु कटुभेदनम् स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्

श्लोक 97

महानिम्बः स्मृतो द्रे का रम्यको विषमुष्टिकः केशमुष्टिर्निम्बकश्च कार्मुको जीव इत्यपि

श्लोक 98

महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः

श्लोक 99

कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः

श्लोक 100

पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः पारिभद्रो ऽनिलश्लेष्मशोथमेदः कृमिप्रणुत् तत्पत्रं पित्तरोगघ्नं कर्णव्याधिविनाशनम्

श्लोक 101

काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः

श्लोक 102

कोविदारश्च मरिकः कुद्दालो युगपत्रकः कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकेशरी

श्लोक 103

काञ्चनारो हिमो ग्राही तुवरः श्लेष्मपित्तनुत् कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः

श्लोक 104

कोविदारोऽपि तद्वत्स्यात्तयोः पुष्पं लघु स्मृतम् रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत्

श्लोक 105

शोभाञ्जनः शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः तद्बीजं श्वेतमरिचंमधुशिग्रुः सलोहितः शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः

श्लोक 106

दीपनो रोचनो रूक्षः क्षारस्तिक्तो विदाहकृत् संग्राही शुक्रलो हृद्यः पित्तरक्तप्रकोपणः

श्लोक 107

चक्षुष्यः कफवातघ्नो विद्र धिश्वयथुक्रिमीन् मेदोऽपचीविषप्लीहगुल्मगण्डव्रणान्हरेत्

श्लोक 108

श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत् प्लीहानं विद्र धिं हन्ति व्रणघ्नः पित्तरक्तहृत् मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः

श्लोक 109

शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत्

श्लोक 110

चक्षुष्यं शिग्रुजं बीजं तीक्ष्णोष्णं विषनाशनम् अवृष्यं कफवातघ्नं तन्नस्येन शिरोऽत्तिनुत्

श्लोक 111

आस्फोता गिरिकर्णीस्याद्विष्णुक्रान्ताऽपराजिता अपराजिते कटू मेध्ये शीते कण्ठ्येसुदृष्टिदे

श्लोक 112

कुष्ठमूत्रत्रिदोषामशोथव्रणविषापहे कषाये कटुके पाके तिक्ते च स्मृतिबुद्धिदे

श्लोक 113

सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा

श्लोक 114

सिन्दुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान् कृमिकुष्ठारुचिश्लेष्मज्वरान्नीलापि तद्विधा

श्लोक 115

सिन्दुवारदलं जन्तुवातश्लेष्महरं लघु

श्लोक 116

कुटजः कूटजः कौटो वत्सको गिरिमल्लिका

श्लोक 117

कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः

श्लोक 118

कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः अर्शोऽतिसारपित्तास्नकफतृष्णाऽमकुष्ठनुत्

श्लोक 119

करञ्जो नक्तमालश्च करजश्चिरबिल्वकः घृतपूर्णकरञ्जोऽन्य प्रकीर्यः पूतिकोऽपि च

श्लोक 120

स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः करञ्जः कटुकस्तीक्ष्णो वीर्योष्णो योनिदोषहृत् कुष्ठोदावर्त्तगुल्मार्शोव्रणक्रिमिकफापहः

श्लोक 121

तत्पत्रं कफवातार्शः कृमिशोथहरं परम् भेदनं कटुकं पाके वीर्योष्णं पित्तलं लघुः

श्लोक 122

तत्फलं कफवातघ्नं मेहार्शःकृमिकुष्ठजित् घृतपूर्णकरञ्जोऽपि करञ्जसदृशो गुणैः

श्लोक 123

उदकीर्यस्तृतीयोऽन्य षड्ग्रन्था हस्तिवारुणी मर्कटी वायसी चापि करञ्जी करभञ्जिका

श्लोक 124

करञ्जी स्तम्भनी तिक्ता तुवरा कटुपाकिनी वीर्योष्णा वमिपित्तार्शः कृमिकुष्ठप्रमेहजित्

श्लोक 125

श्वेता गुञ्जोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता रक्ता सा काकचिञ्ची स्यात्काकणन्ती च रक्तिका

श्लोक 126

काकादनी काकपीलुः सा स्मृता काकवल्लरी गुञ्जाद्वयन्तु केश्यं स्याद्वातपित्तज्वरापहम्

श्लोक 127

मुखशोषभ्रमश्वासतृष्णामदविनाशनम् नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत्

श्लोक 128

कृमीन्द्र लुप्तकुष्ठानि रक्ता च धवलाऽपि

श्लोक 129

कपिच्छूरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी अजडा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी

श्लोक 130

लाङ्गली शूकशिम्बी च सैव प्रोक्ता महर्षिभिः कपिकच्छूर्भृशं वृष्या मधुरा बृंहणी गुरुः तिक्ता वातहरी बल्या कफपित्तास्रनाशिनी

श्लोक 131

तद्बीजं वातशमनं स्मृतं वाजीकरं परम्

श्लोक 132

मांसरोहिण्यतिरुहा वृत्ता चर्मकषा वसा प्रहारवल्ली विकशा वीरवत्यपि कथ्यते स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा

श्लोक 133

चिह्लकोवातनिर्हारः श्लेष्मघ्नो धातुपुष्टिकृत् आग्नेयो विषवद्यस्य फलं मत्स्यनिषूदनम्

श्लोक 134

टङ्कारी वातजित्तिक्ता श्लेष्मघ्नी दीपनी लघुः शोथोदरव्यथाहन्त्री हिता पीठविसर्पिणाम्

श्लोक 135

वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः

श्लोक 136

वेतसः शीतलो दाहशोथार्शोयोनिरुक्प्रणुत् हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान्

श्लोक 137

निकुञ्जकः परिव्याधो नादेयो जलवेतसः जलजो वेतसः शीतः कुष्ठहृद्वातकोपनः

श्लोक 138

इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा जलवेतसवद्वेद्यो हिज्जलोऽय विषापहः

श्लोक 139

अङ्कोटो दीर्घकीलः स्यादङ्कोलश्च निकोचकः अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः

श्लोक 140

रेचनः कृमिशूलामशोफग्रहविषापहः विसर्पकफपित्तास्रमूषकाहिविषापहः

श्लोक 141

तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु बल्यं विरेचनं वातपित्तदाहक्षयास्रजित्

श्लोक 142

बलावाट्यालिका वाट्या सैव वाट्यालकाऽपि च महाबला पीतपुष्पा सहदेवी च सा स्मृता

श्लोक 143

ततोऽन्याऽतिबला ऋष्यप्रोक्ता कङ्कतिका च सा गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका

श्लोक 144

बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम्

श्लोक 145

बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् मूत्रातिसारं हरति दृष्टमेतन्न संशयः

श्लोक 146

हरेन्महाबला कृच्छ्रम् भवेद्वातानुलोमिनी हन्यादतिवला मेहं पयसा सितया समम्

श्लोक 147

पुत्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छितच्छदा

श्लोक 148

लक्ष्मणा पुत्रजननी वस्तगन्धाकृतिर्भवेत् कथिता पुत्रदाऽवश्या लक्ष्मणा मुनिपुङ्गवैः

श्लोक 149

स्वर्णवल्लीरक्तफला काकायुः काकवल्लरी स्वर्णवल्ली शिरः पीडां त्रिदोषान्हन्ति दुग्धदा

श्लोक 150

कार्पासी तुण्डकेशी च समुद्रा न्ता चकथ्यते कर्पासकी लघु कोष्णा मधुरा वातनाशिनी

श्लोक 151

तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्द्धनम् तत्कर्णपिडकानादपूयास्रावविनाशनम्

श्लोक 152

तद्बीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु

श्लोक 153

वंशस्त्वक्सारकर्मारत्वचिसारतृणध्वजाः शतपर्वा यवफलो वेणुमस्करतेजनाः

श्लोक 154

वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित्

श्लोक 155

तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः कषायः कफकृत्स्वादुर्विदाही वातपित्तलः

श्लोक 156

तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः

श्लोक 157

नलः पोटगलः शून्यमध्यश्च धमनस्तथा नलस्तुमधुरस्तिक्तः कषायः कफरक्तजित् उष्णो हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पहृत्

श्लोक 158

भद्र मुञ्जः शरो बाणस्तेजनश्चेक्षुवेष्टनः

श्लोक 159

मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेखलः मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा

श्लोक 160

दाहतृष्णाविसर्पास्रमूत्रकृच्छ्राक्षिरोगजित् दोषत्रयहरं वृष्यं मेखलासूपयुज्यते

श्लोक 161

कासः कासेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः

श्लोक 162

कासः स्यान्मधुरस्तिक्तः स्वादुपाको हिमः खरः मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्

श्लोक 163

गुन्द्र पटेरको गुल्मः शृङ्गवेराभमूलकः गुन्द्र कषायो मधुरः शिशिरः पित्तरक्तजित् स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रहृत्

श्लोक 164

एरका गुन्द्र मूला च शिविर्गुन्द्रा शरीति च एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी

श्लोक 165

कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः ततोऽन्यो दीर्घपत्रः स्यात्क्षुरपत्रस्तथैव च