कर्पूरादिवर्गः contd.

श्लोक 67

उक्ता दारुसिता स्वाद्वी तिक्ताचानिलपित्तहृत् सुरभिः शुक्रलाबल्या मुखशोषतृषापहा

श्लोक 68

पत्रं तमालपत्रञ्च तथा स्यात्पत्रनामकम् पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु निहन्ति कफवातार्शोहृल्लासारुचिपीनसान्

श्लोक 69

नागपुष्प स्मृतो नागः केशरो नागकेशरः चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः

श्लोक 70

नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम्

श्लोक 71

ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम्

श्लोक 72

त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् नागकेशरसंयुक्तं चातुर्जातकमुच्यते

श्लोक 73

तद् द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् लघुपित्ताग्निकृद्वर्ण्यं कफवातविषापहम्

श्लोक 74

कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् संकोचं पिशुनं धीरं बाह्लीकं शोणिताभिधम्

श्लोक 75

काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम्

श्लोक 76

बाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरं स्मृतम् केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम्

श्लोक 77

कुङ्कुमं पारसीकं यन्मधुगन्धि तदीरितम् ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम्

श्लोक 78

कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम्

श्लोक 79

गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत्

श्लोक 80

नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम्

श्लोक 81

नखं स्वल्पं नखी प्रोक्ता हनुर्हट्टविलासिनी नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत्

श्लोक 82

लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् अलक्ष्मीमुखदौर्गन्ध्यहृत्पाकरसयोः कटुः

श्लोक 83

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च बालकं शीतलं रूक्षं लघु दीपनपाचनम् हृल्लासारुचिवीसर्पहृद्रो गामातिसारजित्

श्लोक 84

स्याद्वीरणं वीरतरुर्वीरञ्च बहुमूलकम् वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम्

श्लोक 85

स्तम्भनं ज्वरनुद् भ्रान्तिमदजित्कफपित्तहृत् तृष्णाऽस्रविषवीसर्पकृच्छ्रदाहव्रणापहम्

श्लोक 86

वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि

श्लोक 87

उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम्

श्लोक 88

मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् तृष्णाऽस्रविषवीसर्पदाहकृच्छ्र्रवणापहम्

श्लोक 89

जटामांसी भूतजटा जटिला च तपस्विनी मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत्

श्लोक 90

शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम्

श्लोक 91

शैलेयं शीतलं हृद्यं कफपित्तहरं लघु कण्डूकुष्ठाश्मरीदाहविष हृद् गुदरक्तहृत्

श्लोक 92

मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः

श्लोक 93

भद्र मुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम्

श्लोक 94

कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम्

श्लोक 95

कर्चूरो वेधमुख्यश्च द्रा विडः कल्पकः शटी कर्चुरो दीपनो रुच्यः कटुकस्तिक्त एव च

श्लोक 96

सुगन्धिः कटुपाकः स्यात्कुष्ठार्शोव्रणकासनुत् उष्णो लघुर्हरेछ्वासं गुल्मवातकफकृमीन्

श्लोक 97

मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका

श्लोक 98

मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी

श्लोक 99

शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका

श्लोक 100

भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः तिक्ता तीक्ष्णा च कटुकाऽनुष्णाऽस्यमलनाशिनी शोथकासव्रणश्वासशूलसिध्मग्रहापहा

श्लोक 101

प्रियङ्गुः फलिनी कान्ता लता च महिलाऽह्वया

श्लोक 102

गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया प्रियङ्गुः शीतला तिक्ता तुवराऽनिलपित्तहृत्

श्लोक 103

रक्तातीसारदौर्गन्ध्यस्वेददाहज्वरापहा विआ!न्तिभ्रान्त्यतिसारघ्नी वक्त्रजाड्यविनाशिनी गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका

श्लोक 104

तत्फलं मधुरं रूक्षं कषायं शीतलं गुरु विबन्धाध्मानबलकृत्संग्राहि कफपित्तजित्

श्लोक 105

रेणुकाराजपुत्री च नन्दिनी कपिला द्विजा भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका

श्लोक 106

रेणुका कटुका पाके तिक्ताऽनुष्णा कटुर्लघुः पित्तला दीपनी मेध्या पाचनी गर्भपातिनी बलासवातकृच्चैव तृट्कण्डूविषदाहनुत्

श्लोक 107

ग्रन्थिपर्णं ग्रन्थिकञ्च काकपुच्छञ्च गुच्छकम् नीलपुष्पं सुगन्धञ्च कथितं तैलपर्णकम्

श्लोक 108

ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम्

श्लोक 109

स्थौणेयकं बर्हिबर्हं शुक्रबर्हञ्च कुक्कुरम् शीर्णरोमशुकञ्चापि शुकपुष्पं शुकच्छदम्

श्लोक 110

स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत्

श्लोक 111

मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान्

श्लोक 112

निशाचरो धनहरः कितवो गणहासकः चोरकः शङ्कितश्चण्डो दुष्पत्रः क्षेमको रिपुः चोरको मधुरस्तिक्तः कटुः पाके कटुर्लघुः

श्लोक 113

तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान्

श्लोक 114

तालीसमुक्तं पत्राढ्यं धात्रीपत्रञ्च तत्स्मृतम्

श्लोक 115

तालीसं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् निहन्त्यरुचिगुल्मामवह्निमांद्यक्षयामयान्

श्लोक 116

कङ्कोलं कोलकं प्रोक्तं तथा कोषफलं स्मृतम् कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् आस्यदौर्गन्ध्यहृद्रो गकफवातामयान्ध्यहृत्

श्लोक 117

स्निग्धोष्णा कफहृत्तिक्ता सुगन्धा गन्धकोकिला गन्धकोकिलया तुल्या विज्ञेया गन्धमालती

श्लोक 118

लामज्जकं सुनालं स्यादमृणालं लवं लघु इष्टकापथकं सेव्यं नलदञ्चावदातकम्

श्लोक 119

लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत्

श्लोक 120

एलवालुकमैलेयं सुगन्धि हरिवालुकम् एलवालुकमेलालु कपित्थत्वचमीरितम्

श्लोक 121

एलालु कटुकं पाके कषायं शीतलं लघु हन्तिकण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः बलासविषपित्तास्रकुष्ठमूत्रगदकृमीन्

श्लोक 122

कुटन्नटं दासपुरं बालेयं परिपेलवम् प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च

श्लोक 123

मुस्तावत्पेलवपुरं शुकाभं स्याद्बितुन्नकं

श्लोक 124

वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् कफपितास्रवीसर्पकुष्ठकण्डूविषप्रणुत्

श्लोक 125

स्पृक्काऽसृग् ब्राह्मणी देवी मरुन्माला लता लघुः समुद्रा न्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि

श्लोक 126

स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् कुष्ठकण्डूविषस्वेददाहाश्री ज्वररक्तहृत्

श्लोक 127

पर्पटी रञ्जना कृष्णा जतुका जननी जनी जतुकृष्णाऽग्निसंस्पर्शा जतुकृच्चक्रवर्त्तिनी

श्लोक 128

पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः विषव्रणहरी कण्डूकफपित्तास्रकुष्ठनुत्

श्लोक 129

नलिका विद्रुमलता कपोतचरणा नटी धमन्यञ्जनकेशी च निर्मध्या सुषिरा नली

श्लोक 130

नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् कृच्छ्राश्मवाततृष्णाऽस्रकुष्ठकण्डूज्वरापहा

श्लोक 131

प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत्