परिभाषादिप्रकरणम् / धात्वादिशोधनमारण विधिप्रकरणम् contd.

श्लोक 87

सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम्

श्लोक 88

नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः

श्लोक 89

खञ्जत्वकुष्ठामयमृत्युकारी हृद्रो गशूलौ कुरुतेऽश्मरीञ्च नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम्

श्लोक 90

पत्तलीकृतपत्राणि लौहस्याग्नौ प्रतापयेत् निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके

श्लोक 91

गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा एवं लौहस्य पत्राणां विशुद्धिः संप्रजायते

श्लोक 92

शुद्धं लौहभवं चूर्णं पातालगरुडीरसैः मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम्

श्लोक 93

पुटत्रयं कुमार्याश्च कुठारच्छिन्निकिरसैः पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत्

श्लोक 94

क्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः
मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत्
एवं सप्तपुटैर्मृत्युं लौहचूर्णमवाप्नुयात्

श्लोक 95

सत्योऽनुभूतो योगेन्द्रै क्रमोऽन्यो लौहमारणे
कथ्यते रामराजेन कौतूहलधियाऽधुना

श्लोक 96

सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्र वैः

श्लोक 97

यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः

श्लोक 98

यामत्रयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत्

श्लोक 99

पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा

श्लोक 100

तद्र सेनायसं चूर्णं सन्नीय प्लावयेदिति आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः

श्लोक 101

एकविंशतिवारैस्तन्म्रियते नात्र संशयः एवं सर्वाणि लौहानि स्वर्णादीन्यपि मारयेत्

श्लोक 102

लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्

श्लोक 103

कफं पित्तं गरं शूलं शोफार्शः प्लीहपाण्डुताः मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि

श्लोक 104

गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः तावल्लौहं समश्नीयाद्यथादोषानलं नरः

श्लोक 105

कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा मद्यमम्लरसञ्चैव वर्जयेल्लौहसेवकः

श्लोक 106

शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा

श्लोक 107

मन्दानलत्वं बलहानिमुग्रां बिष्टम्भितां नेत्रगदान् सकुष्ठान् मालां तथैव व्रणपूर्विकाञ्च कुर्यादशुद्धं खलु माक्षिकञ्च

श्लोक 108

माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च मातुलुङ्गद्र वैर्वाऽथ जम्बीरस्य द्र वैः पचेत्

श्लोक 109

चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम् भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति

श्लोक 110

कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् तक्रेण वाऽजमूत्रेण म्रियते स्वर्णमाक्षिकम्

श्लोक 111

स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते

श्लोक 112

कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम् भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम्

श्लोक 113

कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् मरणं वाऽजमूत्रेण तारमाक्षिकमृच्छति

श्लोक 114

न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः

श्लोक 115

माक्षिकं मधुरं तिक्तं स्वर्यं वृष्यं रसायनम्

श्लोक 116

चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम् अर्शः शोफं क्षयं कण्डूं त्रिदोषञ्च नियच्छति

श्लोक 117

विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः
पुटं दध्ना पुटं क्षौद्रै र्देयं तुत्थविशुद्धये

श्लोक 118

तुत्थकं कटुकं क्षारं कषायं वामकं लघु

श्लोक 119

लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम्

श्लोक 120

पत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत् निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके

श्लोक 121

गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते

श्लोक 122

अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत् समेन कांस्यपत्राणि शुद्धान्यम्लद्र वैर्मुहुः

श्लोक 123

ततो मूषापुटे धृत्वा पचेद्गजपुटेन च एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम्

श्लोक 124

कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम् गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्

श्लोक 125

रीतिका तु भवेद्रू क्षा सतिक्ता लवणा रसे शोधनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी

श्लोक 126

दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः

श्लोक 127

सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः भग्नसन्धानजननो व्रणशोधनरोपणः

श्लोक 128

गोमूत्रगन्धवत्कृष्णं स्रिग्धं मृदु तथा गुरु तिक्तं कषायं शीतञ्च सर्वश्रेष्ठं तदायसम्

श्लोक 129

विन्ध्यादौ बहुलं तत्तु यत्र लौहं यतोऽधिकम् तच्छोधनमृते व्यर्थमनेकमलमेलनात्

श्लोक 130

शिलाजतु समानीय सूक्ष्मं खण्डं विधाय च निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः

श्लोक 131

मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम् स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः

श्लोक 132

उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके एवं पुनः पुनर्नीतं द्विमासाभ्यां शिलाजतु

श्लोक 133

भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् निर्धूमञ्च ततः शुद्धं सर्वकर्मसु योजयेत्

श्लोक 134

व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्

श्लोक 135

तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम् तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम्

श्लोक 136

तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः स्वैः स्व्रेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त

श्लोक 137

अथ स्निग्धस्य शुद्धस्य वृतं तिक्तकसाधितम्
त्र्! यहं युञ्जीत गिरिजमेकैकेन तथा त्र्! यहम्

श्लोक 138

फलत्रयस्य यूषेण पटोल्या मधुकस्य च शिलाजमेवं देहस्य भवत्यत्युपकारकम्

श्लोक 139

लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत् सन्तानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय

श्लोक 140

उष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः

श्लोक 141

शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद् द्विगुणञ्च तोयम् उष्णं तदूर्ध्वं क्वथितञ्च दत्त्वा विशोधयेत्तन्मृदितं यथावत्

श्लोक 142

ततस्तु यत्कृष्णमुपैति चोर्ध्वं सन्तानिकावद्र विरश्मितप्तम् पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च

श्लोक 143

पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः
यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात्
तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याज्जलशुद्धमेवम्

श्लोक 144

शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च रसायनं योगवाहि श्लेष्ममेहाश्मशर्कराः

श्लोक 145

मूत्रकृच्छ्रं क्षयं श्वासं शोथमर्शांसि पाण्डुताम् वातरक्तं तथा कुष्ठमपस्मारोदरं हरेत्

श्लोक 146

नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात्

श्लोक 147

तन्मध्ये भृङ्गराड् मुण्डी विष्णुक्रान्ता पुनर्नवा मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी

श्लोक 148

त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत्

श्लोक 149

पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम्
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्
अत्यम्लमारनालं वा तदभावे प्रयोजयेत्

श्लोक 150

त्र्! यूषणं लवणं राजी रजनी त्रिफलाऽद्र कम् महाबला नागबला मेघनादः पुनर्नवा

श्लोक 151

मेषशृङ्गी चित्रकञ्च नवसारं समं समम् एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत्

श्लोक 152

प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम्

श्लोक 153

तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत् दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः

श्लोक 154

मूलकानलसिन्धूत्थत्र्! यूषणार्द्र कराजिकाः रसस्य षोडशांशेन द्र व्यं युञ्ज्यात् पृथक्पृथक्

श्लोक 155

द्र व्येष्वनुक्तमानेषु मतं मानमितं बुधैः पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके

श्लोक 156

स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान् स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः

श्लोक 157

इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः

श्लोक 158

कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्बृहतीविमिश्रितैः फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते

श्लोक 159

त्र्! यूषणत्रिफलावन्ध्याकन्दैः क्षुद्रा द्वयान्वितैः चित्रकोर्णानिशाक्षारकन्याऽककनकद्र वैः

श्लोक 160

सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत् इत्थं संमूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान्

श्लोक 161

मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च यन्त्रे विद्याधरे कुर्याद्र सेन्द्र स्योर्ध्वपातनम्

श्लोक 162

त्रिफलाशिग्रुशिखिभिर्लंवणासुरिसंयुतैः नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाजनम्

श्लोक 163

ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत् यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्य्ति

श्लोक 164

स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत् तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु

श्लोक 165

गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रको विषं हन्ति तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत्सप्त

श्लोक 166

कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते

श्लोक 167

कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत् एवं कदर्थितः सूतः षण्ढो भवति निश्चितम्

श्लोक 168

बह्वौषधिकषायेण स्वेदितः स बली भवेत्
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली
ततः स पावकद्रा वैः स्विन्नः स्यादतिदीप्तिमान्

श्लोक 169

धूमसारं रसं तोरीं गन्धकं नवसादरम् यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम्

श्लोक 170

काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्र या विलिप्य परितो वक्त्रे मुद्रा दत्त्वा विशोषयेत्

श्लोक 171

अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत् पिठरीं बालुकापूरैर्भृत्वा चाकूपिकागलम्

श्लोक 172

निवेश्य चुल्ल्यां तदधो बह्निं कुर्याच्छनैः शनैः तस्मादत्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात्