अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 9

श्लोक 1

अतीसारो हि भूयिष्ठं भवत्य् आमाशयान्वयः ।
हत्वाग्निं वात-जे ऽप्य् अस्मात् प्राक् तस्मिō̃ लङ्घनं हितम् ॥ १ ॥

श्लोक 2

प्राग् अस्मि लङ्घनं हितम् शूलानाह-प्रसेकार्तं वामयेद् अतिसारिणम् ।
दोषाः संनिचिता ये च विदग्धाहार-मूर्छिताः ॥ २ ॥

श्लोक 3

अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम् ।
भृशोत्क्लेश-प्रवृत्तेषु स्वयम् एव चलात्मसु ॥ ३ ॥

श्लोक 4

न तु संग्रहणं योज्यं पूर्वम् आमातिसारिणि ।
अपि चाध्मान-गुरु-ता-शूल-स्तैमित्य-कारिणि ॥ ४ ॥

श्लोक 5

प्रयोज्यं न तु संग्राहि पूर्वम् आमोल्बणे न तु प्राणदा प्राण-दा दोषे विबद्धे संप्रवर्तिनी ।
पिबेत् प्रक्वथितास् तोये मध्य-दोषो विशोषयन् ॥ ५ ॥

श्लोक 6

भूतिक-पिप्पली-शुण्ठी-वचा-धान्य-हरीतकीः ।
अथ-वा बिल्व-धनिका-मुस्त-नागर-वालकम् ॥ ६ ॥

श्लोक 7

विड-पाठा-वचा-पथ्या-कृमिजिन्-नागराणि वा ।
शुण्ठी-घन-वचा-माद्री-बिल्व-वत्सक-हिङ्गु वा ॥ ७ ॥

श्लोक 8

शस्यते त्व् अल्प-दोषाणाम् उपवासो ऽतिसारिणाम् ।
वचा-प्रतिविषाभ्यां वा मुस्ता-पर्पटकेन वा ॥ ८ ॥

श्लोक 9

ह्रीवेर-नागराभ्यां वा विपक्वं पाययेज् जलम् ।
युक्ते ऽन्न-काले क्षुत्-क्षामं लघ्व्-अन्न-प्रति भोजयेत् ॥ ९ ॥

श्लोक 10

लघ्व् अन्नं प्रतिभोजयेत् तथा स शीघ्रं प्राप्नोति रुचिम् अग्नि-बलं बलम् ।
तक्रेणावन्ति-सोमेन यवाग्वा तर्पणेन वा ॥ १० ॥

श्लोक 11

सुरया मधुना वाथ यथा-सात्म्यम् उपाचरेत् ।
भोज्यानि कल्पयेद् ऊर्ध्वं ग्राहि-दीपन-पाचनैः ॥ ११ ॥

श्लोक 12

सुरया मधुना चाथ बाल-बिल्व-शठी-धान्य-हिङ्गु-वृक्षाम्ल-दाडिमैः ।
पलाश-हपुषाजाजी-यवानी-विड-सैन्धवैः ॥ १२ ॥

श्लोक 13

लघुना पञ्च-मूलेन पञ्च-कोलेन पाठया ।
शालिपर्णी-बला-बिल्वैः पृश्निपर्ण्या च साधिता ॥ १३ ॥

श्लोक 14

दाडिमाम्ला हिता पेया कफ-पित्ते समुल्बणे ।
अभया-पिप्पली-मूल-बिल्वैर् वातानुलोमनी ॥ १४ ॥

श्लोक 15

विबद्धं दोष-बहुलो दीप्ताग्निर् यो ऽतिसार्यते ।
कृष्णा-विडङ्ग-त्रि-फला-कषायैस् तं विरेचयेत् ॥ १५ ॥

श्लोक 16

पेयां युञ्ज्याद् विरिक्तस्य वात-घ्नैर् दीपनैः कृताम् ।
आमे परिणते यस् तु दीप्ते ऽग्नाव् उपवेश्यते ॥ १६ ॥

श्लोक 17

स-फेन-पिच्छं स-रुजं स-विबन्धं पुनः पुनः ।
अल्पाल्पम् अल्प-शमलं निर्-विड् वा स-प्रवाहिकम् ॥ १७ ॥

श्लोक 18

अल्पाल्पम् अल्पं स-मलं दधि-तैल-घृत-क्षीरैः स शुण्ठीं स-गुडां पिबेत् ।
स्विन्नानि गुड-तैलेन भक्षयेद् बदराणि वा ॥ १८ ॥

श्लोक 19

गाढ-विड्-विहितैः शाकैर् बहु-स्नेहैस् तथा रसैः ।
क्षुधितं भोजयेद् एनं दधि-दाडिम-साधितैः ॥ १९ ॥

श्लोक 20

दधि-दाडिम-संस्कृतैः शाल्य्-ओदनं तिलैर् माषैर् मुद्गैर् वा साधु साधितम् ।
शठ्या मूलक-पोतायाः पाठायाः स्वस्तिकस्य वा ॥ २० ॥

श्लोक 21

शुण्ठ्या मूलक-पोतायाः सूषा-यवानी-कर्कारु-क्षीरिणी-चिर्भटस्य वा ।
उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा ॥ २१ ॥

श्लोक 22

सुवर्चलायाश् चुञ्चोर् वा लोणिकाया रसैर् अपि ।
कूर्म-वर्तक-लोपाक-शिखि-तित्तिरि-कौक्कुटैः ॥ २२ ॥

श्लोक 23

शिखि-तित्तिरि-दक्ष-जैः बिल्व-मुस्ताक्षि-भैषज्य-धातकी-पुष्प-नागरैः ।
पक्वातीसार-जित् तक्रे यवागूर् दाधिकी तथा ॥ २३ ॥

श्लोक 24

कपित्थ-कच्छुरा-फञ्जी-यूथिका-वट-शेलु-जैः ।
दाडिमी-शण-कार्पासी-शाल्मलीनां च पल्लवैः ॥ २४ ॥

श्लोक 25

शाल्मली-मोच-पल्लवैः कल्को बिल्व-शलाटूनां तिल-कल्कश् च तत्-समः ।
दध्नः सरो ऽम्लः स-स्नेहः खलो हन्ति प्रवाहिकाम् ॥ २५ ॥

श्लोक 26

मरिचं धनिकाजाजी तिन्तिडीकं शठी विडम् ।
दाडिमं धातकी पाठा त्रि-फला पञ्च-कोलकम् ॥ २६ ॥

श्लोक 27

याव-शूकं कपित्थाम्र-जम्बू-मध्यं स-दीप्यकम् ।
पिष्टैः षड्-गुण-बिल्वैस् तैर् दध्नि मुद्ग-रसे गुडे ॥ २७ ॥

श्लोक 28

स्नेहे च यमके सिद्धः खलो ऽयम् अ-पराजितः ।
दीपनः पाचनो ग्राही रुच्यो बिम्बिशि-नाशनः ॥ २८ ॥

श्लोक 29

कोलानां बाल-बिल्वानां कल्कैः शालि-यवस्य च ।
मुद्ग-माष-तिलानां च धान्य-यूषं प्रकल्पयेत् ॥ २९ ॥

श्लोक 30

ऐकध्यं यमके भृष्टं दधि-दाडिम-सारिकम् ।
वर्चः-क्षये शुष्क-मुखं शाल्य्-अन्नं तेन भोजयेत् ॥ ३० ॥

श्लोक 31

दध्नः सरं वा यमके भृष्टं स-गुड-नागरम् ।
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत् ॥ ३१ ॥

श्लोक 32

फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा ।
भृष्टान् वा यमके सक्तून् खादेद् व्योषावचूर्णितान् ॥ ३२ ॥

श्लोक 33

माषान् सु-सिद्धांस् तद्-वद् वा घृत-मण्डोपसेवनान् ।
रसं सु-सिद्ध-पूतं वा छाग-मेषान्तर्-आधि-जम् ॥ ३३ ॥

श्लोक 34

रसं सु-सिद्धं पूतं वा पचेद् दाडिम-साराम्लं स-धान्य-स्नेह-नागरम् ।
रक्त-शाल्य्-ओदनं तेन भुञ्जानः प्रपिबंश् च तम् ॥ ३४ ॥

श्लोक 35

वर्चः-क्षय-कृतैर् आशु विकारैः परिमुच्यते ।
बाल-बिल्वं गुडं तैलं पिप्पलीं विश्व-भेषजम् ॥ ३५ ॥

श्लोक 36

पिप्पली-विश्व-भेषजम् लिह्याद् वाते प्रतिहते स-शूलः स-प्रवाहिकः ।
वल्कलं शाबरं पुष्पं धातक्या बदरी-दलम् ॥ ३६ ॥

श्लोक 

स-शूले स-प्रवाहिके धातक्या बदरी-फलम् एरण्ड-बिल्व-यव-गोक्षुरकाम्ल-सिद्धां पथ्यां लिहन् मधु-युताम् अथ वा गुडेन ।
कृच्छ्र-प्रवृत्तम् अति-शूलम् असृग्-विमिश्रं हन्याद् अवश्यम् अतिसारम् उदीर्ण-वेगम् ॥३६.१+१ ॥

श्लोक 37

पिबेद् दधि-सर-क्षौद्र-कपित्थ-स्व-रसाप्लुतम् ।
विबद्ध-वात-वर्चास् तु बहु-शूल-प्रवाहिकः ॥ ३७ ॥

श्लोक 38

स-रक्त-पिच्छस् तृष्णार्तः क्षीर-सौहित्यम् अर्हति ।
यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत् ॥ ३८ ॥

श्लोक 39

शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा पुनः ।
पयस्य् उत्क्वाथ्य मुस्तानां विंशतिं त्रि-गुणे ऽम्भसि ॥ ३९ ॥

श्लोक 40

विंशतिं त्रि-गुणाम्भसि क्षीरावशिष्टं तत् पीतं हन्याद् आमं स-वेदनम् ।
पिप्पल्याः पिबतः सूक्ष्मं रजो मरिच-जन्म वा ॥ ४० ॥

श्लोक 41

चिर-कालानुषक्तापि नश्यत्य् आशु प्रवाहिका ।
निर्-आम-रूपं शूलार्तं लङ्घनाद्यैश् च कर्षितम् ॥ ४१ ॥

श्लोक 42

रूक्ष-कोष्ठम् अपेक्ष्याग्निं स-क्षारं पाययेद् घृतम् ।
सिद्धं दधि-सुरा-मण्डे दश-मूलस्य चाम्भसि ॥ ४२ ॥

श्लोक 43

दश-मूलस्य वाम्भसि सिन्धूत्थ-पञ्च-कोलाभ्यां तैलं सद्यो ऽर्ति-नाशनम् ।
षड्भिः शुण्ठ्याः पलैर् द्वाभ्यां द्वाभ्यां ग्रन्थ्य्-अग्नि-सैन्धवात् ॥ ४३ ॥

श्लोक 44

तैल-प्रस्थं पचेद् दध्ना निः-सारक-रुजापहम् ।
एकतो मांस-दुग्धाज्यं पुरीष-ग्रह-शूल-जित् ॥ ४४ ॥

श्लोक 45

पानानुवासनाभ्यङ्ग-प्रयुक्तं तैलम् एकतः ।
तद् धि वात-जिताम् अग्र्यं शूलं च वि-गुणो ऽनिलः ॥ ४५ ॥

श्लोक 46

धात्व्-अन्तरोपमर्देद्धश् चलो व्यापी स्व-धाम-गः ।
तैलं मन्दानलस्यापि युक्त्या शर्म-करं परम् ॥ ४६ ॥

श्लोक 

धात्व्-अन्तरोपमर्दाद् वै धात्व्-अन्तरोपमर्देन वाय्व्-आशये स-तैले हि बिम्बिशिर् नावतिष्ठते ॥ ४६ऊअब् ॥

श्लोक 47

क्षीणे मले स्वायतन-च्युतेषु दोषान्तरेष्व् ईरण एक-वीरे ।
को निष्टनन् प्राणिति कोष्ठ-शूली नान्तर्-बहिस्-तैल-परो यदि स्यात् ॥ ४७ ॥

श्लोक 48

गुद-रुग्-भ्रंशयोर् युञ्ज्यात् स-क्षीरं साधितं हविः ॥ ४८अब् ॥

श्लोक 49

रसे कोलाम्ल-चाङ्गेर्योर् दध्नि पिष्टे च नागरे ।
तैर् एव चाम्लैः संयोज्य सिद्धं सु-श्लक्ष्ण-कल्कितैः ॥ ४९ ॥

श्लोक 50

तैर् एव चाम्लैः संयुक्तैः धान्योषण-विडाजाजी-पञ्च-कोलक-दाडिमैः ।
योजयेत् स्नेह-वस्तिं वा दश-मूलेन साधितम् ॥ ५० ॥

श्लोक 51

शठी-शताह्वा-कुष्ठैर् वा वचया चित्रकेण वा ।
प्रवाहणे गुद-भ्रंशे मूत्राघाते कटी-ग्रहे ॥ ५१ ॥

श्लोक 52

मधुराम्लैः शृतं तैलं घृतं वाप्य् अनुवासनम् ।
प्रवेशयेद् गुदं ध्वस्तम् अभ्यक्तं स्वेदितं मृदु ॥ ५२ ॥

श्लोक 53

कुर्याच् च गो-फणा-बन्धं मध्य-च्छिद्रेण चर्मणा ।
पञ्च-मूलस्य महतः क्वाथं क्षीरे विपाचयेत् ॥ ५३ ॥

श्लोक 54

क्वाथं क्षीरेण पाचयेत् उन्दुरुं चान्त्र-रहितं तेन वात-घ्न-कल्क-वत् ।
तैलं पचेद् गुद-भ्रंशं पानाभ्यङ्गेन तज् जयेत् ॥ ५४ ॥

श्लोक 55

पैत्ते तु सामे तीक्ष्णोष्ण-वर्ज्यं प्राग् इव लङ्घनम् ।
तृड्-वान् पिबेत् षड्-अङ्गाम्बु स-भूनिम्बं स-शारिवम् ॥ ५५ ॥

श्लोक 56

पेयादि क्षुधितस्यान्नम् अग्नि-संधुक्षणं हितम् ।
बृहत्य्-आदि-गणाभीरु-द्वि-बला-शूर्पपर्णिभिः ॥ ५६ ॥

श्लोक 57

पाययेद् अनुबन्धे तु स-क्षौद्रं तण्डुलाम्भसा ।
कुटजस्य फलं पिष्टं स-वल्कं स-घुणप्रियम् ॥ ५७ ॥

श्लोक 58

स-क्षौद्रं तण्डुलाम्बुना वत्सकस्य फलं पिष्टं पाठा-वत्सक-बीज-त्वग्-दार्वी-ग्रन्थिक-शुण्ठि वा ।
क्वाथं वातिविषा-बिल्व-वत्सकोदीच्य-मुस्त-जम् ॥ ५८ ॥

श्लोक 59

अथ-वातिविषा-मूर्वा-निशेन्द्रयव-तार्क्ष्य-जम् ।
स-मध्व्-अतिविषा-शुण्ठी-मुस्तेन्द्रयव-कट्फलम् ॥ ५९ ॥

श्लोक 60

पलं वत्सक-बीजस्य श्रपयित्वा रसं पिबेत् ।
यो रसाशी जयेच् छीघ्रं स पैत्तं जठरामयम् ॥ ६० ॥

श्लोक 61

मुस्ता-कषायम् एवं वा पिबेन् मधु-समायुतम् ।
स-क्षौद्रं शाल्मली-वृन्त-कषायं वा हिमाह्वयम् ॥ ६१ ॥

श्लोक 62

किराततिक्तकं मुस्तं वत्सकं स-रसाञ्जनम् ।
कटङ्कटेरी ह्रीवेरं बिल्व-मध्यं दुरालभा ॥ ६२ ॥

श्लोक 63

तिला मोच-रसं लोध्रं समङ्गा कमलोत्पलम् ।
नागरं धातकी-पुष्पं दाडिमस्य त्वग् उत्पलम् ॥ ६३ ॥

श्लोक 64

अर्ध-श्लोकैः स्मृता योगाः स-क्षौद्रास् तण्डुलाम्बुना ।
निशेन्द्रयव-लोध्रैला-क्वाथः पक्वातिसार-जित् ॥ ६४ ॥

श्लोक 

क्वाथः पक्वातिसार-नुत् नागरातिविषा-मुस्ता-भूनिम्बामृत-वत्सकैः ।
सर्व-ज्वर-हरः क्वाथः सर्वातीसार-नाशनः ॥ ६४+१ ॥

श्लोक 

गुडूच्य्-अतिविषा-धान्य-शुण्ठी-बिल्वाब्द-वालकैः ।
पाठा-भूनिम्ब-कुटज-चन्दनोशीर-पद्मकैः ॥ ६४+२ ॥

श्लोक 

कषायः शितलः पेयो ज्वरातीसार-शान्तये ।
हृल्-लासा-रोचक-च्छर्दि-पिपासा-दाह-नाशनः ॥ ६४+३ ॥