अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 9 contd.

श्लोक 65

पयसा विहते रोगे बले जाते निवर्तयेत्।
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥

श्लोक 66

न विक्षयध्वंसकोत्थैः स्पृश्येतोपद्रवैर्यथा।
तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः।
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्॥

श्लोक 67

युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते।
अतोऽस्य वक्ष्यते योगो यः सुखायैव केवलम्॥

श्लोक 68

आश्विनं या महत्तेजो बलं सारस्वतं च या।
दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या॥

श्लोक 69

अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या।
सौत्रामण्यां द्विजमुखे हुताशे हूयते च या॥

श्लोक 70

या सर्वौसधिसम्पूर्णान्मथ्यमानात्सुरासुरैः।
महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह॥

श्लोक 71

मधुमाधवमैरेयसीधुगौडासवादिभिः।
मदशाक्तिमनुज्झन्ती या रूपैर्बहुभिः स्थिता॥

श्लोक 72

यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति।
कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा॥

श्लोक 73

अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि।
तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः॥

श्लोक 74

एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्।
यथाकामभटावाप्तिपरिहृष्टाप्सस्रोगणे॥

श्लोक 75

तृणवत् पुरुषा युद्धे यामास्वाद्य जहत्यसून्।
यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम्॥

श्लोक 76

नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते।
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते॥

श्लोक 77

गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना।
स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया॥

श्लोक 78

अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या।
अपीन्द्रं मन्यते दुस्स्थं हृद्यस्थितया यया॥

श्लोक 79

अनिर्देश्यसुखास्वादा स्वसंवेद्यैव या परम्।
इति चित्रास्ववस्थासु प्रियामनुकरोति या॥

श्लोक 80

प्रियातिप्रियतां याति यत् प्रियस्य विशेषतः।
या प्रीतिर्या रतिर्वाग्या या पुष्टिरिति च स्तुता॥

श्लोक 81

वेददानवगन्धर्वयक्षराक्षसमानुषैः।
पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्॥

श्लोक 82

सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः।
विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः॥

श्लोक 83

अस्ति देहस्य सावस्था यस्यां पानं निवार्यते।
अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतात्॥

श्लोक 84

आनूपं जाङ्गलं मांसं विधिनाप्युपकल्पितम्।
मद्यं सहायमप्राप्य सम्यक् परिणमेत् कथम्॥

श्लोक 85

सुतीक्ष्णमारुतव्याधिघातिनो लशुनस्य च।
मद्यमांसवियुक्तस्य प्रयोगे स्यात् कियान् गुणः॥

श्लोक 86

निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि।
पीतमद्यो विषहते सुखं वैद्यविकत्थनाम्॥

श्लोक 87

अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम्।
न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्॥

श्लोक 88

रक्षता जीवितं तस्मात् पेयमात्मवता सदा।
आश्रितोपाश्रितहितं परमं धर्मसाधनम्॥

श्लोक 89

स्रातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य।
आपानभूमिमथ गन्धजलाभिषिक्तामाहारमण्डपसमीपगतां श्रयेत॥

श्लोक 90

स्वास्तृतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः।
स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम्॥

श्लोक 91

विलासिनीनां च विलासशोभि गीतं सनृत्तं कलतूर्यघोषैः।
काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्॥

श्लोक 92

मणिकनकसमुत्थैरावरेयैर्विचित्रैः सजलविविधभाक्तिक्षौमवस्त्रावृताङ्गैः।
अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रैयाभिः॥

श्लोक 93

स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात्।
इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्॥

श्लोक 94

यौवनासवमत्ताभिर्विलासाधिष्ठितात्माभिः।
सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः॥

श्लोक 95

तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः।
दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः॥

श्लोक 96

चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम्।
स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्॥

श्लोक 97

तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयस्स्थापनं वा।
तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च॥

श्लोक 98

धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन्।
उचितेनोपचारेण सर्वमेवोपलालयन्॥

श्लोक 99

जितविकसितासितसरोजनयनसङ्क्रान्तिवार्धितश्रीकम्।
कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम्॥

श्लोक 100

पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो।
गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च।
मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैर्द्विस्त्रिर्वा चाल्पमेव वनितासंवल्गनार्थं पिबेत्॥

श्लोक 101

रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम्।
यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम्॥

श्लोक 102

वरतनुवक्त्रसङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्।
भवति रतिश्रमेण च मदः पिबतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्॥

श्लोक 103

इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते।
असारसंसारसुखं परमं चाधिगच्छति॥

श्लोक 104

ऐश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि।
अन्यथा हि विपत्सु स्यात् पश्चात्तापेन्धनं धनम्॥

श्लोक 105

उपभोगेन रहितो भोगवानिति निन्द्यते।
निर्मितोऽतिकदर्योऽयं विधिना निधिपालकः॥

श्लोक 106

तस्माद्व्यवस्थया पानं पानस्य सततं हितम्।
जित्वाविषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्॥

श्लोक 107

विधिर्वसुमतामेष भविष्यद्वसवस्तु ये।
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥

श्लोक 108

यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः।
तावदेव विरन्तव्यं मद्यादात्मवता सदा॥

श्लोक 109

अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः।
स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्॥

श्लोक 110

शीतोपचारैर्विविधैर्माधुरस्निग्धशीतलैः।
पैत्तिको भावितश्चान्नैः पिबन्मद्य न सीदति॥

श्लोक 111

उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्।
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह॥

श्लोक 112

तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिम।
पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम्॥

श्लोक 113

प्राक् पिबेछ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः॥
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति॥

श्लोक 114

मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते।
सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्॥

श्लोक 115

शीताः प्रदेहा मणयः सेका व्यजनमारुताः।
सिताद्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः॥

श्लोक 116

सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः।
षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम्॥

श्लोक 117

कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम्।
पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः।
त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा॥

श्लोक 118

प्रसक्तवेगेषु हितं मुखनासावरोधनम्।
पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्॥

श्लोक 119

मृणालबिसकृष्णा वा लिह्यात् क्षौद्रेण साभयाः।
दुरालभां वा मुस्तां वा शीतेन सलिलेन वा॥

श्लोक 120

पिबेन्मरिचकोलस्थिमज्जोशीराहिकेसरम्।
धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्॥

श्लोक 121

कुर्यात् क्रियां ज्वरोक्तां च यथादोषबलोदयम्।
पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम्॥

श्लोक 122

सत्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च॥

श्लोक 123

मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत्।
तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च॥

श्लोक 124

आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम्।
धूमं प्रधमनं तोदः सूचीभिश्च नखान्तरे॥

श्लोक 125

केशानां लुञ्चनं दाहो दशनवृश्चिकैः।
कट्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम्॥

श्लोक 126

उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्।
खादेत्सव्योषलवणं बीजपूरककेसरम्।
लघ्वन्नं कटुतीक्ष्णमद्यात् स्रोतोविशुद्धये॥

श्लोक 127

विस्मापनैः संस्मरणः प्रियश्रवणदर्शनैः।
पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः॥

श्लोक 128

स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः।
उपाचरेत्तं प्रततमनुबन्धभयात् पुनः।
तस्य संरक्षितव्यं च मनः प्रलयहेतुतः॥
॥इति नवमोऽध्यायः॥