अष्टाङ्गसंग्रहः सूत्रस्थानम् नवमोऽध्यायः contd.

श्लोक 61

कायस्य तेजः परमं हि शुक्रमाहारसारदपि सारभूतम्।
जितात्मना तत् परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा॥

श्लोक 62

अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान्।
सुखोदर्केषु सज्जेत देहस्यैतदलं हितम्॥

श्लोक 63

प्रज्ञापराधोऽसात्म्यार्थसंयोगः कालवैकृतम्।
हितेऽपि रतमाहारे योजयन्त्यामयैर्नरम्॥

श्लोक 64

नापथ्यसेविनं सद्यः प्रबाधन्ते तदा मलाः।
प्रकोपं प्रतिविघ्नान्ति भिन्नैर्दूष्यादिभिर्यदा॥

श्लोक 65

न च सर्वोपचारोऽपि सर्वदा सर्वदोषकृत्।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च॥

श्लोक 66

सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च।
व्याधिक्षमत्वे शक्तानि यतोऽपथ्यं तदेव तु॥

श्लोक 67

गच्छत्यपथ्यतमतां तुल्यदोषादिवर्द्धितम्।
त एव च पुनर्द्दोषा हेतुभिर्बहुभिश्चिताः॥

श्लोक 68

मिथो विरुद्धा बलिनो दीर्घकालानुबन्धिनः।
सर्वे समप्रकुपिताः प्राप्याल्पमपि कारणम्॥

श्लोक 69

प्राणायतनमाश्रित्य गर्भीराः सर्वमार्गगाः।
देहेऽहितोचिते ते स्युश्चिरादप्याशुकारिणः॥

श्लोक 70

अहितान्यपि चान्येषामभ्यासादुपशेरते।
दोषाश्चैषां क्षयं यान्ति कर्मवातातपादिभिः॥

श्लोक 71

भिन्नाहारवयः सात्म्यप्रकृतीनां समं भवेत्।
एको विकृतवाय्यादियुगपत्सेवनात् गदः॥

श्लोक 72

वातादीनां तु विकृतिर्विकृताद्ग्रहचारतः।
भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते।
सम्भवः पुनरेतेषां कर्मणः सामुदायिकात्॥

श्लोक 73

दुष्टो वायुरभिष्यन्दी स्तिमितोऽत्युष्णशीतलः।
कुण्डली भैरवरवः परुषोऽनार्त्तवो बली॥

श्लोक 74

अन्योन्यव्याहतगतिः पांसुबाष्पविषान्वितः।
रसवर्णादिविकृतमपक्रान्तविहङ्गमम्॥

श्लोक 75

निन्दितप्रभवं तोयमुपक्षीणजलाशयम्।
मक्षिकामूषिकाव्यालबहूत्पातप्रदूषितः॥

श्लोक 76

देशोऽपथ्यान्नबहुलो नष्टधर्ममहौषधिः।
कालश्च विपरीतोऽतिहीनलिङ्गो यथायथम्॥

श्लोक 77

एते दुष्परिहारत्वादहितायोत्तरोत्तरम्।
येषामनियतं कर्म तस्मिन् काले सुदारुणे॥

श्लोक 78

कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम्।
शस्यते देहवृद्धिश्च भेषजैः पूर्वमुद्धृतैः॥

श्लोक 79

ब्रह्मचर्यं दया दानं सदाचाररतिः शमः।
सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनाम्॥

श्लोक 80

देशानामविपन्नानां साधूनां च निषेवणम्।
दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणम्॥

श्लोक 81

हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि।
विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम्॥

श्लोक 82

ऋतुचर्यादिशीतोष्णवृष्टिदोषप्रतिक्रिया।
अत एव च चर्यायां हेमन्तशिशिरे समे॥

श्लोक 83

सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते।
दैवे पुरुषकारे च स्थितं तस्य बलाबलम्॥

श्लोक 84

अन्यजन्मकृत कर्म दैवं पौरुषमैहिकम्।
विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः॥

श्लोक 85

तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च।
नियतस्यायुषो हेतुर्विपरीतस्य चापरा॥

श्लोक 86

मध्या मध्यस्य मिश्रस्य सङ्कीर्णा श्रुणु चापरम्।
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते॥

श्लोक 87

तथा दैवेन बलिना पौरुषं कर्म दुर्बलम्।
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः॥

श्लोक 88

कर्म किञ्चित् क्वचित्काले विपाकनियतं महत्।
किञ्चिच्च कालनियतं प्रत्ययैः प्रतिबोध्यते॥

श्लोक 89

एवं च द्विविधो मृत्युः कालाकालविभेदतः।
उपदिष्टस्ततश्चैष हिताहितविधिक्रमः॥

श्लोक 90

एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः।
तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः॥

श्लोक 91

श्येनादिना च यागेन भ्रातृव्यस्य तथा च तैः।
दीर्घश्रवससोमाद्यैर्विहितश्चात्मनो वधः॥

श्लोक 92

आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविन्दया।
सर्वस्मादेव चात्मानं गोपयेदीदृशी स्मृतिः॥

श्लोक 93

तथा मरणमुद्दिष्टं सौगतानां चतुर्विधम्।
विषमापरिहारेण जायते नियतायुषाम्॥

श्लोक 94

ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि।
अकाण्डे शस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा॥

श्लोक 95

उद्भ्रान्तचण्डमातङ्गतुरङ्गादिसमागमम्।
आरातिदुष्टवाय्वादिसाहसाहितभोजनम्॥

श्लोक 96

वर्जयेदिति न ब्रूयुर्मुनयो दिव्यचक्षुषः।
दैवव्यपाश्रयादीश्च रसायनविधीस्तथा॥

श्लोक 97

न वा तेऽपि यथाकाममायुषः स्थितिमाप्नुयुः।
अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्॥

श्लोक 98

मिथ्याप्राकारदुर्गाणि मिथ्यामारणरक्षणम्।
आयुष्कामस्य मिथ्यैव परदारादिवर्जनम्॥

श्लोक 99

मन्त्रदेवतयाहूता नाचक्षीरन् महाहयः।
विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः॥

श्लोक 100

सन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्।
उपेक्षया न मरणं जीवितं वा चिकित्सया॥

श्लोक 101

प्रत्यहं नृसहस्रस्य युद्वेऽन्योन्यमभिघ्नतः।
साधुवृत्तस्य चातुल्या न भवेदायुषः स्थितिः॥

श्लोक 102

नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ।
उपक्रमेरन्न भवेदकालमरणं यदि॥

श्लोक 103

घटानामामपक्वानां पालनापरिपालनैः।
चिराल्पकालवर्त्तित्वं चित्रस्थानां च दृश्यते॥

श्लोक 104

इत्यत्यन्तप्रसिद्धेऽपि सिद्धे सर्वागमैरपि।
दृष्टेऽप्यकालमरणे विचिकित्सेत्कथं बुधः॥

श्लोक 105

गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः।
मृत्युं तं कालजं प्राहुरितरं तद्विपर्यये॥

श्लोक 106

यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयम्।
यायादात्मवतामायुस्तथान्येषां विपर्ययः॥

श्लोक 107

शुचितैलदशो दीपः कीटवाताद्यपीडितः।
दीप्तिमान् वर्त्तते सम्यक् यथैवास्नेहसङ्क्षयात्॥

श्लोक 108

स एवातो यथा च स्याद्विपरीतो विपर्यये।
हिताहितोपचारेण तथैव पुरुषो ध्रुवम्॥

श्लोक 109

सर्वमन्यत् परित्यज्य शरीरं पालयेदतः।
तदभावे हि भावानां सर्वाभावः शरीरिणाम्॥

श्लोक 110

नगरी नगरस्येव रथस्येव रथी तथा।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्॥

श्लोक 111

आहारकल्पनाहेतून् स्वभावादीन् विशेषतः।
समीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः॥

श्लोक 112

भीलज्जायन्त्रणालोभहर्षशोकवशं गतः।
न जातु धारयेद्वेगांस्तद्धि सर्वापदास्पदम्॥

श्लोक 113

हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया।
सञ्जायते परामर्शो बलोत्साहेन्द्रियायुषाम्॥

श्लोक 114

अहितान्यपि सन्त्यज्य दोषमाप्याप्नुयाद्यदि।
तथाप्यानृण्यमायाति साधूनामात्मवानिति॥

श्लोक 115

यच्च रोगसमुत्थानं न शक्यमिह केनचित्।
परिवर्तुं न तत् प्राप्य शोचितव्यं मनीषिणा॥

श्लोक 116

हिताहारविहाराणां सदाचारनिषेविणाम्।
लोकद्वयव्यपेक्षाणां जीवितं ह्यमृतायते॥

श्लोक 117

गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः।
मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन्॥

श्लोक 118

विदुषान्तश्शरीरस्थान्नित्यं सन्निहितानरीन्।
जित्वा वर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता॥

श्लोक 119

तदात्वे चानुबन्धे वा तस्मात् कर्माशुभोदयम्।
स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति॥
इति नवमोऽध्यायः॥