अष्टाङ्गसंग्रहः निदानस्थानम् 9

श्लोक 1

अथातो मूत्रघातनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

विंशतिर्मूत्राघाता भवन्ति।
तद्यथा।
वातपित्तकफसन्निपातकृच्छ्राणि।
वातपित्तश्लेष्मशुक्राश्मर्यः।
वातबस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्रविड्विघातोष्णवातमूत्रक्षयावसादाश्चेति॥

श्लोक 3

तत्र वातबस्त्यादयो नव वातोल्बणाः।
ततो द्वौ वातपित्तोल्बणौ।
अन्त्यः कफपित्तोल्बणः॥

श्लोक 4

सर्वेषां पुनर्मूत्ररोगाणामधिष्ठानं बस्तिः।
स मर्मस्वभिहितः प्राक्।
स चाधोमुखोऽपि मूत्रवहासु नाडिषु सूक्ष्ममुखसहस्रनिष्यन्देन मूत्राख्येनाविरतं नवो घट इवाप्सु निमग्नमुखोपि पार्श्वेभ्योऽम्भसापूर्यते तैरेव च स्रोतोभिर्वातादयोऽपि दुष्टाः प्रविश्य बस्तिं यथास्वमाघातान् प्रमेहांश्च जनयन्ति॥

श्लोक 5

तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवङ्क्षणेषु तीव्रशूलः कृच्छ्रान्मूत्रयति वातकृच्छ्रे।
सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे।
बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे।
सर्वलक्षणसन्निपातेन सन्निपातकृच्छ्रे।
स च कृच्छ्रतमः॥

श्लोक 6

यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफं सशुक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणिकस्येव स्वच्छादपि जलात् पङ्कस्तद्वदश्मर्यभिनिर्वर्तते।
सर्वा च सा श्लेष्माश्रया।
अथास्याः पूर्वरूपाणि ज्वरो बस्त्याध्मानमरुचिर्मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां देवना बस्तगन्धित्वं मूत्रस्येति॥

श्लोक 7

सामान्यलिङ्गानि तु नाभिबस्तिमेवनीषु मेहतस्तया मार्गनिरोधने वेदना मूत्रधारासङ्गस्तद्व्यपाये च गोमेदकप्रकाशमनाविलमसितं सुसुखं मूत्रं विसृजति।
तत्सङ्क्षोभणाच्च सरुधिरम्।
धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति।
यथैव च पक्वाशयात् स्रस्तेन शकृताधिष्ठिते बस्तौ मूत्रं न प्रवर्तते तहाश्मर्यापि॥

श्लोक 8

तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितो दन्तान् खादति नाभिं प्रपीडयति मेढ्रं मृद्नाति।
मुहुर्मुहुर्वेपथुमान् कृच्छ्रात्सवातं शकृद्विमुञ्चति।
विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति।
पित्तेन पच्यमान इव दह्यते बस्तिः।
अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना।
श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति।
प्रायेणैतास्तिस्रोऽश्मर्यो बालानां जायन्ते।
तेषामेव चाल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति॥

श्लोक 9

महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति।
मैथुनविघाताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणयोरन्तरे संहरति संहृत्योपशोषयति ततः शुष्कमश्मरी भवति।
सा शुक्रमार्गमावृणोति मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति।
उत्पन्नमात्रायां च शुक्रं निरेति।
प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति॥

श्लोक 10

अश्मर्येव तु वायुनाअणुशो विभिन्ना शर्करेत्युच्यते।
अनुलोमे च मारुते सा सिकतेव मूत्रेण सह च्यवते॥

श्लोक 11

वायुस्तु मूत्रवेगरोधाद्बस्तिमुखमावृणोति।
ततो मूत्रसङ्गं वेदनां कण्डूं च करोति।
कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृत्तं स्थूलं परिप्लुतं च कुरुते।
तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्रवणम्।
पीडिते च बस्तौ धारया प्रवृत्तिरयं द्विविधोऽपि वातबस्तिः कृच्छ्रसाध्यः तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः॥

श्लोक 12

बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठीलाभं ग्रन्थिं करोति।
तेनानिलविण्मूत्रसङ्गो भवत्याध्मानं च।
सा वाताष्ठीला।
विगुणो वायुः बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवान्वितो मूत्रमाविध्याल्पशो वा प्रवर्तयन् भ्रमति सा वातकुण्डलिका।
मूत्रमतिवेलं विधार्य विमुच्यमानं न प्रवर्तते वाहमानस्य तु कृच्छ्रादल्पं प्रवर्तते तन्मूत्रातीतम्॥

श्लोक 13

मूत्ररोधादपानो वायुर्नाभेरधस्तात्तीव्ररुजमाध्मानं मलसङ्गं च कुर्वन्नुदरमभिपूरयेत् तन्मूत्रजठरम्।
मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्रवेत् स मूत्रोत्सङ्गः।
बस्तिद्वारेऽल्पो वृत्तः शीघ्रसम्भवोऽश्मरीतुल्यलिङ्गो मूत्रग्रन्थिः॥

श्लोक 14

मूत्रितस्य व्यवायगमनाद्वातोद्धतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक् पश्चाद्वा भस्मोदकसङ्काशं प्रवर्तते तन्मूत्रशुक्रम्।
वायुना पीडितं शकृन्मूत्रस्रोतः प्रपद्यते ततो विट्गन्धि विट्संसृष्टं च कृच्छान्मूत्रयति स विड्विघातः।
अत्यध्वातपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्रक्तं सरक्तं वा मूत्रं कृछ्रात् प्रवर्तयेत् स तूष्णवातः।
वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति स मूत्रक्षयः।
पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्ति शुष्कं च शङ्खरोचनान्यतरचूर्णवर्णं सर्ववर्णयुक्तं वा भवति।
स मूत्रावसादः॥

श्लोक 15

इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः।
निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः॥
इति नवमोऽध्यायः॥