अष्टाङ्गसंग्रहः सूत्रस्थानम् नवमोऽध्यायः

श्लोक 1

अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

ग्राम्यानूपौदकपिशितानि मधुगुडतिलपयोमाषमूलकबिसैर्विरूढधान्यैश्च नैकध्यमद्यात्।
विशेषतः पयसा मत्स्यान्।
उभयं ह्येतन्मधुररसविपाकित्वादभिष्यन्दि शीतोष्णवीर्यत्वात् परस्परं विरुद्धम्।
तेष्वपि विशेषेण चिलिचिमः।
स पुनः शकली लोहितनयनः सर्वतो लोहितराजिर्लोहितप्रभाकरः प्रायो भूमौ चरति सोऽत्याभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयत्यामविषं च॥

श्लोक 3

सर्वं चाम्लं पयसैकध्यं विरुद्धम्।
तत उत्तरं वा विरुद्धं फलञ्च कङ्गुवरकमकुष्ठवेल्लकुलत्थमाषनिष्पावाश्च।
नमूलकदिहरितं भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात्।
पौष्करं रौहिणीकं जातुकं वा शाकं सह मधुप्योभ्यां नाभ्यवहरेत्।
ताभ्यां च सह कपोतान् सर्षपतैलभृष्टान्।
तथा सर्षपतैलभृष्टानां मत्स्यबदराणां बदराणि श्वाविद्वराहमांसं चैकध्यं पित्तेनाममांसानि, दध्ना कुक्कुटं पृषतं च कुसुम्भशाकेनैरौरभ्रं सौवीरकेण तिलशष्कुलीः, क्षीरेण लवणं मूलकेन माषसूपं, नवनीतेन शाकं, उपोदकां मैरेयमार्द्वीकाभ्यां, पीलूनि करीरैः, बिसैर्विरूढकानि, दध्ना माषसूपेन गुडेन मधुना घृतेन वा लकुचफलं, दध्ना तक्रेण गुडेन वा काकमाचीं, तामेव मत्स्यपचने शृङ्गिवेरपचने वा भाजने सिद्धामन्यत्र वा सिद्धां रात्रिमुषितां, कांस्यभाजने दशरात्रोषितं सर्पिर्मद्यदधिमधुभल्लातकेषु चोष्णम्॥

श्लोक 4

तक्रसिद्धकाम्पिल्लको विरुद्धः।
अङ्गारशूल्यो भासः।
सुराकृसरापायसाश्चैकध्यं विरुद्धाः॥

श्लोक 5

मधुसर्पिर्वसातैलोदकानि समधृतानि द्विशस्त्रिशः समस्तानि वा।
मधुघृते भिन्नांशे दिव्योदकानुपाने।
मधुपुष्करबीजं पद्मोत्तरिकाशाकं शार्करो मैरयो मधु च सहोपयुक्तं विरुद्धम्।
वातं चातिकोपयति।
हारिद्रकः सर्षपतैलभृष्टो विरुद्धः।
पित्तं चातिकोपयति।
पायसो मन्थानुपानो विरुद्धः।
श्लेष्माणं चातिकोपयति।
उपोदका तिलकल्कसिद्धा हेतुरतीसारस्य।
बलाका वारुण्या कुल्माषैश्च विरुध्दा।
सैव वराहवसया परिभृष्टा सद्यो व्यापादयति।
गोधालावंतित्तिरिमयूरकपिञ्जलाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसम्मूर्छिताः।
हारीतमांसं हारिद्रशूलकावसक्तं हारिद्राग्निप्लुष्टं च।
तदेव भस्मपांसुपरिध्वस्तं सक्षौद्रं च॥

श्लोक 6

तथा मत्स्यनिस्तालितस्नेहसाधिताः पिप्पल्यः।
शीतोष्णं नवपुराणमामपक्वं च नैकमैकध्यमद्यात्।
सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्योरुपघाताय।
तृष्णाभिप्रवृद्धये च।
तथैव च पयःपानं रक्तपित्ताय।
शरीरेणायस्तस्य सहसाभ्यवहारः छर्दिषे गुल्माय वा।
वाचा त्वायस्तस्य स्वरसादाय।
इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः।
भेषजद्रव्याणां तु यथोपदेशमेव प्रयोगो न्याय्यतरः।
तद्विरोधः पुनरतिप्रसङ्गभयान्नोक्तः।
न च तद्विज्ञानमेकान्तभद्रकं॥

श्लोक 7

अपिच।
उत्क्लेश्य दोषान्न हरेत् द्रव्यं यत्तत्समासतः।
विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितम्॥

श्लोक 8

बलिनां मिथोगुणानां विषमतया समतयाप्युभयथापि।
संस्कारादिवशेन च भवति निसर्गादपि विरोधः॥

श्लोक 9

क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि क्षौद्रघृते समांशे।
वार्यूषरे रात्रिषु सक्तवश्च तोयान्तरास्ते यवकास्तथा च॥

श्लोक 10

कुशाग्रीयधियामेतदुदाहरणमात्रकम्।
उपनीतमलं विद्धान् सर्वत्र क्रमते यतः॥

श्लोक 11

विस्फोटशोफमदविद्रधिगुल्मयक्ष्मतेजोबलस्मृतिमतीन्द्रियचित्तनाशान्।
कुर्याद्विरुद्धमशनं ज्वरमस्त्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्॥

श्लोक 12

तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः।
द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिम्॥

श्लोक 13

व्यायामस्निग्धदीप्ताग्निवयस्थबलशालिनाम्।
विरोध्यपि न पीडायैसात्म्यमल्पं च भोजनम्॥

श्लोक 14

दोषादिवैपरीत्येन हरते रोगिणां रुजम्।
ऐकध्यं दधिदुग्धादियोजना न विरुध्यते॥

श्लोक 15

योगादिभेदाद्यद्यद्वा पथ्यानामप्यपथ्यता।
तद्भेदान्तरतस्तद्वद्विरोधोऽपि निवर्त्तते॥

श्लोक 16

पादांशेन त्यजेत्सात्म्यमहितं हितमाचरेत्।
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा॥

श्लोक 17

क्रमेणानेन सन्त्यक्ता दोषाः संवर्द्धिता गुणाः।
प्रभवन्ति न पीडायै प्राप्नुवन्ति स्थिरात्मताम्॥

श्लोक 18

त्रितयं चतदुपस्तम्भनमाहारः स्वप्नोऽब्रह्मचर्यं च।
एभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोचितमनुवर्त्तते यावदायुःसंस्कारः।
तत्र आहार उक्तो वक्ष्यते च॥

श्लोक 19

लोकादिसर्गप्रभवा तमोमूला तमोमयी।
बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते॥

श्लोक 20

श्लेष्मावृतेषु स्रोतस्सु श्रमादुपरतेषु च।
इन्द्रियेषु स्वकर्मभ्यो निद्रा विशति देहिनम्॥

श्लोक 21

सर्वेन्द्रियव्युपरतौ मनोऽनुपरतं यदा।
विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति॥

श्लोक 22

निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्।
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च॥

श्लोक 23

अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता।
सुखयुषी पराकुर्यात् कालरात्रिरिवापरा॥

श्लोक 24

सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा।
योगाभियोगिनो बुद्धिर्निर्मला तपसा यथा॥

श्लोक 25

रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा।
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्॥

श्लोक 26

ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः।
दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः॥

श्लोक 27

मुक्त्वातिभाष्ययानाध्वमद्यस्त्रीभारकर्मभिः।
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः॥

श्लोक 28

वृद्धबालाबलक्षीणक्षततृट्च्छूलपीडितान्।
अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि।
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति॥

श्लोक 29

बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि।
विषार्त्तः कण्ठरोगी च नैव जातु निशास्वपि॥

श्लोक 30

हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः।
ज्वरभ्रममतिभ्रंशस्रोतोरोधाग्निमन्दताः॥

श्लोक 31

शोफारोचकहृल्लासपीनसार्द्धावभेदकाः।
कण्डूरूक्कोठपिटकाकासतन्द्रागलामयाः॥

श्लोक 32

विषवेगप्रवृत्तिश्च भवेदहितनिद्रया।
अपच्यमानो बाहुल्यात् स्रोतांस्यावृणुते कफः॥

श्लोक 33

ततः स्रोतस्सु रुद्धेषु जायते गात्रगौरवम्।
गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता॥

श्लोक 34

विरेकः कायशिरसोर्वमनं रक्तमोक्षणम्।
धूमः क्षूत्तृड्व्यथाहर्षशोकमैथुनभीक्रुधः॥

श्लोक 35

चिन्तोत्कण्ठासुखा शय्यासत्वौदार्यं तमोजयः।
रूक्षान्नं चाहितां निद्रां वारयन्ति प्रसङ्गिनीम्॥

श्लोक 36

एत एव च विज्ञेया निद्रानाशस्य हेतवः।
कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः॥

श्लोक 37

निद्रानाशादङ्गमर्द्दशिरोगौरवजृम्भिकाः।
जाड्यग्लानि भ्रमापक्तितन्द्रारोगाश्च वातजाः॥

श्लोक 38

कफोऽल्पो वायुनोद्धूतो धमनीः सनिरुध्य तु।
कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकरिणीम्॥

श्लोक 39

उन्मीलितविनिर्भुग्ने परिवर्त्तिततारके।
भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी॥

श्लोक 40

अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम्।
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः॥

श्लोक 41

असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्।
शीलयेन्मन्दनिद्रस्तु क्षीरमिक्षुरसं रसान्॥

श्लोक 42

आनूपौदकमांसानां भक्ष्यान् गौडिकपैष्टिकान्।
शालीन्मद्यानि माषांश्च कीलाटान् माहिषं दधि॥

श्लोक 43

अभ्यङ्गोद्वर्त्तनस्नानमूर्ध्दश्रवणपूरणम्।
चक्षुषस्तर्पणं लेपः शिरसो वदनस्य च॥

श्लोक 44

प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते।
संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः॥

श्लोक 45

सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत्।
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता॥

श्लोक 46

मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः।
ब्रह्मचर्यरतेर्ग्रम्यसुखनिस्पृहचेतसः॥

श्लोक 47

निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्त्तते।
एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत्॥

श्लोक 48

कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च।
निद्रा बिभर्त्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः॥

श्लोक 49

ग्राम्यधर्मप्रवृत्तौ तु रजस्वलामनिष्टामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणीं सूतिकामनुत्तानां विकृताङ्गां गणिकामप्रजसं दुष्टयोनिमन्ययोनिमन्यस्त्रियं विशेषाच्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रबन्धुभृत्यपत्नीं वर्णिनीं तथा चैत्यचत्वरचतुष्पथोपवनश्मशानाघातसलिलौषधद्विजगुरुसुरनृपालयेष्वहनि गोसर्गे मध्यन्दिनेऽर्द्धरात्रौ पर्वेष्वनङ्गे पिपासुरप्रणीतसङ्कल्पो वा न गच्छेत्।
न च विपरीतव्यवाये योजयेत्।
विशेषेण चातिव्यायतां गर्भिणीं नवप्रसूतामृतुमतीं संवृतयोनिं च।
मूर्द्धाभिघातं च परिहरेत्।
न च निषेकाभिमुखं शुक्रं धारयेदिति।
मनःशरिरस्थितिमात्रमेव व्यवायं सेवेत।
न तत्परः स्यादिति॥

श्लोक 50

भवति चात्र श्लोकः।
विस्रब्धहृष्टो रहसि तत्कामस्तरुणः पुमान्।
समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः॥

श्लोक 51

नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम्।
नारीं नारीर्गुणैर्युक्तां सहपूर्वगुणां व्रजेत्॥

श्लोक 52

द्व्यहाद्वसन्ते तस्यान्ते पक्षात्तद्वत् घनोदये सेवेत कामतः कामं हेमन्ते शिशिरे बली।
स्नानाङ्गरागव्यजनेन्दुपादमांसासवक्षीररसान् रसालाम्॥

श्लोक 53

भक्ष्यान् सिताढ्यान् सलिलं सुशीतम्।
सेवेत निद्रां च रतान्ततान्तः॥

श्लोक 54

स्त्रीसंसर्गद्धि सद्यः स्यात् क्लीबता बलिनामपि।
एवं चाप्यायते शीघ्रं तेषां शुक्रं च धाम च॥

श्लोक 55

दृष्ट्यायुरोजःशुक्रानां क्षयं मेढ्राश्रयान् गदान्।
वायोः कोपमधर्मं च मूढः प्राप्नोत्यतोऽन्यथा॥

श्लोक 56

उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः।
तिमिरादिगदोत्पत्तिर्मूर्द्धाद्याहननाद्ध्रुवम्॥

श्लोक 57

भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयः।
अपर्वमरणं च स्याद्विशेषेणातिमैथुनात्॥

श्लोक 58

नचोनः षोडशाद्वर्षात् सप्ततेः परतो न अच्।
आयुष्कामो नरः स्त्रीभिः संयोगं गन्तुमर्हति॥

श्लोक 59

अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन्।
उपतप्येत सहसा तटाकमिव काजलम्॥

श्लोक 60

शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्॥