श्लोक 1
अथातः छर्द्रिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः।
लङ्घनं प्रागृते वायोः वमनं तत्र योजयेत्॥
श्लोक 3
बलिनो बहुदोषस्य वमतः प्रततं बहु।
ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः॥
श्लोक 4
क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः।
शमनं चौषधं रूक्षदुर्बलस्य तदेव तु॥
श्लोक 5
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते।
उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः॥
श्लोक 6
शाकानि लेहा भोज्यानि रागषाडवपानकाः।
भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्॥
श्लोक 7
गन्धाः सुगन्धयो गन्धफलपुष्पान्न पानजाः।
भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्॥
श्लोक 8
हन्ति मारुतजां छार्दिं सर्पिः पीतं ससैन्धवम्।
किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्॥
श्लोक 9
व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना।
सशुण्ठीदधिधान्येन पीतं तुल्याम्बु वा पयः॥
श्लोक 10
व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः।
स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्।
कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्॥
श्लोक 11
पित्तजायां विरेकाथ द्राक्षेक्षुस्वरसैस्त्रिवृत्।
सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्॥
श्लोक 12
ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान्।
पिबेन्मन्थं यवागूं वा लाजैः समधुशर्करैः।
गुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्॥
श्लोक 13
मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्।
मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्।
द्राक्षारसं रसञ्चेक्षोर्गुडूच्यम्बु पयोऽपि॥
श्लोक 14
जम्ब्वाम्रपल्लवोशीरवटाश्वत्थाङ्कुरोद्भवः।
क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति॥
श्लोक 15
छर्दिं ज्वरमतीसारं मूर्छां तृष्णां च दुर्जयाम्।
धात्रीरसेन शीतं वा पिबेन्मुद्गदलाम्बु वा॥
श्लोक 16
कोलमज्जासितालाजमक्षिकाविट्कणाञ्जनम्।
कोलास्थिमज्जास्रोतोजलाजोत्पलरजांसि वा॥
श्लोक 17
लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा।
पिबेच्छीताम्बुना शालिस्वर्णगैरिकजं रजः।
पिष्टं वा चन्दनद्राक्षामांसीसेव्याम्बुगैरिकम्॥
श्लोक 18
शालितण्डुलतोयेन पिबेद्वा ससितामधु।
मधूकमधुकद्राक्षाकमलामलकाम्बुदम्॥
श्लोक 19
ससारिवापरूषाक्षं मूर्वां वा माक्षिकान्विताम्।
मधुकं सात्मगुप्तं वा शीतं धात्रीरसेन वा॥
श्लोक 20
कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः।
युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत्॥
श्लोक 21
आरग्वधादेर्निर्यूहं शीतं क्षौद्रयुतं पिबेत्।
त्रिफलाकणचव्याद्वा पेयां पत्रैः करञ्जजैः॥
श्लोक 22
मन्थान्यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः।
कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः॥
श्लोक 23
लीढं मनश्शिलाकृष्णामरिचं बीजपूरकात्।
स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत्॥
श्लोक 24
समुस्तां मधुना शृङ्गीं कोलाम्लं वा सजाम्बवम्।
तद्वद्विडङ्गत्रिफलाकृमिघ्नपरिपेलवम्॥
श्लोक 25
तद्वद्दुरालभां खादेत् कपित्थं त्र्यूषणेन वा।
अनुकूलोपचारेण याति द्विष्टार्थजा शमम्॥
श्लोक 26
कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः।
यथास्वं परिशिष्टाश्च तत्कृताश्च तथामयाः॥
श्लोक 27
त्वरमाणो जयेच्छर्दिं प्रसक्तामनुबन्धिनीम्।
कोष्ठाश्रयमहामर्मपीडाकरतरा हि सा॥
श्लोक 28
नचान्नेन विना कायस्तन्मयो वर्ततेऽपि च।
धातुक्षयोऽतिवमथौ समीरणसमीरणात्॥
श्लोक 29
नियतं जायते तस्माद्द्रुतं तत्र प्रयोजयेत्।
प्रच्छर्दनातियोगोक्तं क्रमं स्तम्भनबृंहणम्॥
श्लोक 30
सर्पिर्गुडान् रसान् क्षीरं घृतं कल्याणजीवनम्।
धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः॥
श्लोक 31
हृद्रोगचिकित्सितम्।
हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्।
पिबेत् सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्॥
श्लोक 32
तलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्।
बिल्वं रास्नां यवान् कोलं देवदारु पुनर्नवम्॥
श्लोक 33
कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् जले पचेत्।
तैलं तन्नावने पाने बस्तौ च विनियोजयेत्॥
श्लोक 34
शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः।
पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्॥
श्लोक 35
सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते।
घृतस्य साधितः प्रस्था हृद्रोगश्वासगुल्मनुत्॥
श्लोक 36
दाडिमं कृष्णलवणं हिङ्गुशुण्ठ्यम्लवेतसम्।
अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्॥
श्लोक 37
पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः।
पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः।
विकर्तिकाशूलहरा क्वाथः कोष्णश्च तद्गुणः॥
श्लोक 38
यवानीलवणक्षारवचाजाज्यौषधैः कृतः।
सपीतदारुबीजाह्वपलाशशठिपौष्करैः॥
श्लोक 39
पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्।
वारुणीकल्कितं भृष्टं यमके लवणान्वितम्॥
श्लोक 40
हृत्पार्श्वयोनिशूलेषु खादेत् गुल्मोदरेषु च।
स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च॥
श्लोक 41
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्।
वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि॥
श्लोक 42
सायामस्तम्भशूलामे हृदि मारुतदूषिते।
क्रियषा सद्रवायामपमोहे तु हिता रसाः॥
श्लोक 43
स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः।
बलातैलं सहृद्रोगी पिबेद्वा सुकुमारकम्॥
श्लोक 44
यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्।
रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः॥
श्लोक 45
भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्।
दधिपादं तथाम्लैश्च लाभतः स निषेवितः।
तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः॥
श्लोक 46
त्र्यूषणत्रिफलापाठमधूकं मधुकं चुटी।
पञ्चमूलं लघु बले मेदे ऋद्दिः शतावरी॥
श्लोक 47
कण्डूकरी तामलकी जीवकं चाक्षसंमितैः।
तैः पचेत् सर्पिषः प्रस्थं दध्नः प्रस्थेन माहिषात्॥
श्लोक 48
युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम्।
हृत्पाण्डुग्रहणीदोषकासश्वासहलीमकान्॥
श्लोक 49
दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम्।
क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्॥
श्लोक 50
घृतान्येव च वर्ज्यानि ह्रद्रोगेषु चतुर्ष्वपि।
शेषेषु स्तम्भजाड्यामसंयुक्तेऽपि च वातिके।
कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत् क्रियाम्॥
श्लोक 51
पैत्ते द्राक्षेक्षुनिर्याससिताक्षाद्रपरूषकैः।
युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्तहा॥
श्लोक 52
क्षतपित्तज्वरोक्तं च बाह्यान्तःपरिमार्जनम्।
कट्वीमधुककल्कं च पिबेत् ससितमम्भसा॥
श्लोक 53
श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः।
बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम्॥
श्लोक 54
सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्।
प्रपौण्डरीकमधुकबिसग्रन्थिकशेरुकाः॥
श्लोक 55
सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेत् घृतम्।
शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्।
बस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम्॥
श्लोक 56
कफोद्भवे वमेत् स्विन्नः पिचुमन्दवचाम्भसा।
कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः॥
श्लोक 57
पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्।
सैला यवानककणा यवक्षारात् सुखाम्बुना॥
श्लोक 58
फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा।
पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्।
क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्॥
श्लोक 59
क्वाथे रौहीतकाश्वत्थखदिरोदुम्बरार्जुने।
सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः॥
श्लोक 60
सुखोदकानुपानः स्याल्लेहः कफविकारहा।
श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्॥
श्लोक 61
प्रयोजयेच्छिलाह्रं वा ब्राह्मं चात्र रसायनम्।
तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम्॥
श्लोक 62
स्याच्छूलं यस्य भुक्तेऽति जीर्यत्यल्पं जरां गते।
शाम्येत् सकुष्ठकृमिजिल्लवणद्वयतिल्वकैः॥
श्लोक 63
सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्।
यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः फलैःपुनः॥
श्लोक 64
जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके।
प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये यतः॥
श्लोक 65
तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः।
कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये॥
श्लोक 66
तृष्णाचिकित्सितम्।
तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते।
सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः॥
श्लोक 67
दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्।
निर्वापितं तप्तलोष्टकपालसिकतादिभिः॥
श्लोक 68
सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्।
दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः॥
श्लोक 69
वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः।
यवागूः शालिभिस्तद्वत् कोद्रवैश्च चिरन्तनैः॥
श्लोक 70
शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्।
हिमाम्बुपरिषिक्तस्य पयसा ससितामधु॥
श्लोक 71
रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः।
मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः॥
श्लोक 72
नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः।
नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितम्॥
श्लोक 73
निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः।
दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः॥
श्लोक 74
महासरिद्ध्रदादीनां दर्शनस्मरणादि च।
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते।
रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च॥
श्लोक 75
पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः।
तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा॥
श्लोक 76
तद्विधैश्च गणः शीतकषायान् ससितामधून्।
मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्॥
श्लोक 77
बीजपूरकमृद्वीकावटवेतसपल्लवान्।
मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्॥
श्लोक 78
अपाकशर्कराच्छिन्नरुहालोद्ध्राञ्जनाम्बु वा।
कार्पसीफलकल्कं वा ससितक्षीरभोजनः॥
श्लोक 79
ज्वरोदितं वा द्राक्षादिपञ्चसाराम्बु वा पिबेत्॥
श्लोक 80
कफोद्भवायां वमनं निम्बप्रसववारिणा।
बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्॥
श्लोक 81
जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्।
मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्।
यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्॥
श्लोक 82
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा।
त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः॥
श्लोक 83
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्।
तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्॥
श्लोक 84
आतपात् ससितं मन्थं यवकोलजसक्तुभिः।
सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः॥
श्लोक 85
शीतस्नानाच्च मद्याम्बु पिबेत्तृड्वान् गुडाम्बु वा।
मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्॥
श्लोक 86
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्।
स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः॥
श्लोक 87
पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्।
गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत्॥
श्लोक 88
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्।
कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा।
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्॥
श्लोक 89
रोगोपसर्गजातायां धान्याम्बु ससिताम्धु।
पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया॥
श्लोक 90
तृष्णक् पूर्वामयक्षीणो न लभेत जलं यदि।
मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं ततः॥
श्लोक 91
सात्म्यान्नपानभौषज्यैस्तृष्णां तस्य जयेत्पुरः।
तस्यां ज्जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्॥
॥इति अष्टमोऽध्यायः॥