अष्टाङ्गसंग्रहः शरीरस्थानम् अथाष्टमोऽध्यायः

श्लोक 1

अथातः प्रकृतिभेद्दीयं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सप्त प्रकृतयो दोषैः पृथक् संसर्गेण साम्येन च भवन्ति।
तत्र शुक्रार्तवगर्भाशयकालेषु मातुश्चाहारविहारयोरेकोऽनेको वा यो दोषो भवत्याधिक्येन तेनामरणाद्विषवल्यामिवोत्पद्यमानस्य कृमेर्विषेण सविषकृमेरिव वृश्चिकादेराशीविषस्येव वा स्वविषेण प्रकृतिर्जायते॥

श्लोक 3

तस्मात्तन्मयतया शुक्रार्तवयोर्देहस्य भावितत्वात् प्राकृतत्वाच्च तावता तेन दोषेण न विहन्यते।
तद्गुणैरेव चास्यशरीरमुपस्क्रियते।
ततश्च तद्गुणप्रतिपक्षैः सहसा न बाध्यते।
तस्यां त्ववस्थायां विकृतिमति दोषे उल्बणेनैव गर्भः सम्भवति।
सम्भव एव विपद्यते।
विकृतो वा भवति॥

श्लोक 4

तथा च केचिदाहुः।
द्विविधा वातादयः प्राकृता वैकृताश्च।
तत्र प्राकृताः सप्तविधायाः प्रकृतेर्हेतुभूताः शरीरैकजन्मानः।
ते शरीरधारणाद्धातुसंज्ञाः।
दोषाख्यानां विकृतानां बीजभूताः।
मुमूर्षोः स्वरूपाच्चलन्ति।
सर्वेष्वपि च देहे सन्निहितेषु प्रकृतावुल्बणेन व्यपदेशः॥

श्लोक 5

वैकृतास्तु गर्भादभिनिस्सृतस्याहाररसस्य मलाः सम्भवन्ति।
प्राकृतेष्ववरोहन्ति।
ते कालादिवशेन स्वप्नमाणवृद्धिक्षययोगाद्देहमनुगृह्णन्ति दूषयन्ति च।
तद्वदोजोऽपि परं हृदयस्थमष्टबिन्दुप्रमाणमाधारः प्रासृतिकस्य रसात्मकस्यौजसः क्षयवृद्धिभाजः॥

श्लोक 6

अथ स्वदोषगुणानुरोधाद्वातप्रकृतिस्तनुरूक्षस्तब्धाल्पाङ्गदन्तनखरोमनेत्रस्वरः शीतद्विडुद्वद्धपिण्डिकः सशब्दसन्धिगामी शीघ्रारम्भक्षोभग्रहणविस्मरणश्चलधृतिमतिगतिदृष्टिस्वभावसौहार्दस्तेनोऽनार्यो मत्सर्यजितेन्द्रियः प्रियगान्धर्वेतिहासहासविलासकलहमृगयोद्यानयात्रः स्निग्धोष्णमधुराम्ललवणान्नपानकाङ्क्षोपशयश्च भवति॥

श्लोक 7

अपि च।
अल्पवित्तबलजीवितनिद्रः क्षामवाग्धमनिसन्ततगात्रः।
दुर्भगोऽतिबहुभुग्बहुभाषी नास्तिकः स्फुटितकेशकराङ्घ्रिः॥

श्लोक 8

किञ्चिदुन्मिषितदुर्मुखसुप्तस्त्रस्यति क्रथति खादति दन्तान्।
शुष्करूक्षविषमासु सरित्सु व्योम्नि शौलशिखरेषु च याति॥

श्लोक 9

पित्तप्रकृतिरुष्णगौरगात्रस्ताम्रनखनयनजिह्वौष्ठपाणिपादतलः शिथिलसन्धिबन्धमांसः करभकपिलविरलमृदुकेशरोमा मध्यबलायुरल्पशुक्रव्यवायापत्यः शूरोऽभिमानी शीघ्रवलीखलतिपलितपिप्लुव्यङ्गक्षुत्पिपासो मेधावी दुर्भगः स्वादुतिक्तकषायशीताभिलाषोपशयश्च भवति॥

श्लोक 10

अपि च।
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः।
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि॥

श्लोक 11

घर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः।
सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च॥

श्लोक 12

कफप्रकृतिस्तु दूर्वेन्दीवरशरकाण्डान्यतमवर्णः समसुविभक्तस्निग्धस्थिरसुकुमारश्लिष्टमांससन्धिबन्धः परिपूर्णचारुगात्रो महाललाटोरुबाहुर्व्यक्तसितासितप्रसन्नायतविशालपक्ष्मलाक्षः सिंहमृदङ्गघनघोषः क्षुत्पिपासोष्णसहिष्णुर्बह्वोजोबलशुक्रव्यवायापत्यश्चिरशोषमाल्यानुलेपनो दृढप्रच्छन्नवैरः पेशलः सत्यवादी स्मृतिमान् धृतिमानलोलुपो बाल्येऽप्यरोदनः कटुतिक्तकषायोष्णरूक्षेच्छोपशयश्च भवति॥

श्लोक 13

अपि च।
अल्पव्याहारक्रोधपानाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः।
श्राद्धो गम्भीरः स्थूललक्षः क्षमावानार्यो निद्रालुर्दीर्धसूत्रः कृतज्ञः॥

श्लोक 14

ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां दृढसौहृदय्यः।
स्वप्ने सपद्मान् सविहङ्गमालांस्तोयाशयान् पश्यति तोयदांश्च॥

श्लोक 15

उभयलक्षणसङ्करे तु संसर्गप्रकृतिः।
सर्वगुणसमुदितः समदोषप्रकृतिः।
तत्राद्यास्त्रयो नित्यातुराः दोषानुशयितप्रकृतित्वात्।
विशेषतश्च द्वन्द्वप्रकृतयः।
तेषु हि गुणमिश्रविकारकारिषु क्षुत्पिपासादिष्विवारोग्यव्यपदेशः।
तस्माद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत्।
समसर्वरसेन सात्म्येनान्त्यं यथर्तुविहितेन च॥

श्लोक 16

दोषवच्च गुणैरपि सत्त्वादिभिः सप्त प्रकृतयो भवन्ति।
तास्तदभिनिर्वृत्तैरेव यथोक्तैः शौचादिभिर्जानीयात्॥

श्लोक 17

तथा पुनः सप्त प्रकृतयो जातिकुलदेशकालवयोबलप्रत्यात्मसंश्रयाः।
दृश्यन्ते हि पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः॥

श्लोक 18

सत्त्वादीनां च तरतमयोगाच्छरीरविशेषेभ्यश्चान्योन्यानुविधायित्वाच्च भेदाश्रयमसङ्ख्येयं भवति।
शरीरमपि सत्त्वादीननुरुध्यते।
सत्त्वादयोऽपि शरीरम्॥

श्लोक 19

सत्त्वाद्यसङ्ख्यभेदावेशाच्च रूपस्वरचरितानुकरणमप्यनूकशब्दवाच्यमसङ्ख्यभेदं भवति।
तदावेशस्त्वनन्तरजन्माभ्यासवासनया जन्यते।
तस्माद्देवमानुषतिर्यक्प्रेतनारकाणां तत्तद्विशेषाणां च यथायथमेवानूकं पुरुषस्यान्ववेक्षेत॥

श्लोक 20

वयस्त्रिविधं बालं मध्यं वृद्धं च।
तत्राषोडशाद्वर्षाद्बालम्।
आ षष्टेर्मध्यम्।
ततो वृद्धम्।
तेष्वपि स्तन्याहारोभयवृत्त्या बालं त्रिविधम्।
तस्मिन् देहप्रमाणवृद्धिः श्लेष्मोद्रेकश्च।
तेन बालस्य स्नेहमार्दवसौकुमार्याल्पक्रोधत्वसौभाग्यानि भवन्ति॥

श्लोक 21

मध्यमपि त्रिविधं यौवनं सम्पूर्णत्वमपरिहानिश्च।
तस्मिन् पित्तोद्रेकः।
तेन दीप्ताग्निता प्रज्ञाधिक्यपरिपाकौ व्यवसायश्च।
तत्रात्रिंशतो यौवनमाचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यपौरुषस्मरणवचनविज्ञानप्रश्रयगुणसम्पूर्णत्वमतः परमपरिहानिः॥

श्लोक 22

वृद्धं तु शश्वत् क्षीयमाणधात्विन्द्रियादिगुणं वलीखलतिकासश्चसाग्निसादादिभिरभिभूयमानं जीर्णं भवनमिवाभिवृष्टमवसीदति।
तस्मिन्मारुतोद्रेकः तेन श्लथसारमांससन्ध्यस्थिता त्वक्पारुष्यमवनामः कायस्य वेपथुः कासः श्वासः श्लेष्मसिङ्घाणकोदीरणं धातुक्षयश्च॥

श्लोक 23

अन्ये पुनराहः।
बाल्यं वृद्धिः प्रभा मेधां त्वक्शुक्राक्षिश्नुतीन्द्रियम्।
दशकेषु क्रमाद्व्येति मनस्सर्वेन्द्रियाणि च॥

श्लोक 24

एवं वर्षतमायुषः प्रमाणमस्मिन् काले।
सन्ति पुनः कर्मविशेषादूनाधिकवर्षशतजीविनो मनुष्याः।
तेषां यथोक्तैः प्रकृतिविशेषैरायुषः प्रमाणमुपलभ्य वयस्त्रिधा विभजेत्॥

श्लोक 25

अपि च।
वर्षं वर्षं क्षयं याति नृणां याते शते शते।
आयुषोऽपुण्यबाहुल्याद्यदा यन्मानमिष्यते॥

श्लोक 26


बलमपि त्रिविधं भवति।
सहजं कालकृतं युक्तिकृतं च।
तत्र सहजं देहसत्त्वयोः प्राकृतम्।
कालकृतमृतुविभागजं वयःकृतं च।
युक्तिकृतं पुनराहारविहारोत्थमूर्जस्करयोगजं च।
तद्वृद्धिकरास्त्विमे च भावा भवन्ति।
तद्यथा।
बलवत्पुरुषे देशे जन्म तद्विधे च काले सुखश्च कालयोगो बीजक्षेत्रगुणशरीराहारसत्त्वसम्पत्तयः स्वमावो यौवनं व्यायामो हर्षश्च॥

श्लोक 27

तथा साराण्यष्टौ त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्वात्मकान्युत्तरोत्तरवराणि बलमानज्ञानार्थमुपदिश्यन्न्ते।
अपि च।
न मुह्येद्देहमात्रदर्शनादेव भिषगयमुपचयेन माहाशरीरत्वाद्वा बलवानयं कृशत्वादल्पशरीरत्वाद्वाल्पबल इति।
तच्चोभयमप्यन्यथा दृष्टं गजसिंहे॥

श्लोक 28

तत्र सर्वैः सारैरुपेतो भवत्यतिबलः परमगौरवयुक्तः क्लेशक्षमः सर्वारम्भेष्वात्मनि प्रत्याशावान् कल्याणाभिनिवेशी स्थिरशरीरः सुसमाहितगतिः सानुनादस्निग्धगम्भीरमहास्वरः सुखैश्वर्यवित्तोपभोग सम्मानभाङ्मन्दजरामयः प्रायस्तुल्यगुणविस्तीर्णापत्यो दीर्घायुश्च।
तद्विपरीतस्त्वसारः।
मध्यो मध्यगुणः॥

श्लोक 29

प्रमाणं पुनः स्वाङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते तिस्रोऽन्याः क्रमेणोत्तरोत्तरं पञ्चमभागहीनास्तन्नखहीना वा।
चतुरङ्गुलायताः पृथक् प्रपदपादतलपार्ष्णयः षट्पञ्चचतुरङ्गुलविस्तृताश्चतुर्दशैवायामेन पादश्चतुर्दशैव परिणाहेन।
तथा गुल्फौ जङ्घामध्यं च।
चतुरङ्गुलोत्सेधः पादः।
अष्टादशायामा जङ्घा ऊरुश्च।
चतुरङ्गुलं जानु।
त्रिंशदङ्गुलपरिणाह ऊरुः।
षडायामेन॥

श्लोक 30

मुष्क्कमेढ्रावष्टपञ्चपरिणाहौ।
षोडशविस्तारा कटी पञ्चाशत्परिणाहा।
दशाङ्गुलं बस्तिशिरः।
द्वादशाङ्गुलमुदरम्।
दशविस्तारे द्वादशायामे पार्श्वे।
द्वादशोत्सेधं त्रिकम्।
अष्टादशोत्सेधं पृष्ठम्।
द्वादशकं स्तनान्तरम्।
द्व्यङ्गुलं स्तनपर्यन्तम्।
चतुर्विंशत्यङ्गुलविशालं द्वादशोत्सेधमुरः।
द्व्यङ्गुलं हृदयम्।
अष्टकौ स्कन्धे कक्षे च।
षट्कावंसौ।
षोडशकौ प्रबाहू।
पञ्चदशकौ प्रपाणी।
द्वादशाङ्गुलौ पाणी।
तत्रापि पञ्चाङ्गुला मध्यमाङ्गुलिः।
ततोऽर्धाङ्गुलहीने प्रदेशिन्यनामिके।
सार्धत्र्यङ्गुलौ कनिष्ठिकाङ्गुष्ठौ।
चतुरङ्गुलोत्सेधा द्वाविंशतिपरिणाहा शिरोधरा।
द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननम्॥

श्लोक 31

पञ्चाङ्गुलमास्यम्।
चतुरङ्गुलं पृथक् चिबुकौष्ठनासादृष्ट्यन्तरकर्णललाटम्। त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा।
द्व्यङ्गुलायतमङ्गुष्ठोदरविस्तृतं नेत्रम्।
तत्र शुक्लात्तृतीयांशं कृष्णम्।
कृष्णान्नवमांशा मसूरदलमात्रा दृष्टिः।
षडङ्गुलोत्सेधं द्वात्रिंशत्परिणाहं शिर इति।
सर्वं पुनः शरीरमङ्गुलानि चतुरशीतिः।
तदायामविस्तारसमं सममुच्यते।
तत्र यथोक्तपरिमाणमिष्टमनिष्टं हीनमधिकं वा।
तथा ह्रस्वदीर्घगौरकृष्णरोमारोमस्थूलकृशं चेति॥

श्लोक 32

इष्टं पुनर्महाशरीरदर्शनवदनहनुस्तनाग्रपृष्ठस्वरमुपचितोरुस्थिक्कटीवक्षोग्रीवातालुकमुभयगुणपाणिपादचिबुककर्णललाटम्।
सूक्ष्मास्थिदन्तनखाङ्गुलिपर्वकेशम्।
दीर्घाङ्गुलिसक्थिबाहूच्छ्वासेक्षितनेत्रजिह्वम्।
विस्तीर्णास्याधरौष्ठजिह्वाललाटकर्णपठिवक्षोऽल्पमेढ्रग्रीवाकेशम्।
स्निग्धत्वक्कचकरजनयनस्वनम्।
स्थिरेन्द्रियत्वङ्नखकेशपार्श्वम्।
गम्भीरनाभिसन्धिस्वरम्।
गूढजत्रुपृष्ठवंशदन्तमूलम्।
रक्तताल्वोष्ठनखनेत्रान्तमाताम्रजिह्वाहस्तपादतलम्।
कृष्णकेशभ्रूनेत्रपक्ष्मतारकम्।
शुक्लशुक्लमण्डलदशनचरितमुन्नतचित्तरकन्धललाटोदरमुखनखपादम्।
नीचैर्बद्धकर्णस्तननासाग्रचङ्क्रमणम्।
घनस्कन्धकन्धरादन्ताङ्गुलित्वक्सौहार्दम्।
तनुनखमध्यजिह्वम्।
वृत्तस्फिग्ग्रीवानखम्।
समपृष्ठदन्तललाटेक्षितम्।
तथानुपूर्ववृत्तावूरू।
दक्षिणावर्तनाभिः।
प्रकृष्टान्तरौस्तनौ भ्रुवौ च।
कूर्माकृतयो नखाः पादौ च।
र्ज्वास्यं नासावंशश्च।
अनुल्बणे हनू वेषश्च।
श्लक्ष्णं तालु जिह्वा च।
नातिस्थूलकृशावोष्ठौ देहबन्धश्च।
सस्पन्दं हृदयं शङ्खौ मन्ये च।
सोष्मतालुपादोदरं निश्वासश्च।
पृष्ठतोऽवनतौ रोमशौ च कर्णौ।
ईषत्प्रलम्बिन्यौ भ्रुवौ वलिनं सुश्लिष्टसन्ध्यर्धचन्द्राकृतिललाटमातपत्रोपमं शिरः।
नैकमूला मृदवः केशाः दृढं गूढं सिरास्थिसन्धि।
प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि।
हसितरुदितानि च चेष्टितानि।
तथा स्नातानुलिप्तमधःप्रसृतानुपूर्व्या शुष्यदिष्टं शरीरमिति भवति चात्र॥

श्लोक 33

उत्तरोत्तरसुक्षेत्रं गर्भीद्भवति नीरुजम्।
आयामज्ञानविज्ञानेर्वर्धमानं शनैश्शुभम्॥

श्लोक 34

इति सर्वगुणोपेते शरीरे शरदां शतम्।
आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः॥

श्लोक 35

अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते।
सत्ववांस्तभ्यमानस्तु राजसो नैव तामसः॥

श्लोक 36

दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः।
रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः॥