श्लोक 1
न मानेन विना युक्तिर्द्र व्याणां जायते क्वचित् अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया
श्लोक 2
चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः विहाय सर्वमानानि मागधं मानमुच्यते
श्लोक 3
त्रसरेणुर्बुधैः प्रोक्तस्त्रिशता परमाणुभिः त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते
श्लोक 4
जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका
श्लोक 5
तिसृभी राजिकाभिश्च्न सर्षपः प्रोच्यते बुधैः यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्
श्लोक 6
षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानकौ माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते
श्लोक 7
टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते क्षुद्र को वटकश्चैव द्र ङ्क्षणः स निगद्यते
श्लोक 8
कोलद्वयन्तुं कर्षः स्यात्स प्रोक्तः पाणिमानिका अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्
श्लोक 9
विडालपदकं चैव तथा षोडशिका मता करमध्यो हंसपदं सुवर्णं कवलग्रहः
श्लोक 10
उदुम्बरञ्च पर्यायैः कर्षमेव निगद्यते स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा
श्लोक 11
शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका प्रकुञ्चः षोडशी बिल्वं पलमेवात्र कीत्तर्यते
श्लोक 12
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते प्रसृतिभ्यामञ्जलि स्यात्कुडवोऽद्धशरावकः
श्लोक 13
अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः
श्लोक 14
शरावाभ्यां भवेत्प्रस्थश्चतुः प्रस्थस्तथाऽढकः भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः
श्लोक 15
चतुर्भिराढकैद्रो र्णः! कलशो नल्वणोऽमणः उन्मानञ्चघटो राशिद्रो र्ण!पर्यायसंज्ञितः
श्लोक 16
द्रो णाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः शूर्पाभ्याञ्च भवेद् द्रो णी वाहो गोणी च सा स्मृता
श्लोक 17
द्रो णीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः चतुःसहस्रपलिका षण्णवत्यधिका च सा
श्लोक 18
पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः तुलापलशतं ज्ञेयं सर्वत्रैवैष निश्चयः
श्लोक 19
माषटङ्काक्षबिल्वानि कुडवप्रस्थमाढकम् राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम्
श्लोक 20
गुञ्जाऽदिमानमारभ्य यावत्स्यात्कुडवस्थितिः द्र वार्द्र शुष्कद्र व्याणां तावन्मानं समं मतम्
श्लोक 21
प्रस्थादिमानमारभ्य द्विगुणं तद् द्र वार्द्र योः मानं तथा तुलायास्तु द्विगुणं न क्वचित्स्मृतम्
श्लोक 22
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत्
श्लोक 23
इति मागधमानं समाप्तम्
यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसंमता
श्लोक 24
यवो द्वादशभिर्गौरसर्षपैः प्रोच्यते बुधैः यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते
श्लोक 25
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्क्वचित् चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च
श्लोक 26
गद्याणो माषकैः षड्भिः कर्षः स्याद्दशमाषकैः चतुष्कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः
श्लोक 27
चतुष्पलैश्च कुडवः प्रस्थाद्याः पूर्ववन्मताः स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम्
श्लोक 28
प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत्
नाल्पं हन्त्यौषधं व्याधिं यथाऽम्भोऽल्प महानलः
अतिमात्रं च दोषाय यथा शस्ये बहूदकम्