अनेकार्थवर्गः

श्लोक 1

अक्षशब्दः स्मृतोऽष्टासु सौवर्चलबिभीतके कर्षपद्माक्षरुद्रा क्षशकटेन्द्रि यपाशके

श्लोक 2

काकाख्यः काकमाची च काकोली काकणन्तिका
काकजङ्घा काकनासा काकोदुम्बरिकाऽपि च
सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः

श्लोक 3

सर्पद्विरदमेषेषु सीसके नागकेसरे नागबल्ल्यां नागदन्त्यां नागशब्दः प्रयुज्यते

श्लोक 4

मांसेद्र वे चेक्षुरसे पारदे मधुरादिषु बोले रागे विषे नीरे रसो नवसु वर्त्तते