अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 7

श्लोक 1

अरि-वत् प्राणिनो मांस-कीलका विशसन्ति यत् ।
अर्शांसि तस्माद् उच्यन्ते गुद-मार्ग-निरोधतः ॥ १ ॥

श्लोक 2

दोषास् त्वङ्-मांस-मेदांसि संदूष्य विविधाकृतीन् ।
मांसाङ्कुरान् अपानादौ कुर्वन्त्य् अर्शांसि तान् जगुः ॥ २ ॥

श्लोक 3

सह-जन्मोत्तरोत्थान-भेदाद् द्वे-धा समासतः ।
शुष्क-स्रावि-विभेदाच् च गुदः स्थूलान्त्र-संश्रयः ॥ ३ ॥

श्लोक 4

अर्ध-पञ्चाङ्गुलस् तस्मिंस् तिस्रो ऽध्य्-अर्धाङ्गुलाः स्थिताः ।
बल्यः प्रवाहिणी तासाम् अन्तर् मध्ये विसर्जनी ॥ ४ ॥

श्लोक 5

बाह्या संवरणी तस्या गुदौष्ठो बहिर् अङ्गुले ।
यवाध्य्-अर्धः प्रमाणेन रोमाण्य् अत्र ततः परम् ॥ ५ ॥

श्लोक 6

बाह्या संवरणी तस्यां यवाध्य्-अर्ध-प्रमाणेन तत्र हेतुः सहोत्थानां वली-बीजोपतप्त-ता ।
अर्शसां बीज-तप्तिस् तु माता-पित्र्-अपचारतः ॥ ६ ॥

श्लोक 7

वली-बीजोपतप्ति-ता दैवाच् च ताभ्यां कोपो हि संनिपातस्य तान्य् अतः ।
अ-साध्यान्य् एवम् आख्याताः सर्वे रोगाः कुलोद्भवाः ॥ ७ ॥

श्लोक 8

सह-जानि विशेषेण रूक्ष-दुर्-दर्शनानि च ।
अन्तर्-मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥ ८ ॥

श्लोक 9

षो-ढान्यानि पृथग् दोष-संसर्ग-निचयास्रतः ।
शुष्काणि वात-श्लेष्मभ्याम् आर्द्राणि त्व् अस्र-पित्ततः ॥ ९ ॥

श्लोक 10

दोष-प्रकोप-हेतुस् तु प्राग् उक्तस् तेन सादिते ।
अग्नौ मले ऽति-निचिते पुनश् चाति-व्यवायतः ॥ १० ॥

श्लोक 11

यान-संक्षोभ-विषम-कठिनोत्कटकासनात् ।
वस्ति-नेत्राश्म-लोष्टोर्वी-तल-चैलादि-घट्टनात् ॥ ११ ॥

श्लोक 12

भृशं शीताम्बु-संस्पर्शात् प्रतताति-प्रवाहणात् ।
वात-मूत्र-शकृद्-वेग-धारणात् तद्-उदीरणात् ॥ १२ ॥

श्लोक 13

ज्वर-गुल्मातिसाराम-ग्रहणी-शोफ-पाण्डुभिः ।
कर्शनाद् विषमाभ्यश् च चेष्टाभ्यो योषितां पुनः ॥ १३ ॥

श्लोक 14

आम-गर्भ-प्रपतनाद् गर्भ-वृद्धि-प्रपीडनात् ।
ईदृशैश् चापरैर् वायुर् अपानः कुपितो मलम् ॥ १४ ॥

श्लोक 15

पायोर् वलीषु तं धत्ते तास्व् अभिष्यण्ण-मूर्तिषु ।
जायन्ते ऽर्शांसि तत्-पूर्व-लक्षणं मन्द-वह्नि-ता ॥ १५ ॥

श्लोक 16

पायु-वलीषु तं धत्ते पायोर् वलीषु संधत्ते विष्टम्भः सक्थि-सदनं पिण्डिकोद्वेष्टनं भ्रमः ।
सादो ऽङ्गे नेत्रयोः शोफः शकृद्-भेदो ऽथ-वा ग्रहः ॥ १६ ॥

श्लोक 17

मारुतः प्रचुरो मूढः प्रायो नाभेर् अधश् चरन् ।
स-रुक् स-परिकर्तश् च कृच्छ्रान् निर्गच्छति स्वनम् ॥ १७ ॥

श्लोक 18

अन्त्र-कूजनम् आटोपः क्षाम-तोद्गार-भूरि-ता ।
प्रभूतं मूत्रम् अल्पा विड् अ-श्रद्धा धूमको ऽम्लकः ॥ १८ ॥

श्लोक 19

प्रभूत-मूत्र-ताल्पा विड् शिरः-पृष्ठोरसां शूलम् आलस्यं भिन्न-वर्ण-ता ।
तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचार-ता ॥ १९ ॥

श्लोक 20

आशङ्का ग्रहणी-दोष-पाण्डु-गुल्मोदरेषु च ।
एतान्य् एव विवर्धन्ते जातेषु हत-नामसु ॥ २० ॥

श्लोक 21

एतान्य् एव च वर्धन्ते निवर्तमानो ऽपानो हि तैर् अधो-मार्ग-रोधतः ।
क्षोभयन्न् अनिलान् अन्यान् सर्वेन्द्रिय-शरीर-गान् ॥ २१ ॥

श्लोक 22

तथा मूत्र-शकृत्-पित्त-कफान् धातूंश् च साशयान् ।
मृद्नात्य् अग्निं ततः सर्वो भवति प्राय-शो ऽर्शसः ॥ २२ ॥

श्लोक 23

कृशो भृशं हतोत्साहो दीनः क्षामो ऽति-निष्-प्रभः ।
अ-सारो विगत-च्छायो जन्तु-जुष्ट इव द्रुमः ॥ २३ ॥

श्लोक 24

कृत्स्नैर् उपद्रवैर् ग्रस्तो यथोक्तैर् मर्म-पीडनैः ।
तथा कास-पिपासास्य-वैरस्य-श्वास-पीनसैः ॥ २४ ॥

श्लोक 25

क्लमाङ्ग-भङ्ग-वमथु-क्षवथु-श्वयथु-ज्वरैः ।
क्लैब्य-बाधिर्य-तैमिर्य-शर्कराश्मरि-पीडितः ॥ २५ ॥

श्लोक 26

क्षाम-भिन्न-स्वरो ध्यायन् मुहुः ष्ठीवन् अ-रोचकी ।
सर्व-पर्वास्थि-हृन्-नाभि-पायु-वङ्क्षण-शूल-वान् ॥ २६ ॥

श्लोक 27

गुदेन स्रवता पिच्छां पुलाकोदक-संनिभाम् ।
विबद्ध-मुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥ २७ ॥

श्लोक 28

पाण्डु पीतं हरिद् रक्तं पिच्छिलं चोपवेश्यते ।
गुदाङ्कुरा बह्व्-अनिलाः शुष्काश् चिमिचिमान्विताः ॥ २८ ॥

श्लोक 29

म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः ।
मिथो वि-सदृशा वक्रास् तीक्ष्णा विस्फुटिताननाः ॥ २९ ॥

श्लोक 30

बिम्बी-कर्कन्धु-खर्जूर-कार्पासी-फल-संनिभाः ।
के-चित् कदम्ब-पुष्पाभाः के-चित् सिद्धार्थकोपमाः ॥ ३० ॥

श्लोक 31

शिरः-पार्श्वांस-कट्य्-ऊरु-वङ्क्षणाभ्यधिक-व्यथाः ।
क्षवथूद्गार-विष्टम्भ-हृद्-ग्रहा-रोचक-प्रदाः ॥ ३१ ॥

श्लोक 32

हृद्-रवा-रोचक-प्रदाः कास-श्वासाग्नि-वैषम्य-कर्ण-नाद-भ्रमावहाः ।
तैर् आर्तो ग्रथितं स्तोकं स-शब्दं स-प्रवाहिकम् ॥ ३२ ॥

श्लोक 33

रुक्-फेन-पिच्छानुगतं विबद्धम् उपवेश्यते ।
कृष्ण-त्वङ्-नख-विण्-मूत्र-नेत्र-वक्त्रश् च जायते ॥ ३३ ॥

श्लोक 34

गुल्म-प्लीहोदराष्ठीला-संभवस् तत एव च ।
पित्तोत्तरा नील-मुखा रक्त-पीतासित-प्रभाः ॥ ३४ ॥

श्लोक 35

तन्व्-अस्र-स्राविणो विस्रास् तनवो मृदवः श्लथाः ।
शुक-जिह्वा-यकृत्-खण्ड-जलौको-वक्त्र-संनिभाः ॥ ३५ ॥

श्लोक 36

दाह-पाक-ज्वर-स्वेद-तृण्-मूर्छा-रुचि-मोह-दाः ।
सोष्माणो द्रव-नीलोष्ण-पीत-रक्ताम-वर्चसः ॥ ३६ ॥

श्लोक 37

यव-मध्या हरित्-पीत-हारिद्र-त्वङ्-नखादयः ।
श्लेष्मोल्बणा महा-मूला घना मन्द-रुजः सिताः ॥ ३७ ॥

श्लोक 38

यव-मध्या हरित्-पीता हारिद्र-त्वङ्-नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्ध-वृत्त-गुरु-स्थिराः ।
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्-आढ्याः स्पर्शन-प्रियाः ॥ ३८ ॥

श्लोक 39

करीर-पनसास्थ्य्-आभास् तथा गो-स्तन-संनिभाः ।
वङ्क्षणानाहिनः पायु-वस्ति-नाभि-विकर्तिनः ॥ ३९ ॥

श्लोक 40

स-कास-श्वास-हृल्-लास-प्रसेका-रुचि-पीनसाः ।
मेह-कृच्छ्र-शिरो-जाड्य-शिशिर-ज्वर-कारिणः ॥ ४० ॥

श्लोक 41

क्लैब्याग्नि-मार्दव-च्छर्दिर्-आम-प्राय-विकार-दाः ।
वसाभ-स-कफ-प्राज्य-पुरीषाः स-प्रवाहिकाः ॥ ४१ ॥

श्लोक 42

वसाभाः स-कफ-प्राज्य- न स्रवन्ति न भिद्यन्ते पाण्डु-स्निग्ध-त्वग्-आदयः ।
संसृष्ट-लिङ्गाः संसर्गान् निचयात् सर्व-लक्षणाः ॥ ४२ ॥

श्लोक 43

रक्तोल्बणा गुदे-कीलाः पित्ताकृति-समन्विताः ।
वट-प्ररोह-सदृशा गुञ्जा-विद्रुम-संनिभाः ॥ ४३ ॥

श्लोक 44

ते ऽत्य्-अर्थं दुष्टम् उष्णं च गाढ-विट्-प्रतिपीडिताः ।
स्रवन्ति सहसा रक्तं तस्य चाति-प्रवृत्तितः ॥ ४४ ॥

श्लोक 45

भेकाभः पीड्यते दुःखैः शोणित-क्षय-संभवैः ।
हीन-वर्ण-बलोत्साहो हतौजः कलुषेन्द्रियः ॥ ४५ ॥

श्लोक 46

मुद्ग-कोद्रव-जूर्णाह्व-करीर-चणकादिभिः ।
रूक्षैः संग्राहिभिर् वायुः स्वे स्थाने कुपितो बली ॥ ४६ ॥

श्लोक 47

स्व-स्थाने कुपितो बली अधो-वहानि स्रोतांसि संरुध्याधः प्रशोषयन् ।
पुरीषं वात-विण्-मूत्र-सङ्गं कुर्वीत दारुणम् ॥ ४७ ॥

श्लोक 48

तेन तीव्रा रुजा कोष्ठ-पृष्ठ-हृत्-पार्श्व-गा भवेत् ।
आध्मानम् उदरावेष्टो हृल्-लासो परिकर्तनम् ॥ ४८ ॥

श्लोक 49

वस्तौ च सु-तरां शूलं गण्ड-श्वयथु-संभवः ।
पवनस्योर्ध्व-गामि-त्वं ततश् छर्द्य्-अ-रुचि-ज्वराः ॥ ४९ ॥

श्लोक 50

हृद्-रोग-ग्रहणी-दोष-मूत्र-सङ्ग-प्रवाहिकाः ।
बाधिर्य-तिमिर-श्वास-शिरो-रुक्-कास-पीनसाः ॥ ५० ॥

श्लोक 51

मनो-विकारस् तृष्णास्र-पित्त-गुल्मोदरादयः ।
ते ते च वात-जा रोगा जायन्ते भृश-दारुणाः ॥ ५१ ॥

श्लोक 52

दुर्-नाम्नाम् इत्य् उदावर्तः परमो ऽयम् उपद्रवः ।
वाताभिभूत-कोष्ठानां तैर् विनापि स जायते ॥ ५२ ॥

श्लोक 53

सह-जानि त्रि-दोषाणि यानि चाभ्यन्तरे वलौ ।
स्थितानि तान्य् अ-साध्यानि याप्यन्ते ऽग्नि-बलादिभिः ॥ ५३ ॥

श्लोक 54

द्वन्द्व-जानि द्वितीयायां वलौ यान्य् आश्रितानि च ।
कृच्छ्र-साध्यानि तान्य् आहुः परि-संवत्सराणि च ॥ ५४ ॥

श्लोक 55

बाह्यायां तु वलौ जातान्य् एक-दोषोल्बणानि च ।
अर्शांसि सुख-साध्यानि न चोत्पतितानि च ॥ ५५ ॥

श्लोक 56

मेढ्रादिष्व् अपि वक्ष्यन्ते यथा-स्वं नाभि-जानि तु ।
गण्डू-पदास्य-रूपाणि पिच्छिलानि मृदूनि च ॥ ५६ ॥

श्लोक 57

व्यानो गृहीत्वा श्लेष्माणं करोत्य् अर्शस् त्वचो बहिः ।
कीलोपमं स्थिर-खरं चर्म-कीलं तु तं विदुः ॥ ५७ ॥

श्लोक 58

वातेन तोदः पारुष्यं पित्ताद् असित-रक्त-ता ।
श्लेष्मणा स्निग्ध-ता तस्य ग्रथित-त्वं स-वर्ण-ता ॥ ५८ ॥

श्लोक 59

अर्शसां प्रशमे यत्नम् आशु कुर्वीत बुद्धि-मान् ।
तान्य् आशु हि गुदं बद्ध्वा कुर्युर् बद्ध-गुदोदरम् ॥ ५९ ॥