श्लोक 62
वरीं बलां पयस्यां वा काकोलीमधुके तथा।
एवमस्यानुपशमे ललाटे व्यधयेत् सिराम्॥
श्लोक 63
पिबेत् कटूनि मूत्रेण कफजे रूक्षभोजनः।
कट्कफलामलकव्योषं लिह्यात्तैलमधुप्लुतम्॥
श्लोक 64
व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा।
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्।
भुत्क्वाद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्॥
श्लोक 65
शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह।
पिबेत् पयांसि यस्योच्चैर्वदतो विहतः स्वरः॥
श्लोक 66
अरोचकचिकित्सितम्।
विचित्रमन्नमरुचौ हितैरुपहितं हितम्।
बहिरन्तर्मृजां चित्तनिर्वाणं हृद्यमौषधम्॥
श्लोक 67
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः।
कषायैः क्षालयेदास्यं धूमं प्रायौगिकं पिबेत्॥
श्लोक 68
तालीसपत्रवटकाः सकर्पूरसितोपलाः।
शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम्॥
श्लोक 69
वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया।
हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात्॥
श्लोक 70
एलाभार्ङ्गीयवक्षारहिङ्गुयुक्ताद् घृतेन वा।
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः॥
श्लोक 71
लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्।
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्॥
श्लोक 72
पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः।
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा॥
श्लोक 73
त्रिकटुत्रिफलारात्रीयवक्षारं मधुप्लुतम्।
प्रातराहारकाले च युञ्जीत मुखधावनम्॥
श्लोक 74
बिडं सौवर्चलं कुष्ठमजाजी मरिचं सिता।
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्॥
श्लोक 75
लोध्रं तेजोवती पथ्या यवक्षारं कटुत्रयम्।
आर्द्रदाडिमनिर्यासः सजाजीसितशर्करः॥
श्लोक 76
सतैलमाक्षिका युक्ताश्चत्वारः कवलग्रहाः।
चतुरोऽरोचकान् हन्युरेकदोषसमस्तजान्॥
श्लोक 77
कारव्यजाजीमरिचद्राक्षवृक्षाम्लदाडिमम्।
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्॥
श्लोक 78
एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्।
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्॥
श्लोक 79
प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्।
यवानीतिन्तिणीकाम्लवेतसौषधदाडिमम्॥
श्लोक 80
कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्।
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्॥
श्लोक 81
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च।
चूर्णमेतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च।
विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्॥
श्लोक 82
तालिसपत्रं मरिचं नागरं पिप्पली शुभा।
यथोत्तरं भागवृद्धास्त्वगेले चार्धभागिके॥
श्लोक 83
तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्।
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलजित्॥
श्लोक 84
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्।
तालीसपत्रचविकामरिचानां पलं पलम्॥
श्लोक 85
कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम्।
चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्॥
श्लोक 86
तत्र त्रिंशत् पलं दत्वा क्वथितादमलाद्गुडात्।
कुर्वीत मोदकानक्षसम्मितांस्तेऽपि तद्गुणाः॥
श्लोक 87
प्रसेकचिकित्सितम्।
अर्कामृताक्षारजलेशर्वरीमुषितैर्यवैः।
प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद् बली वमेत्॥
श्लोक 88
कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्।
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः॥
श्लोक 89
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति। कफप्रसेकं तं विद्यात् स्निग्धोष्णैरेव निर्जयेत्॥
श्लोक 90
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्।
विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत्॥
श्लोक 91
स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु।
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्॥
श्लोक 92
शिरोऽंसपार्श्वशूलेषु यथादोषविधिं चरेत्।
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः॥
श्लोक 93
शस्यन्ते सचतुस्नेहाः शिरःपार्श्वांसशूलिनाम्।
लेपश्च नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः॥
श्लोक 94
बलारास्नातिलाः सर्पिर्मधुकं नीलमुत्पलम्।
पलङ्कषा देवदारु चन्दनं मधुकं घृतम्॥
श्लोक 95
कृष्णगन्धा बला वीरा विदारी सपुनर्नवा।
अभीरुयष्टीमधुकं पयस्या कत्तृणं घृतम्॥
श्लोक 96
इत्यर्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः।
शस्ताः संसृष्टदोषाणां शिरःपार्श्वासशूलिनाम्॥
श्लोक 97
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः।
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथापरम्।
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्।
प्रदेहः सघृतैश्चेष्टः पद्मकोशीरचन्दनैः॥
श्लोक 98
दूर्वामधुकमञ्जिष्ठाकेसरैर्वाघृताप्लुतैः।
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा।
अभ्यङ्गः पयसासेकः शस्तश्चमधुकाम्बुना॥
श्लोक 99
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते।
तस्यातिसारग्रहणीविहितं हितमौषधम्।
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बना॥
श्लोक 100
जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमः।
पाठानिम्बयवानीनां चूर्णं तक्रेण वा पिबेत्॥
श्लोक 101
सुरया वाप्लुतां पाठां सनागरदुरालभाम्।
जम्ब्वाम्रबिल्वमध्यं वा सकपित्थं सनागरम्॥
श्लोक 102
पेयामण्डेन योगैश्च पाठाद्यैः कारयेत् त्रिभिः।
ससूप्यधान्यान् सस्नेहान् साल्मान् सलवणान् खलान्।
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः॥
श्लोक 103
श्रापण्या मातुलुङ्गस्य धातक्या दाडिमस्य च।
चाङ्गेर्या मदयन्त्याश्च यूथिकायाश्च पल्लवैः॥
श्लोक 104
कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत्।
खलान्दधिसरोपेतान्ससर्पिष्कान्सदाडिमान्।
रोचनान् दीपनान् दद्यादतीसारहरान् परम्॥
श्लोक 105
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः।
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्॥
श्लोक 106
ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम्।
बह्वामयसमूहो हि यक्ष्मातः सोऽतिदुःसहः॥
श्लोक 107
अजां वा पर्युपासीत षण्मासानुटजे वसन्।
तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः।
ताभिः परिवृतः स्वप्यात्तच्छकृद्रेणुसङ्करे॥
श्लोक 108
एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम्।
अजाशकृद्रसक्षीरदधिमूत्रैः शृतं घृतम्॥
श्लोक 109
सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत्।
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च॥
श्लोक 110
अविधारितवेगस्य लक्ष्मा न लभतेऽन्तरम्।
सुरां समण्डां मार्द्वीकमरिष्टान् शीधुमाधवान्॥
श्लोक 111
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्।
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत्॥
श्लोक 112
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्।
उत्तीर्णं मिश्रकस्नेहैः पुनरक्तं सुखैः करैः।
मृद्नीयात् सुखमारीनं सुखं चोद्वर्तयेत् परम्॥
श्लोक 113
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्।
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलम्॥
श्लोक 114
विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम्।
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्॥
श्लोक 115
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्।
एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्॥
श्लोक 116
गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः।
स्नायादृतुसुखैस्तोयैर्जीवनीयोपसाधितैः॥
श्लोक 117
गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्।
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः॥
श्लोक 118
बस्तयः क्षीरसर्पींषि मद्यं मांसं सुशीलता।
दैवव्यपाश्रयं तद्वदथर्वोक्तं च पूजितम्॥
श्लोक 119
इष्ट्या यया च चन्द्रस्य राजयक्ष्मा पुरा जितः।
पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः॥
॥इति सप्तमोऽध्यायः॥