अष्टाङ्गसंग्रहः सूत्रस्थानम् सप्तमोऽध्यायः contd.

श्लोक 206

धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्।
असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्॥

श्लोक 207

प्रायेण फलमप्येवं तथामं बिल्ववर्जितम्।
इति फलवर्गः॥
शूकशिम्बिजपक्वान्नमांसशाकफलाश्रयैः॥

श्लोक 208

वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्।
निर्दिष्टो रसवीर्याद्यैर्थयथास्वं कर्मसाधने॥

श्लोक 209

न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा।
हिताहितत्वेऽप्येकान्तनियमोऽस्मादनिश्चितः॥

श्लोक 210

मात्रायोगक्रियादेशकालावस्थादिभेदतः।
ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा॥

श्लोक 211

मात्रया सेवितं मद्यं हन्ति रोगास्तदुद्भवान्।
निषेव्यमाणं तिलशो विषमप्यमृतायते॥

श्लोक 212

हीनातिमात्रमशनं मरुन्निचयकोपनम्।
भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी॥

श्लोक 213

क्षारोऽम्लरससंयोगे मधुरीभवति क्षणात्।
उत्तुण्डक्यास्तिन्दुकेन तिक्तता मधुरायते॥

श्लोक 214

हिङ्गुगैरिकसिन्धूत्थं गन्धवर्णरसाधिकम्।
पूगताम्बूलशङ्खेभ्यो वर्णगन्धरसोद्भवः॥

श्लोक 215

कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः।
कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह॥

श्लोक 216

गुडः कर्ताग्निसादस्य स हिनस्त्यभयादिभिः।
तृष्यत्यग्नेः समदनं सर्पिरप्युपदिश्यते॥

श्लोक 217

जीवनीयमपि क्षीरं विषलेशेन मृत्यवे।
तुल्ये अपि हतोऽन्योऽन्यं विषे स्थावरजङ्गमे॥

श्लोक 218

सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्ति तु।
विनापि चोपयोगेन मणिमन्त्रादि कार्यकृत्॥

श्लोक 219

आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी।
लघुभ्योऽपि हि सक्तुभ्यो गुरवः सिद्धापिण्डिकाः॥

श्लोक 220

भृष्टः क्षुण्णोऽपि पृथुको रक्तशालेर्लघोर्गुरुः।
शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति॥

श्लोक 221

लघु पित्तहरा लाजा व्रीहितो गुरुपित्तलात्।
सङ्ग्राहिणो लघोर्मुद्गात् कुल्माषो भेदनो गुरुः॥

श्लोक 222

आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्।
गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम्॥

श्लोक 223

गरीयो गुडदध्युत्था रसाला चातिशुक्रला।
दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात्॥

श्लोक 224

अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु।
सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत्॥

श्लोक 225

चक्षुष्योऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा।
मूलकं दोषजननं सिद्धं तु तददोषलम्॥

श्लोक 226

उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम्।
दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते॥

श्लोक 227

श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्।
त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः॥

श्लोक 228

मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः।
तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा॥

श्लोक 229

दध्नि श्वयथुकारित्वं न तक्रनवनीतयोः।
भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु॥

श्लोक 230

क्षारः प्राच्येषु मत्स्यास्तु सैन्धवेष्वश्मकेषु तु।
तैलाम्लः कन्दमूलानि मलये कोङ्कणे पुनः॥

श्लोक 231

पेयामन्थ उदीच्येषु गोधूमोऽवन्तिभूमिषु।
बाल्हीका बाल्हवाश्चीनाः शूलिका यवनाः शकाः॥

श्लोक 232

मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः।
देहसात्म्यं घृतं क्षीरं मद्यं मासं च कस्यचित्॥

श्लोक 233

पेया यूषो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः।
अहितैरपि तेषां च तैरेवोपहितं हितम्॥

श्लोक 234

अन्नपानौषधं दोषमात्राकालाद्यपेक्षया।
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि॥

श्लोक 235

स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्।
मन्दोऽग्निर्भवति प्रायः कफवातोत्तरे हिमे॥

श्लोक 236

विषघ्नेनापि पयसा देहेऽहेर्वर्द्धते विषम्।
स्थूलस्थविरबालादौ वमनादि निषिध्यते॥

श्लोक 237

तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु।
वातहृत्त्वेऽपि मृद्वीकाखर्जूरं कोष्ठवातकृत्॥

श्लोक 238

नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्।
दृष्टे स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम्॥

श्लोक 239

पयः स्वादु सरं शीतं विपरीतं ततो दधि।
कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम्॥

श्लोक 240

पयो दधि च वातघ्नमजातं वातलं तु तत्।
तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम्॥

श्लोक 241

धातकीगुडतोयानि कारणं मद्यशुक्तयोः।
शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः॥

श्लोक 242

उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ।
समयोगेऽपि घर्माद्या वातादिचयहेतवः॥

श्लोक 243

ऋतुष्वन्यो रसेष्वन्यो रौक्ष्ये स्नेहे बले क्रमः।
रसायनं काकमाची सद्यः पर्युषिता विषम्॥

श्लोक 244

मूलकं दोसजिद्बालं विपरीतं तु कन्दवत्।
ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम्॥

श्लोक 245

षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम्।
छर्दिंहृद्रोगगुल्मार्ते वमनं च चिकित्सिते॥

श्लोक 246

निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः।
ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता॥

श्लोक 247

रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः।
आश्च्योतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात्॥

श्लोक 248

अञ्जनं पक्वदोषस्य प्रतिश्याये च नावनम्।
नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते॥

श्लोक 249

दुष्टास्रसम्भवेऽपीष्टो नास्रपित्ते सिराव्यधः।
अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम्॥

श्लोक 250

अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः।
गुल्मिनः क्सीरदध्यादि हपुषाद्यैर्युतं हितम्॥

श्लोक 251

वातलं वातकोपेऽपि वर्षासु मधु शस्यते।
तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम्॥

श्लोक 252

घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम्।
आलस्यगौरवे रूपं वातजेऽपि ज्वरे पुरः॥

श्लोक 253

स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः।
दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न॥

श्लोक 254

कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसार्शोभिरग्निहृत्।
दुष्पानं दुर्जरं सर्पिर्दीपनं च पयोऽन्यथा॥

श्लोक 255

सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः।
ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम्॥

श्लोक 256

स्वयमेव विषं तीव्रं तान् पुनर्नातिबाधते।
सर्वाङ्गव्यापि तेषां च शुक्रवत् संसृतं विषम्॥

श्लोक 257

तन्मांसमुपयोगाय मांसवर्गे च पठ्यते।
छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्॥

श्लोक 258

कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः।
तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्॥

श्लोक 259

सर्वथा दोषजित्तक्रं ग्रहण्यां दोषकृद्व्रणे।
पीनसश्वासकासादौ सिद्धमेव प्रशस्यते॥

श्लोक 260

इत्येतेऽन्ये च बहवः सूक्स्मा दुर्लभहेतुकाः।
धर्मा विचित्रा भावेषु किञ्चित्तेषां निदर्शितम्॥

श्लोक 261

दिशानया देशमपि स्वयमूहेत बुद्धिमान्।
न शास्त्रमात्रशरणो न चानालोचितागमः॥
इति मात्रादिप्रकरणम्।
इत्यन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः इति सप्तमोऽध्यायः॥