श्लोक 1
अथातो भूतविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अष्टादश भूताधिपतयः।
तद्यथा।
सुरासुरगन्धर्वोरगयक्षब्रह्मराक्षसराक्षसपिशाचप्रेतकूष्माण्डकाखोर्दमौकिरणवेतालपितरः ऋषिगुरुवृद्धसिद्धाश्च।
ते पुनः पृथक् कोटिपरिवाराः।
तेषामपि चापरिसङ्ख्येयः परिवार इत्यनन्तो भूतलोकः॥
श्लोक 3
सर्वोऽपि च प्रायेणाहारकामा निशार्धविचारिणो भयानका मांसासृग्वसाशिनः॥
श्लोक 4
अपि च।
सुरासुरादिसंवाससंसर्गात्तच्छीलाचारकर्मतया च तत्संज्ञां लभन्ते॥
श्लोक 5
तेषां पुनरनुप्रवेशे कारणं सद्यः पूर्वकृतो वा विशेषेण प्रज्ञापराधः॥
श्लोक 6
तेन हि कामक्रोधलोभमोहादिजनितेन प्रलुप्तधमभिन्नव्रताचारशौचो मलीमसः पूज्यानतिक्रामन्नात्मानमुपहन्ति॥
श्लोक 7
ततस्तमात्महनमवतारगवेषिणो देवादिग्रहा अप्यनुघ्नन्ति।
तद्वदुन्मादापस्मारोपप्लुतचित्तं तथा ज्वराद्यामयोपहतमपि।
विशेषतश्च व्रणिनः पूयासृक्स्नेहगन्धेन॥
श्लोक 8
एवंविधांस्तु पुरुषानेष्वाघातकालेष्वभिगच्छन्ति॥
श्लोक 9
तद्यथा।
पापस्य कर्मणः समारम्भे।
पूर्वकृतस्य वा परिणामकाले।
एकस्य वा शून्यगृहनिवासे।
चतुष्पथाधिष्ठाने वा।
सन्ध्यावेलायामप्रयतभावे वा पक्षसन्धिषु वा मिथुनीभावे।
रजस्वलाभिगमने वा।
विगुणे वाध्यापनहोमबलिमङ्गलप्रयोगे।
नियमब्रह्मचर्यव्रतभङ्गे वा।
महाहवे वा।
देशपुरकुलविनाशे वा।
महाग्रहोपगमने वा।
स्त्रिया वा प्रजननकाले।
विविधभूताशुचिसंस्पर्शे वा।
वमनविरेचनरुधिरस्रावे वा।
अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा।
मांसमधुगुडतिलमद्योच्छिष्टे वा।
दिग्वाससि वा।
निशि नगरचतुष्पथोपवनश्मशानाभिगमने वा।
द्विजगुरुसुरयतिपूज्यव्यतिक्रमे वा॥
श्लोक 10
तत्रावलोकयन्तो जनयन्ति मनोविकारं सुरासुरग्रहाः।
स्पृशन्तो गन्धर्वाः।
समाविशन्तो भुजगाः।
यक्षाश्चात्मगन्धमाघ्रापयन्तः।
राक्षसा वाहयन्तोधिरुह्य।
तथैव पिशाचाद्याः।
दर्शयन्तः पितरोभिशपन्त ऋषिगुरुवृद्धसिद्धाः॥
श्लोक 11
तत्र शीलवन्तं चोक्षाचारं शुक्लाम्बरधरं तपःस्वाध्यायपरं प्रायः शुक्लप्रतिपदित्रयोदश्यां चतुर्दश्यां पौर्णमास्यां वा देवा गृह्णन्ति।
क्रोधनं कदर्यमात्मसम्भाविनं कुलरूपगर्वितं कृष्णद्वादश्यां कृष्णत्रयोदश्यां सन्ध्ययोश्चासुराः।
प्रियनृत्तगीतवादित्रगन्धमाल्याम्बरं परदाररतं चोक्षाचारं प्रायश्चतुर्थ्यामष्टभ्यां द्वादश्यां चतुर्दश्यां च गन्धर्वाः।
स्वप्नशीलं चपलमनिमित्रक्रोधनमर्थसिद्धं ब्राह्मणं प्रायः पञ्चभ्यां सन्ध्ययोर्मध्याह्ने च नागाः।
सत्वबलरूपगन्धर्वधनशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिव्याकरणं प्रायः शुक्लसप्तम्यामेकादश्यां च यक्षाः॥
श्लोक 12
स्वाध्यायतपोव्रतचर्यादेवयतिगुरुपूजारतं भ्रष्टशौचं वा ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं शूरं मानिनं देवागारसलिलक्रीडनप्रियं च स्खलितब्रह्मचर्यं प्रायः शुक्लपञ्चम्यामष्टम्यां पूर्णचन्द्रदर्शने सन्ध्यासु च।
ब्रह्मराक्षसाः॥
श्लोक 13
हीनसत्वं पिशुनं स्तेनं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु राक्षसपिशाचादयः।
कलिपानप्रियमसूयावन्तं परुषभाषिणं बह्वाशिनं च कृष्णनवमीद्वादश्योर्निशि च राक्षसाः॥
श्लोक 14
आत्मश्लाघिनं कूटसाक्ष्यप्रदं परोपतापिनं च चतुर्दश्यां पिशाचादयः॥
श्लोक 15
मातापितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावास्यां च पितरः।
तद्विधमेव च प्रायः षष्ठ्यां नवम्यां च गुरुवृद्धसिद्धाः।
तथैव च स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिकाव्यकुशलमृषयः॥
श्लोक 16
तेषां तु ग्रहीष्यतां पूर्वरूपाणि भवन्ति।
तद्यथा।
देवगोब्राह्मणतपस्विनां हिंसारुचित्वं नृशसाभिप्रायता कोपनत्वमरतिरोजोवर्णच्छायाबलवपुषां चोपतप्तिः स्वप्ने देवादिभिर्भत्सनं प्रवर्तनं च॥
श्लोक 17
तत्र सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपनं शुचिमनिद्रं भोजनानभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं संस्कृतवादिनं देवद्विजगुरुभक्तं शुक्लमाल्याम्बरसरित्पुलिनशैलोच्चभवनदधिक्षीरसुरभिप्रियं चिरादक्षिणी निमीलयन्तं वरप्रदातारं शुभगन्धं वर्चस्विनं फुल्लपद्मोपममुखं देवग्रहेण गृहीतं विद्यात्॥
श्लोक 18
तत्रापि गोवृषमिव नदन्तं दीप्तमुखनयनमादीप्तेन स्वरेण सर्वमाभाषमाणमीश्वरेण।
मेधस्तनितविद्युद्वृष्टीर्वाचा विसृजन्तमिन्द्रेण।
धनानि वाचा प्रयच्छन्तमाच्छिन्दन्तं च धनदेन।
सुरासवसमगन्धं काष्ठतृणरज्ज्वादि सर्वं पाशमभिमन्यमानं वरुणेन॥
श्लोक 19
जिह्मदृष्टिं दुष्टात्मानं क्रोधनमतृप्तं सस्वेदगात्रं देवब्राह्मणगुरुद्वेषिणं निर्भयमभिमानिनं शूरं व्यवसायिनं रुद्रोऽहमिन्द्रोहमुपेन्द्रोऽहं स्कन्दोऽहं विशाखोऽहमित्यादि भाषमाणं विकृतवाचमसकृद्धसन्तं सुरामिषरुचिं दन्तैर्नखैश्च परान् हिंसन्तमसुरेण॥
श्लोक 20
स्वाचारं हृष्टात्मानं शुभगन्धमल्पव्यवहारं नृत्यन्तं गायन्तं मुखवाद्यानि कुर्वन्तं प्रियोद्यानपुलिनरक्तवस्त्रस्नानमाल्यानुलेपनधूपान्नपानहासलीलाशृङ्गारकथागान्धर्वं गन्धर्वेण।
तत्रापि शिरो धुनानं कलहं कुर्वन्तं संरम्भेण जागरूकं पठन्तं हसन्तं हसनेन॥
श्लोक 21
क्रोधनमनिशं विश्वसन्तं भ्रमन्तमातपत्रात् त्रस्यन्तं रक्ताक्षं स्तब्धदृष्टिं जिह्वां लोलयन्तं सृक्विण्यौ लिहानमधोमुखशायिनं चलं वक्रगामिनं बिलमवलोक्य सर्पवदूर्ध्वं प्रसरन्तं जलौघघनदुन्दुभिस्वनैर्हृष्यन्तं क्षीरघृतगुडमधुस्नानमाल्यप्रियं गात्राणि कम्पयन्तं दन्तैः खादन्तं जलेऽवतीर्णमुत्तरणमनिच्छन्तमुरगेण॥
श्लोक 22
असकृत् स्वप्नरोदनहासनृत्यगीतपाठकथान्नपानस्नानमाल्यधूपगन्धरक्तवस्त्ररतिं रक्तत्रस्तविप्लुताक्षं द्रुतं सगर्वं मत्तमिव गच्छन्तं वस्त्रान्तमुत्कर्षयन्तं चलिताग्रहस्तं बहुभाषिणं स्त्रीलोलुपं मद्यामिषप्रियं सन्नह्य शस्त्रं मृगयमाणमतिबलमव्यथं हृष्टं तुष्टमल्परोषं किं कस्मै ददामीति वादिनं शुभगन्धं वर्चस्विनं द्विजातिवैद्यपरिभाविनं रहस्यभाषिणं यक्षेण॥
श्लोक 23
तत्रापि हृषितरोमाणमूर्ध्वेक्षणं प्रहृष्टनयनं चण्डं परुषं महानिनादं मणिवरेण।
रहोहसितनृत्यगीतान्याचरन्तमाकीर्णे मौनमासेवमानं विकटेन॥
श्लोक 24
हासनृत्तप्रियमाक्रोशिनं प्रधाविनं देवद्विजभिषग्द्वेषिणं मन्त्रवेदशास्त्राभिधायिनं काष्ठशस्त्रादिभिश्चात्मानमाघ्नन्तं छिद्रप्रहारिणं वैद्यरन्ध्रान्वेषिणं भोःशब्दवादिनं परुषं रौद्रचेष्टं शीघ्रगामिनं ब्रह्मराक्षसेन।
तत्रापि विकृतस्वरं भाषयन्तमुत्रासयन्तं ब्रह्मवादिनं संस्कृतभाषिणं बहुशस्तोयं याचन्तं यज्ञसेनेन॥
श्लोक 25
सक्रोधदृष्टिं भ्रुकुटिमुद्वहन्तं भैरवास्यं त्वरितमभिधावन्तं रुवन्तं ससंभ्रमं प्रहरन्तं नष्टनिद्रं निशाविचारिणमन्नद्वेषिणमनाहारमप्यतिबलिनमन्नकाले हसन्तं निर्लज्जं शूरं रोषणमप्रियवादिनमशुचिं स्रीमद्यमांसरक्तमाल्यप्रियं रक्तमामिषं वा दृष्ट्वोष्ठौ परिलिहन्तं दीनं शङ्कितं धावन्तमकस्माद्रुदन्तं हसन्तं गायन्तं नृत्यन्तं निरर्थकं परिभाषमाणं राक्षसेन।
तत्रापि परुषच्छविं भूमिं ताडयन्तमकस्माद्रुदन्तं विशाखेन।
भिन्नगद्गदकण्ठमङ्गानि भञ्जयन्तं जिह्वां परिलिहानमक्षमालया जपमानं शौचमभीक्ष्णं कुर्वाणं सङ्गमेन।
मेघविद्युदुदयायासते क्रुध्यन्तं जलवृष्टिं समन्तान्मन्यमानं शकटनिष्पीडिनं विद्युन्मालिना।
आममांसपललमूलकापूपपरमान्नयाचिनं रूक्षच्छविं विरूपाक्षेण॥
श्लोक 26
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनं दयितनृत्यगीतहासोच्छिष्टमद्यमांसशून्यनिवासरतिं पुरस्तादभिघ्नन्तं निर्भत्सनाद्दीनशङ्कितवदनं नखैरात्मवपुषि लिखन्तं नष्टस्मृतिं बद्धाबद्धभाषिणमकस्माद्रुदन्तं दुःखान्यावेदयमानमुध्वस्तरूक्षदेहस्वरं दुर्गन्धमशुचिं नग्नं मलिनं रथ्याचैलतृणाभरणं सङ्करकूटकाष्ठाश्वारोहिणं लोलं बह्वाशिनं पिशाचेन।
तत्रापि भोजनं दृष्ट्वा हसन्तं विस्वरं क्रोशन्तं नित्यभीतं कश्मलेन।
सर्वगात्राणि स्पन्दयन्तं मुहुर्मुहुर्धावन्तं भीषयमाणं कुशेन।
वैद्यं दृष्ट्वा कुप्यन्तं भ्रमद्भोजिनं बह्वाशिनं भस्मगुण्ठनशयनं स्त्रियो मार्गे रुन्धानं मूत्रपुरीषविमर्दिनं निस्तेजसा।
प्रेताकृतिचेष्टागन्धं तृणच्छेदिनं भीतमाहारद्वेषिणं प्रेतेन॥
श्लोक 27
बहुप्रलापमुग्रवाक्यं विलम्बितगतिं कृष्णवदनं शूनप्रलम्बवृषणं कूष्माण्डेन॥
श्लोक 28
नग्नं धावन्तमकस्मादश्मकाष्ठादि गृहीत्वा भ्रमन्तं तृणचीरमाल्यनिवसनमुत्रस्तदृष्टिं परुषाभिधायिनं श्मशानशून्यैकवृक्षरथ्यानिषेविणं तिलान्नमद्यामिषसक्तदृष्टिं काखोर्देन॥
श्लोक 29
उग्रवादिनं रक्तत्रस्तनेत्रमन्नाभिलाषिणमुदकं प्रार्थयमानं मौकिरणेन॥
श्लोक 30
सत्यवादिनं परिवेपिनं धूपगन्धमाल्यरतिमतिनिद्रालुं वेतालेन॥
श्लोक 31
अप्रसन्नदृष्टिं चलन्नेत्रपक्ष्माणं शङ्कितेक्षणं दीनवदनं संशुष्कतालुं निद्रालुं प्रतिहतवाचमपसव्यवस्त्रमल्पाग्निमरोचकिनं तिलगुडपायसमांसरुचिं च पितृग्रहेण॥
श्लोक 32
ऋषिगुरुवृद्धसिद्धानामाभिशापानुध्यानानुरूपविहारव्याहाराहारं तद्ग्रहेण गृहीतं विद्यादिति।
भवति चात्र॥
श्लोक 33
लक्षयेत् ज्ञानविज्ञानवाक्चेष्टाबलपौरुषम्।
पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत्॥
श्लोक 34
कुमारवृन्दानुगतं नग्नमुद्धतमूर्धजम्।
अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत्॥
॥इति सप्तमोऽध्यायः॥