अष्टाङ्गसंग्रहः शरीरस्थानम् सप्तमोऽध्यायः

श्लोक 1

अथातो मर्मविभागं नामाध्यायं व्याख्यास्यामः।
इति ह स्महुरात्रेयादयो महर्षयः॥

श्लोक 2

सप्तोत्तरं मर्मशतम्।
तत्र चतुश्चत्वारिंशच्छाखासु।
षड्विंशतिरन्तराधौ।
सप्तत्रिंशदूर्ध्वम्॥

श्लोक 3

अथैकस्मिन् सक्थ्नि मध्यमाङ्गुलिमभितो मध्ये पादतलस्य तलहृदयं नाम मर्म तत्र विद्धस्य रुजया मरणम्।
अङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं तत्राक्षेपकेन मरणम्।
क्षिप्रस्योपरि द्व्यङ्गुल उभयतः कूर्चः।
तत्र पादस्य भ्रमणवेपने भवतः। गुल्फसन्धेरधः कूर्चशिरः।
तत्र रुजाशोफौ।
पादजङ्घयोः सन्धाने गुल्फः।
तत्र रुक् स्तब्धसक्थिता षण्ढता वा।
पार्ष्णिप्रभृतिद्वादशभिरङ्गुलैर्जङ्घामध्ये इन्द्रबस्तिः।
तत्र शोणित्क्षयान्मरणम्।
जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता॥

श्लोक 4

जानुनस्त्र्यङ्गुलादूर्ध्वमुभयत आणिः।
तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च।
ऊरुमध्ये उर्वी तत्र रक्तक्षयात्सक्थिशोषः।
उर्व्यास्तूर्ध्वमधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षम्।
तत्र रक्तक्षयात् पक्षाघातः।
वङ्क्षणवृषणमध्ये विटपम्।
तत्र षण्ढ्यमल्पशुक्रता वा।
सक्थिवद् बाह्वोः।
विशेषस्तु गुल्फो मणिबन्धः तथा जानु कूर्परम्।
तयोर्व्यधे कुणिता।
विटपवच्च कक्षाक्षमध्ये कक्षाधरः तत्र कुणित्वम्॥

श्लोक 5

वातवर्चोनिरसनः स्थूलान्त्रप्रतिबद्धो गुदः।
तत्र सद्योमरणम्।
अल्पमांसशोणितोऽभ्यन्तरतः कट्याधनुर्वक्र एकद्वारोऽधोमुखो बस्तिः।
तत्रापि सद्योमरणमश्मरीव्रणादृते।
तत्राप्युभयतो विद्धे न जीवति।
एकतो भिन्ने मूत्रस्रावी व्रणो भवति।
स तु यत्नेनोपक्रान्तो रोहति।
पक्वामाशयमध्ये नाभिः तत्रापि सद्योमरणम्॥

श्लोक 6

कोष्ठवक्षसोः स्तनयोश्च मध्ये सत्वरजस्तमोधिष्ठानमामाशयद्वारं हृदयं तत्रापि सद्योमरणम्।
स्तनयोरधस्ताद्व्द्यङ्गुलमुभयतः स्तनमूले तयोः कफपूर्णकोष्ठस्य मरणम्।
स्तनचूचुकयोरूर्ध्वं व्द्यङ्गुलमुभयतः स्तनरोहिते।
तयोः शोणितपूर्णकोष्ठस्य मरणम्।
उभयत्रोरसोर्नाड्यौ वातवहे अपस्तम्भौ तयोः शोणितपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्।
अंसकूटयोरधः पार्श्वयोरुपरिभागयोरपालापौ तयोः पूयत्वमापन्नेन रक्तेन मरणम्॥

श्लोक 7

पृष्ठवंशमुभयतः प्रतिश्रोणीकर्णावस्थिनी कटीकतरुणे।
तयोः शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपो म्रियते।
पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतः कुकुन्दरौ।
तयोः स्पर्शाज्ञानमधःकाये चेष्टानाशश्च।
श्रोणीकर्णयोरुपर्याशयच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ।
तयोरधःकाये शोफो दौर्बल्यं मरणं च।
अधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ये तिर्यगूर्ध्वं च पार्श्वसन्धी।
तयोः शोणितपूर्णकोष्ठतया मरणम्॥

श्लोक 8

स्तनमूलयोरार्जवेनोभयतः पृष्ठवंशं बृहत्यौ।
तयोः शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्मरणम्।
पृष्ठवंशमुभयतो बाहुमूलसम्बद्धे अंसफलके।
तयोर्बाहुस्वापशोषौ।
ग्रीवाबाहुशिरोमध्येऽसपीठस्कन्धबन्धनावंसौ।
तयोः स्तब्धबाहुता॥

श्लोक 9

कण्ठनाडीमुभयतश्चतस्रो धमन्यः।
तासां द्वे नीले द्वे मन्ये।
तासु मूकता स्वरवैकृत्यं रसाग्राहिता वा भवति।
ग्रीवायामुभयतः पृथक् चतस्रः सिरामातृकास्तासु सद्योमरणम्।
शिरोग्रीवयोः सन्धाने कुकाटिके।
तयोश्चलमूर्धता।
कर्णपृष्ठयोरधस्संश्रिते विधुरे।
तयोर्बाधिर्यम्।
घ्राणमार्गमुभयतः श्रोत्रमार्गप्रतिबद्धावभ्यन्तरतः फणौ।
तयोर्गन्धाज्ञानम्।
भ्रुवोः पुच्छान्तयोरधोक्ष्णोर्बाह्यतोऽपाङ्गौ तयोरान्ध्यम्।
भ्रुवोः पुच्छान्तयोरुपर्यनुकर्णं ललाटे शङ्खौ।
तयोः सद्योमरणम्।
भ्रुवोरुपरि निम्नयोरावर्तौ।
तयोरान्ध्यम्।
दृष्ट्युपघातो वा॥

श्लोक 10

शङ्खयोरुपरि केशान्ते उत्क्षेपौ।
तयोः सशल्यः पाकात् पतितशल्यो वा जीवेन्नोद्धृतशल्यः।
भ्रुवोर्मध्ये स्थपनी।
तत्रोत्क्षेपवत्।
पञ्च सन्धयः शिरसि तिर्यगूर्ध्वं च सीमन्ता नाम।
तेषून्मादभ्रमचित्तनाशैर्मरणम्।
जिह्वाघ्राणाक्षिश्रोत्रतर्पणीनां सिराणां तालुनि सन्निपातः।
तासां मुखानि चत्वारि शृङ्गाटकसंज्ञानि तेषु सद्योमरणम्।
मस्तकाभ्यन्तर उपरिष्टात्सिरासन्धिसन्निपातो रोमावर्तः सोऽधिपतिर्नाम।
तत्रापि सद्योमरणं भवतीति॥

श्लोक 11

सामान्यलक्षणं पुनर्मर्मणां पीडिते रुजोत्पत्तिर्विषमं च स्पन्दनम्।
सामान्येनैव च॥

श्लोक 12

देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिताअ।
स्वेदो मूर्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्॥

श्लोक 13

अपि च मरणकारित्वान्मर्म।
तत् पुनर्मांससिरास्नावास्थिसन्धिसन्निपातः।
तेन तस्मिन् पीड्यमाने विशेषतः प्राणाबाधः।
बाहुल्येन तु निर्देशः।
तस्मान्मांसाद्याश्रयतो मर्माणि पञ्चधा भिद्यन्ते॥

श्लोक 14

तद्यथा।
तलहृदयेन्द्रबस्तिगुदस्तनरोहितान्येकादश मांसमर्माणि।
उर्वीलोहिताख्यनाभिहृदयस्तनमूलापस्तम्भापालापपार्श्वसन्धिबृहतीनीलामन्यामातृकाफणापाङ्गस्थपनीशृङ्गाटकान्येकचत्वारिंशत् सिरामर्माणि।
क्षिप्रकूर्चकूर्चशिरोविटपकक्षाधराणि बस्त्यंसविधुरोत्क्षेपाः सप्तविंशतिः स्नावमर्माणि।
कटीकतरुणनितम्बांसफलकशङ्खास्त्वष्टावस्थिमर्माणि।
गुल्फमणिबन्धजानुकूर्परकुकुन्दरकृकाटिकावर्तसीमन्ताधिपतयो विंशतिः सन्धिमर्माणि॥

श्लोक 15

पुनश्च पञ्चधा गुदबस्तिनाभिहृदयमातृकाशङ्खशृङ्गाटकाधिपतय एकोनविंशतिः सद्यःप्राणहराण्याग्नेयत्वात्तेषां सप्तरात्राभ्यन्तरं कालः॥

श्लोक 16

तलहृदयक्षिप्रेन्द्रबस्तिवक्षोमर्मकटीकतरुणनितम्बपार्श्वसन्धिबृहतीसीमन्तास्त्रयस्त्रिंशत् कालान्तरप्राणहराणि सौम्याग्नेयत्वात्तेषां पक्षाभ्यन्तरं कालः।
तेष्वपि तु क्षिप्राणि कदाचिदाशु॥

श्लोक 17

उत्क्षेपौ स्थपनी च त्रीणि विशल्यघ्नानि वायव्यत्वात्।
शल्यमुखावरुद्धो हि यावदत्र वायुस्तिष्ठति तावज्जीवति॥

श्लोक 18

कूर्चजानुकूर्पराण्युर्वीलोहिताख्यविटपकक्षाधरकुकुन्दरांसफलकनीलामन्याकृकाटिकाविधुरफणापाङ्गावर्ताश्चतुश्चत्वारिंशद्वैकल्यकराणि सौम्यत्वात्।
सोमो हि स्थैर्यशैत्याभ्यां प्राणान् धारयति।
तान्यपि च कदाचिदभिहतानि मारयन्ति॥

श्लोक 19

कुर्चशिरोगुल्फमणिबन्धास्त्वष्टौ रुजाकराण्यग्निवायुसोमगुणबाहुल्यात्।
अग्निवायू हि विशेषेण रुजाकरौ।
सोमस्तु प्राणानवलम्बत इत्युक्तम्॥

श्लोक 20

अन्ये त्वाहुः।
मांसादीनां पञ्चानामपि विवृद्धानां समवायात् सद्यः प्राणहराणि।
एकैकहीनानामल्पानां च क्रमादितराणि स्वभावत एव च॥

श्लोक 21

अन्ये वदन्ति।
प्रतिनियतकर्माणि चन्द्रसूर्यायस्कान्तोपलानामिवाम्बुवह्निकाललोहसंश्लेषाः तथा च छिन्नेषु बहुमर्मस्वपि पाणिपादेषु स्वभावत एव न मृत्युः॥

श्लोक 22

अपरे पुनरत्रापि हेतुमाहुः।
पाणिपादच्छेदे हि सिराः सङ्कोचमायान्ति।
ततोल्पासृक्प्रवृत्तेर्जीवितम्।
मर्मव्यधे त्वतिरक्तस्रुतितो वायुवैकृतेन च मरणम्।
तस्मान्मर्माभिहतस्य तदङ्गमाशु सन्धिदेशाच्छेदनीयम्।
अतिहतानां तु मर्माणां यथास्वं पूर्वं पूर्वं च कर्म ईषदन्ते वा हतानामुत्तरोत्तरमेव॥

श्लोक 23

पुनश्च पञ्चधा भिद्यन्ते।
तद्यथा।
उर्व्यः कूर्चशिरांसि विटपे कक्षाधरे च द्वादश स्वाङ्गुलोन्मितानि।
गुल्फौ मणिबन्धौ स्तनमूले च षट् द्व्यङ्गुलानि।
जानुनी कूर्परे च चत्वारि त्र्यङ्गुलानि।
कूर्चा गुदो बस्तिर्नाभिर्हृदयं नीले मन्ये मातृकाः सीमन्ताः शृङ्गाटकानि चैकोनत्रिंशत् पाणितलसम्मितानि।
शेषाणि षट् पञ्चाशदङ्गुलदलप्रमाणानि।
अन्ये पुनराहुः।
ब्रीहिप्रमाणानि क्षिप्राणि।
कलायप्रमाणाः स्तनरोहितोत्क्षेपाः।
तथान्ये तिलप्रमाणान्यपि मर्माणीच्छन्ति।
भवन्ति चात्र॥

श्लोक 24

मर्मव्याप्तेऽपि देहेऽस्मिन्नायुर्मर्माणि रक्षति।
आयुष्याण्येव सेवेत सदा तस्माद्विचक्षणः॥

श्लोक 25

मर्माभिघातः स्वल्पोऽपि प्रायशो बाधतेतराम्।
रोगा मर्माश्रयास्तद्वत् प्रकान्ता यत्नतोपि च॥

श्लोक 26

विक्षिप्यते भृशं सीदन् शून्यो भ्रमति वेपते।
ऊर्ध्वं श्वसिति कृच्छ्रेण स्रस्तगात्रो मुहुर्मुहुः॥

श्लोक 27

हृदयं दद्यते चास्य नैकस्थानेऽवतिष्ठते।
मर्मोपघातान्मरणमेतैर्लिङ्गैः समश्नुते॥

श्लोक 28

अमर्मविद्धोऽपि नरश्छेदभेदादिपीडितः।
अतिनिस्सृतरक्तश्च सद्यस्त्यजति जीवितम्॥

श्लोक 29

अतोऽन्यथा जीवति तु विद्धः शरशतैरपि॥

श्लोक 30

पुण्यवान्नियतायुश्च न कथञ्चिन्न जीवति।
तस्मादा चरमोच्छ्वासाच्चिकित्सेदेव यत्नतः॥

श्लोक 31

तद्बन्धुमित्रानुमतः प्रत्याख्यायातुरं भिषक्॥