अष्टाङ्गसंग्रहः सूत्रस्थानम्  सप्तमोऽध्यायः contd.

श्लोक 136

सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु।
कलम्बुनालिकामाषकठिञ्जरकुतुम्बकम्॥

श्लोक 137

चिल्लीलट्वाकनिष्पावकुरूटकगवेधुकाः।
यातुका सालकल्याणी श्रीपर्णी पीलुपर्णिका॥

श्लोक 138

कुमारी जीवलोणीका यवशाकसुवर्चलाः।
कुष्माण्डनीलिनी स्वर्चा वृकधूमकलक्ष्मणा॥

श्लोक 139

आलूपानि च सर्वाणि तथा सूप्यानि लक्ष्मणा।
जीवन्तिकश्चुञ्चुपर्णीप्रपुन्नाटकुबेरकम्॥

श्लोक 140

स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु।
शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति॥

श्लोक 141

स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्।
लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता॥

श्लोक 142

तक्कारी वरणं स्वादु सतिक्तं कफवातजित्।
वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्॥

श्लोक 143

दीपनं भेदनं हन्ति गरशोफकफानिलान्।
दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः॥

श्लोक 144

लघुरुष्णा सरा तिक्ता सोरुपूका च लाङ्गली।
वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ॥

श्लोक 145

तद्वत् पञ्चाङ्गुलो वंशकरीरास्तु विदाहिनः।
वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः॥

श्लोक 146

बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित्।
वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ॥

श्लोक 147

पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्।
क्रिमिकासकफोत्क्लेदान् कासमर्दो जयेत् सरः॥

श्लोक 148

रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्।
सक्षारं मधुरं स्निग्धमुष्णं गुरु च सार्षपम्॥

श्लोक 149

शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्।
यद्बालमव्यक्तरसं किंचित्क्षारं सतिक्तकम्॥

श्लोक 150

तन्मूलकं दोषहरं लघु सोष्णं नियच्छति।
गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्॥

श्लोक 151

स्वरग्निसादोदावर्तपीनसांश्च महत् पुनः।
गुरूष्णकटुकं स्वादुविपाकं सर्वदोषकृत्॥

श्लोक 152

गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्।
वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम्॥

श्लोक 153

कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः।
कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः॥

श्लोक 154

धान्यतुम्बुरुशैलेययवानीशृङ्गिवेरकाः।
पर्णासो गृञ्जनोऽजाजी जीरकं गजपिप्पली॥

श्लोक 155

फणिर्जार्जकजम्बीरखराह्वाकालमालिकाः।
दीप्यकः क्षवकद्वीपिबस्तगन्धादि बद्धविट्॥

श्लोक 156

रसे पाके च कटुकं दोषोत्क्लेशकरं लघु।
विदाहि रूक्षतीक्ष्णोष्णं दृक्शुक्रक्रिमिनाशनम्॥

श्लोक 157

वर्गो हरितकाख्योऽयमुपदंशेषु युज्यते।
वासनो व्यञ्जनानां च हृद्यो दीपनरोचनः॥

श्लोक 158

हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा।
सुरसः सुमुखः शोफगन्धहा धानका पुनः॥

श्लोक 159

कषायतिक्तमधुरा मूत्रला न च पित्तकृत्।
खराह्वा बस्तिशूलघ्नी चित्रको दीपनः परम्॥

श्लोक 160

पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः।
तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः॥

श्लोक 161

हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः।
भग्नसन्धानकृत् बल्यो रक्तपित्तप्रदूषणः॥

श्लोक 162

किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान्।
सहिध्मापीनसश्वासकासान् हन्ति रसायनम्॥

श्लोक 163

पलाण्डुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः।
कफं करोति नो पित्तं केवलानिलनाशनः॥

श्लोक 164

दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः।
विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः॥

श्लोक 165

पत्रे पुष्पे फले कन्दे च गुरुता क्रमात्।
वरा शाकेषु जीवन्ती सार्षपस्त्ववराः परम्॥
इति शाकवर्गः

श्लोक 166

द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्।
स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः॥

श्लोक 167

निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्।
तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान्॥

श्लोक 168

उद्रिक्तपित्तान् जयति त्रिदोषान् स्वादु दाडिमम्।
पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्॥

श्लोक 169

सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्।
मोचखर्जूरपनसनालिकेरपरूषकम्॥

श्लोक 170

आम्राततालकाश्मर्यराजादनमधूकजम्।
सौवीरबदराङ्कोलफल्गुश्लेष्मातकोद्भवम्॥

श्लोक 171

वातामाभिषुकाक्षोडमुकूलकनिकोचकम्।
ऊरुमाणं प्रियालं च बृंहणं गुरु शीतलम्॥

श्लोक 172

दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्।
स्वादुपाकरसां स्निग्धं विष्टम्भि कफशुक्रकृत्॥

श्लोक 173

नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्।
बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम्॥

श्लोक 174

मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्।
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु॥

श्लोक 175

स्निग्धं स्वादु कषायं च राजादनफलं गुरु।
फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्॥

श्लोक 176

शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्।
मधूकजमहृद्यं तु बदरं सरणात्मकम्॥

श्लोक 177

वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्।
परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्॥

श्लोक 178

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः।
कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः॥

श्लोक 179

तिन्दुकाश्मन्तकासीनफलिनीबिम्बितोदनम्।
टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्॥

श्लोक 180

श्वेतपाककपित्थानि सिञ्चतीभव्यजाम्बवम्।
क्षीरिवृक्षभवं बीजं पौष्करं कफपित्तजित्॥

श्लोक 181

कषायमधुरं रूक्षं शीतलं गुरु लेखनम्।
विबन्धाध्मानजननं स्तम्भनं वातकोपनम्॥

श्लोक 182

कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत्।
पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्॥

श्लोक 183

दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम्।
विषघ्नमुभयं ग्राहि कपित्थान्येवमादिशेत्॥

श्लोक 184

बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम्।
भव्यं विशदमम्लं च जाम्बवं त्वतिवातलम्॥

श्लोक 185

विष्टम्भकृदकण्ठ्यं च साम्लं तु क्षीरिवृक्षजम्।
पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्॥

श्लोक 186

बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्।
संपूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदम्॥

श्लोक 187

स्वादु साम्लं गुरु स्निग्धं मारुतघ्नमपित्तलम्।
हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम्॥

श्लोक 188

सहकाररसो हृद्यः सुरभिस्निग्धरोचनः।
दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्॥

श्लोक 189

कषायं रोचनं हृद्यं वातलं लवलीफलम्।
गुर्वग्निसादकृद्विल्वं दोषलं पूतिमारुतम्॥

श्लोक 190

पक्वं बालं पुनस्तीक्ष्णं पित्तलं लघु दीपनम्।
वातश्लेष्मघ्नमुष्णं च स्निग्धं ग्राह्युभयं परम्॥

श्लोक 191

वृक्षाम्लं ग्राहि रूक्षोष्णं लघु दीपनरोचनम्।
वातश्लेष्महरं किञ्चिदूनं कोशाम्लम्जं ततः॥

श्लोक 192

फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च।
गुरुष्णमधुरं रूक्षं केशघ्नं च शमीफलम्॥

श्लोक 193

कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलम्।
क्रिमिगुल्मोदरगरप्लीहार्शःकफवातजित्॥

श्लोक 194

सतिक्तं स्वादु यत् पीलु नात्युष्णं तत्त्रिदोषजित्।
नीपं शताक्षिकं प्राचीनागरं तृणशूल्यजम्॥

श्लोक 195

अस्मादल्पान्तरगुणमैङ्गुदं सविकङ्कतम्।
त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्॥

श्लोक 196

बृंहणं मधुरं मांसं वातपित्तहरं गुरु।
लघु तत्केसरं कासश्वासहिध्मामदात्ययान्॥

श्लोक 197

आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्।
गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्॥

श्लोक 198

भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्।
तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्॥

श्लोक 199

स्वाद्वम्लं शीतमुष्णं च द्विधा पारावतं गुरु।
रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकम्॥

श्लोक 200

पक्वमाशु जरां याति नात्युष्णं गुरु दोषलम्।
द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्॥

श्लोक 201

गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्।
तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम्॥

श्लोक 202

ऐरावतं दन्तशठं सत्रुदं मृगलण्डिकम्।
नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्॥

श्लोक 203

दीपनं भेदनंशुष्कमम्लिकाङ्कोलयोः फलम्।
तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः॥

श्लोक 204

फलानावरं तत्र लिकुचं सर्वदोषकृत्।
हिमानिलोष्णदुर्वातव्याललालादिदूषितम्॥

श्लोक 205

जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्।
अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च॥