अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 7

श्लोक 1

स्मृत्य्-अपायो ह्य् अपस्मारः स धी-सत्-त्वाभिसंप्लवात् ।
जायते ऽभिहते चित्ते चिन्ता-शोक-भयादिभिः ॥ १ ॥

श्लोक 2

स धी-सत्-त्वादि-संप्लवात् उन्माद-वत् प्रकुपितैश् चित्त-देह-गतैर् मलैः ।
हते सत्-त्वे हृदि व्याप्ते संज्ञा-वाहिषु खेषु च ॥ २ ॥

श्लोक 3

तमो विशन् मूढ-मतिर् बीभत्साः कुरुते क्रियाः ।
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥ ३ ॥

श्लोक 4

हस्तौ पादौ च कम्पयन् पश्यन्न् अ-सन्ति रूपाणि प्रस्खलन् पतति क्षितौ ।
विजिह्माक्षि-भ्रुवो दोष-वेगे ऽतीते विबुध्यते ॥ ४ ॥

श्लोक 5

कालान्तरेण स पुनश् चैवम् एव विचेष्टते ।
अपस्मारश् चतुर्-भेदो वाताद्यैर् निचयेन च ॥ ५ ॥

श्लोक 6

रूपम् उत्पत्स्यमाने ऽस्मिन् हृत्-कम्पः शून्य-ता भ्रमः ।
तमसो दर्शनं ध्यानं भ्रू-व्युदासो ऽक्षि-वैकृतम् ॥ ६ ॥

श्लोक 7

रूपम् उत्पद्यमाने ऽस्मिन् अ-शब्द-श्रवणं स्वेदो लाला-सिङ्घाणक-स्रुतिः ।
अ-विपाको ऽ-रुचिर् मूर्छा कुक्ष्य्-आटोपो बल-क्षयः ॥ ७ ॥

श्लोक 8

निद्रा-नाशो ऽङ्ग-मर्दस् तृट् स्वप्ने गानं स-नर्तनम् ।
पानं तैलस्य मद्यस्य तयोर् एव च मेहनम् ॥ ८ ॥

श्लोक 9

तत्र वातात् स्फुरत्-सक्थिः प्रपतंश् च मुहुर् मुहुः ।
अपस्मरति संज्ञां च लभते वि-स्वरं रुदन् ॥ ९ ॥

श्लोक 10

प्रततं च मुहुर् मुहुः उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते ।
आविध्यति शिरो दन्तान् दशत्य् आध्मात-कन्धरः ॥ १० ॥

श्लोक 11

परितो विक्षिपत्य् अङ्गं विषमं विनताङ्गुलिः ।
रूक्ष-श्यावारुणाक्षि-त्वङ्-नखास्यः कृष्णम् ईक्षते ॥ ११ ॥

श्लोक 12

चपलं परुषं रूपं वि-रूपं विकृताननम् ।
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥ १२ ॥

श्लोक 13

चपलं परमं रूपं चपलं परुषं रूक्षं पीत-फेनाक्षि-वक्त्र-त्वग् आस्फालयति मेदिनीम् ।
भैरवादीप्त-रुषित-रूप-दर्शी तृषान्वितः ॥ १३ ॥

श्लोक 14

कफाच् चिरेण ग्रहणं चिरेणैव विबोधनम् ।
चेष्टाल्पा भूयसी लाला शुक्ल-नेत्र-नखास्य-ता ॥ १४ ॥

श्लोक 15

शुक्लाभ-रूप-दर्शि-त्वं सर्व-लिङ्गं तु वर्जयेत् ।
अथावृतानां धी-चित्त-हृत्-खानां प्राक्-प्रबोधनम् ॥ १५ ॥

श्लोक 16

तीक्ष्णैः कुर्याद् अपस्मारे कर्मभिर् वमनादिभिः ।
वातिकं वस्ति-भूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥ १६ ॥

श्लोक 17

श्लैष्मिकं वमन-प्रायैर् अपस्मारम् उपाचरेत् ।
सर्वतः सु-विशुद्धस्य सम्यग् आश्वासितस्य च ॥ १७ ॥

श्लोक 18

अपस्मार-विमोक्षार्थं योगान् संशमनाञ् छृणु ।
गो-मय-स्व-रस-क्षीर-दधि-मूत्रैः शृतं हविः ॥ १८ ॥

श्लोक 19

अपस्मार-ज्वरोन्माद-कामलान्त-करं पिबेत् ।
द्वि-पञ्च-मूल-त्रि-फला-द्वि-निशा-कुटज-त्वचः ॥ १९ ॥

श्लोक 20

द्वि-पञ्च-मूली-त्रि-फला- सप्तपर्णम् अपामार्गं नीलिनीं कटु-रोहिणीम् ।
शम्याक-पुष्कर-जटा-फल्गु-मूल-दुरालभाः ॥ २० ॥

श्लोक 21

श्योणाक-पुष्कर-जटा- द्वि-पलाः सलिल-द्रोणे पक्त्वा पादावशेषिते ।
भार्गी-पाठाढकी-कुम्भ-निकुम्भ-व्योष-रोहिषैः ॥ २१ ॥

श्लोक 22

द्वि-पलानि जल-द्रोणे मूर्वा-भूतिक-भूनिम्ब-श्रेयसी-शारिवा-द्वयैः ।
मदयन्त्य्-अग्नि-निचुलैर् अक्षांशैः सर्पिषः पचेत् ॥ २२ ॥

श्लोक 23

मूर्वा-पूतिक-भूनिम्ब- प्रस्थं तद्-वद् द्रवैः पूर्वैः पञ्च-गव्यम् इदं महत् ।
ज्वरापस्मार-जठर-भगन्दर-हरं परम् ॥ २३ ॥

श्लोक 24

शोफार्शः-कामला-पाण्डु-गुल्म-कास-ग्रहापहम् ।
ब्राह्मी-रस-वचा-कुष्ठ-शङ्खपुष्पी-शृतं घृतम् ॥ २४ ॥

श्लोक 25

गुल्म-कास-भ्रमापहम् पुराणं मेध्यम् उन्मादा-लक्ष्म्य्-अपस्मार-पाप्म-जित् ।
तैल-प्रस्थं घृत-प्रस्थं जीवनीयैः पलोन्मितैः ॥ २५ ॥

श्लोक 26

क्षीर-द्रोणे पचेत् सिद्धम् अपस्मार-विमोक्षणम् ।
कंसे क्षीरेक्षु-रसयोः काश्मर्ये ऽष्ट-गुणे रसे ॥ २६ ॥

श्लोक 27

कार्षिकैर् जीवनीयैश् च सर्पिः-प्रस्थं विपाचयेत् ।
वात-पित्तोद्भवं क्षिप्रम् अपस्मारं निहन्ति तत् ॥ २७ ॥

श्लोक 28

तद्-वत् काश-विदारीक्षु-कुश-क्वाथ-शृतं पयः ।
कूष्माण्ड-स्व-रसे सर्पिर् अष्टा-दश-गुणे शृतम् ॥ २८ ॥

श्लोक 29

कुश-क्वाथे शृतं पयः -कुश-क्वाथैः शृतं पयः यष्टी-कल्कम् अपस्मार-हरं धी-वाक्-स्वर-प्रदम् ।
कपिलानां गवां पित्तं नावने परमं हितम् ॥ २९ ॥

श्लोक 30

यष्टी-कल्कं अपस्मारं नावनं परमं हितम् हरेद् धी-वाक्-स्वर-प्रदम् श्व-शृगाल-बिडालानां सिंहादीनां च पूजितम् ।
गोधा-नकुल-नागानां पृषतर्क्ष-गवाम् अपि ॥ ३० ॥

श्लोक 31

वृषभर्क्ष-गवाम् अपि वृक-चर्क-गवाम् अपि पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते ।
त्रि-फला-व्योष-पीतद्रु-यव-क्षार-फणिज्जकैः ॥ ३१ ॥

श्लोक 32

पित्तेषु साधयेत् तैलं नस्याभ्यङ्गेषु शस्यते श्र्य्-आह्वापामार्ग-कारञ्ज-बीजैस् तैलं विपाचितम् ।
बस्त-मूत्रे हितं नस्यं चूर्णं वा ध्मापयेद् भिषक् ॥ ३२ ॥

श्लोक 33

श्यामापामार्ग-कारञ्ज-बीजैस् तैलं प्रसाधितम् -बीजैस् तैलं विपाचयेत् नकुलोलूक-मार्जार-गृध्र-कीटाहि-काक-जैः ।
तुण्डैः पक्षैः पुरीषैश् च धूपम् अस्य प्रयोजयेत् ॥ ३३ ॥

श्लोक 34

धूमम् अस्य प्रयोजयेत् धूपम् अस्मै प्रयोजयेत् शीलयेत् तैल-लशुनं पयसा वा शतावरीम् ।
ब्राह्मी-रसं कुष्ठ-रसं वचां वा मधु-संयुताम् ॥ ३४ ॥

श्लोक 35

समं क्रुद्धैर् अपस्मारो दोषैः शारीर-मानसैः ।
यज् जायते यतश् चैष महा-मर्म-समाश्रयः ॥ ३५ ॥

श्लोक 36

तस्माद् रसायनैर् एनं दुश्-चिकित्स्यम् उपाचरेत् ।
तद्-आर्तं चाग्नि-तोयादेर् विषमात् पालयेत् सदा ॥ ३६ ॥

श्लोक 37

तस्माद् रसायनेनैनं तद्-आर्तं चाग्नि-तोयादि-विषमात् पालयेत् सदा मुक्तं मनो-विकारेण त्वम् इत्थं कृत-वान् इति ।
न ब्रूयाद् विषयैर् इष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत् ॥ ३७ ॥