अष्टाङ्गहृदयम्/चिकित्सास्थानम् Adhyaay 7

श्लोक 1

यं दोषम् अधिकं पश्येत् तस्यादौ प्रतिकारयेत् ।
कफ-स्थानानुपूर्व्या च तुल्य-दोषे मदात्यये ॥ १ ॥

श्लोक 2

कफ-स्थानानुपूर्व्या तु पित्त-मारुत-पर्य्-अन्तः प्रायेण हि मदात्ययः ।
हीन-मिथ्याति-पीतेन यो व्याधिर् उपजायते ॥ २ ॥

श्लोक 3

सम-पीतेन तेनैव स मद्येनोपशाम्यति ।
मद्यस्य विष-सादृश्याद् विषं तूत्कर्ष-वृत्तिभिः ॥ ३ ॥

श्लोक 4

तीक्ष्णादिभिर् गुणैर् योगाद् विषान्तरम् अपेक्षते ।
तीक्ष्णोष्णेनाति-मात्रेण पीतेनाम्ल-विदाहिना ॥ ४ ॥

श्लोक 5

मद्येनान्न-रस-क्लेदो विदग्धः क्षार-तां गतः ।
यान् कुर्यान् मद-तृण्-मोह-ज्वरान्तर्-दाह-विभ्रमान् ॥ ५ ॥

श्लोक 6

मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः ।
सु-तीव्रा वेदना याश् च शिरस्य् अस्थिषु संधिषु ॥ ६ ॥

श्लोक 7

जीर्णाम-मद्य-दोषस्य प्रकाङ्क्षा-लाघवे सति ।
यौगिकं विधि-वद् युक्तं मद्यम् एव निहन्ति तान् ॥ ७ ॥

श्लोक 8

क्षारो हि याति माधुर्यं शीघ्रम् अम्लोपसंहितः ।
मद्यम् अम्लेषु च श्रेष्ठं दोष-विष्यन्दनाद् अलम् ॥ ८ ॥

श्लोक 9

दोष-विस्रावणाद् अलम् तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर् दीपनाद्यैस् तथा गुणैः ।
सात्म्य-त्वाच् च तद् एवास्य धातु-साम्य-करं परम् ॥ ९ ॥

श्लोक 10

सप्ताहम् अष्ट-रात्रं वा कुर्यात् पानात्ययौषधम् ।
जीर्यत्य् एतावता पानं कालेन वि-पथाश्रितम् ॥ १० ॥

श्लोक 11

परं ततो ऽनुबध्नाति यो रोगस् तस्य भेषजम् ।
यथा-यथं प्रयुञ्जीत कृत-पानात्ययौषधः ॥ ११ ॥

श्लोक 12

कृत-पानात्ययौषधम् तत्र वातोल्बणे मद्यं दद्यात् पिष्ट-कृतं युतम् ।
बीजपूरक-वृक्षाम्ल-कोल-दाडिम-दीप्यकैः ॥ १२ ॥

श्लोक 13

यवानी-हपुषाजाजी-व्योष-त्रि-लवणार्द्रकैः ।
शूल्य-मांसैर् हरीतकैः स्नेह-वद्भिश् च सक्तुभिः ॥ १३ ॥

श्लोक 14

व्योष-त्रि-लवणार्जकैः शूल्य-मांसैर् हरितकैः उष्ण-स्निग्धाम्ल-लवणा मेद्य-मांस-रसा हिताः ।
आम्राम्रातक-पेशीभिः संस्कृता राग-षाडवाः ॥ १४ ॥

श्लोक 15

उष्णाः स्निग्धाम्ल-लवणा मद्य-मांस-रसा हिताः संस्कृता राग-खाण्डवाः गोधूम-माष-विकृतिर् मृदुश् चित्रा मुख-प्रिया ।
आर्द्रिकार्द्रक-कुल्माष-शुक्त-मांसादि-गर्भिणी ॥ १५ ॥

श्लोक 16

सुरभिर् लवणा शीता निर्-गदा वाच्छ-वारुणी ।
स्व-रसो दाडिमात् क्वाथः पञ्च-मूलात् कनीयसः ॥ १६ ॥

श्लोक 17

निगदा वाच्छ-वारुणी शुण्ठी-धान्यात् तथा मस्तु शुक्ताम्भो-ऽच्छाम्ल-काञ्जिकम् ।
अभ्यङ्गोद्वर्तन-स्नानम् उष्णं प्रावरणं घनम् ॥ १७ ॥

श्लोक 18

घनश् चागुरु-जो धूपः पङ्कश् चागुरु-कुङ्कुमः ।
कुचोरु-श्रोणि-शालिन्यो यौवनोष्णाङ्ग-यष्टयः ॥ १८ ॥

श्लोक 19

हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च ।
पित्तोल्बणे बहु-जलं शार्करं मधु वा युतम् ॥ १९ ॥

श्लोक 20

रसैर् दाडिम-खर्जूर-भव्य-द्राक्षा-परूष-जैः ।
सु-शीतं स-सिता-सक्तु योज्यं तादृक् च पानकम् ॥ २० ॥

श्लोक 21

भव्य-द्राक्षा-परूषकैः -पटोली-दाडिमैर् अपि स्वादु-वर्ग-कषायैर् वा युक्तं मद्यं स-माक्षिकम् ।
शालि-षष्टिकम् अश्नीयाच् छशाजैण-कपिञ्जलैः ॥ २१ ॥

श्लोक 22

सतीन-मुद्गामलक-पटोली-दाडिमै रसैः ।
कफ-पित्तं समुत्क्लिष्टम् उल्लिखेत् तृड्-विदाह-वान् ॥ २२ ॥

श्लोक 23

पीत्वाम्बु शीतं मद्यं वा भूरीक्षु-रस-संयुतम् ।
द्राक्षा-रसं वा संसर्गी तर्पणादिः परं हितः ॥ २३ ॥

श्लोक 24

तथाग्निर् दीप्यते तस्य दोष-शेषान्न-पाचनः ।
कासे स-रक्त-निष्ठीवे पार्श्व-स्तन-रुजासु च ॥ २४ ॥

श्लोक 25

तृष्णायां स-विदाहायां सोत्क्लेशे हृदयोरसि ।
गुडूची-भद्र-मुस्तानां पटोलस्याथ-वा रसम् ॥ २५ ॥

श्लोक 26

स-शृङ्गवेरं युञ्जीत तित्तिरि-प्रतिभोजनम् ।
तृष्यते चाति बल-वद् वात-पित्ते समुद्धते ॥ २६ ॥

श्लोक 27

स-नागरं योजयेत दद्याद् द्राक्षा-रसं पानं शीतं दोषानुलोमनम् ।
जीर्णे ऽद्यान् मधुराम्लेन च्छाग-मांस-रसेन च ॥ २७ ॥

श्लोक 28

तृष्य् अल्प-शः पिबेन् मद्यं मदं रक्षन् बहूदकम् ।
मुस्त-दाडिम-लाजाम्बु जलं वा पर्णिनी-शृतम् ॥ २८ ॥

श्लोक 29

पाटल्य्-उत्पल-कन्दैर् वा स्व-भावाद् एव वा हिमम् ।
मद्याति-पानाद् अब्-धातौ क्षीणे तेजसि चोद्धते ॥ २९ ॥

श्लोक 30

पटोल्य्-उत्पल-कन्दैर् वा यः शुष्क-गल-ताल्व्-ओष्ठो जिह्वां निष्कृष्य चेष्टते ।
पाययेत् कामतो ऽम्भस् तं निशीथ-पवनाहतम् ॥ ३० ॥

श्लोक 31

कोल-दाडिम-वृक्षाम्ल-चुक्रीका-चुक्रिका-रसः ।
पञ्चाम्लको मुखालेपः सद्यस् तृष्णां नियच्छति ॥ ३१ ॥

श्लोक 32

त्वचं प्राप्तश् च पानोष्मा पित्त-रक्ताभिमूर्छितः ।
दाहं प्रकुरुते घोरं तत्राति-शिशिरो विधिः ॥ ३२ ॥

श्लोक 33

त्वचं प्राप्तस् तु पानोष्मा त्वचं प्राप्तः स पानोष्मा अ-शाम्यति रसैस् तृप्ते रोहिणीं व्यधयेत् सिराम् ।
उल्लेखनोपवासाभ्यां जयेच् छ्लेष्मोल्बणं पिबेत् ॥ ३३ ॥

श्लोक 34

शीतं शुण्ठी-स्थिरोदीच्य-दुःस्पर्शान्य-तमोदकम् ।
निर्-आमं क्षुधितं काले पाययेद् बहु-माक्षिकम् ॥ ३४ ॥

श्लोक 35

शार्करं मधु वा जीर्णम् अरिष्टं सीधुम् एव वा ।
रूक्ष-तर्पण-संयुक्तं यवानी-नागरान्वितम् ॥ ३५ ॥

श्लोक 36

यूषेण यव-गोधूमं तनुनाल्पेन भोजयेत् ।
उष्णाम्ल-कटु-तिक्तेन कौलत्थेनाल्प-सर्पिषा ॥ ३६ ॥

श्लोक 37

उष्णाम्बु-कटु-तिक्तेन शुष्क-मूलक-जैश् छागै रसैर् वा धन्व-चारिणाम् ।
साम्ल-वेतस-वृक्षाम्ल-पटोली-व्योष-दाडिमैः ॥ ३७ ॥

श्लोक 38

पाटली-व्योष-दाडिमैः प्रभूत-शुण्ठी-मरिच-हरितार्द्रक-पेशिकम् ।
बीजपूर-रसाद्य्-अम्ल-भृष्ट-नी-रस-वर्तितम् ॥ ३८ ॥

श्लोक 39

करीर-करमर्दादि रोचिष्णु बहु-शालनम् ।
प्रव्यक्ताष्टाङ्ग-लवणं विकल्पित-निमर्दकम् ॥ ३९ ॥

श्लोक 40

विकल्पित-विमर्दकम् यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत् ।
सिता-सौवर्चलाजाजी-तिन्तिडीकाम्ल-वेतसम् ॥ ४० ॥

श्लोक 41

माधवं निर्-गदं पिबेत् त्वग्-एला-मरिचार्धांशम् अष्टाङ्ग-लवणं हितम् ।
स्रोतो-विशुद्ध्य्-अग्नि-करं कफ-प्राये मदात्यये ॥ ४१ ॥

श्लोक 42

रूक्षोष्णोद्वर्तनोद्घर्ष-स्नान-भोजन-लङ्घनैः ।
स-कामाभिः सह स्त्रीभिर् युक्त्या जागरणेन च ॥ ४२ ॥

श्लोक 43

मदात्ययः कफ-प्रायः शीघ्रं समुपशाम्यति ।
यद् इदं कर्म निर्दिष्टं पृथग् दोष-बलं प्रति ॥ ४३ ॥

श्लोक 44

संनिपाते दश-विधे तच् छेषे ऽपि विकल्पयेत् ।
त्वङ्-नागपुष्प-मगधा-मरिचाजाजि-धान्यकैः ॥ ४४ ॥

श्लोक 45

परूषक-मधूकैला-सुराह्वैश् च सितान्वितैः ।
स-कपित्थ-रसं हृद्यं पानकं शशि-बोधितम् ॥ ४५ ॥

श्लोक 46

मदात्ययेषु सर्वेषु पेयं रुच्य्-अग्नि-दीपनम् ।
ना-विक्षोभ्य मनो मद्यं शरीरम् अ-विहन्य वा ॥ ४६ ॥

श्लोक 47

ना-क्षोभ्य हि मनो मद्यं शरीरम् अ-विहत्य वा कुर्यान् मदात्ययं तस्माद् इष्यते हर्षणी क्रिया ।
संशुद्धि-शमनाद्येषु मद-दोषः कृतेष्व् अपि ॥ ४७ ॥

श्लोक 48

न चेच् छाम्येत् कफे क्षीणे जाते दौर्बल्य-लाघवे ।
तस्य मद्य-विदग्धस्य वात-पित्ताधिकस्य च ॥ ४८ ॥

श्लोक 49

ग्रीष्मोपतप्तस्य तरोर् यथा वर्षं तथा पयः ।
मद्य-क्षीणस्य हि क्षीणं क्षीरम् आश्व् एव पुष्यति ॥ ४९ ॥

श्लोक 50

मद्य-क्षीणस्य हि क्षीरं पीतम् आश्व् एव पुष्यति ओजस् तुल्यं गुणैः सर्वैर् विपरीतं च मद्यतः ।
पयसा विहते रोगे बले जाते निवर्तयेत् ॥ ५० ॥

श्लोक 51

पयसा विजिते रोगे क्षीर-प्रयोगं मद्यं च क्रमेणाल्पाल्पम् आचरेत् ।
न विक्षय-ध्वंसकोत्थैः स्पृशेतोपद्रवैर् यथा ॥ ५१ ॥

श्लोक 52

न विट्-क्षय-ध्वंसकोत्थैः स्पृश्येतोपद्रवैर् यथा तयोस् तु स्याद् घृतं क्षीरं वस्तयो बृंहणाः शिवाः ।
अभ्यङ्गोद्वर्तन-स्नानान्य् अन्न-पानं च वात-जित् ॥ ५२ ॥

श्लोक 53

युक्त-मद्यस्य मद्योत्थो न व्याधिर् उपजायते ।
अतो ऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥ ५३ ॥

श्लोक 54

आश्विनं या महत् तेजो बलं सारस्वतं च या ।
दधात्य् ऐन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥ ५४ ॥

श्लोक 55

अस्त्रं मकर-केतोर् या पुरुषार्थो बलस्य या ।
सौत्रामण्यां द्वि-ज-मुखे या हुताशे च ह्वयते ॥ ५५ ॥

श्लोक 56

पुरुषार्थो बलस्य च या सर्वौषधि-संपूर्णान् मथ्यमानात् सुरासुरैः ।
महोद-धेः समुद्भूता श्री-शशाङ्कामृतैः सह ॥ ५६ ॥

श्लोक 57

मधु-माधव-मैरेय-सीधु-गौडासवादिभिः ।
मद-शक्तिम् अन्-उज्झन्ती या रूपैर् बहुभिः स्थिता ॥ ५७ ॥

श्लोक 58

मद-शक्तिम् अ-त्यजन्ती याम् आस्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति ।
कुलाङ्गनापि यां पीत्वा नयत्य् उद्धत-मानसा ॥ ५८ ॥

श्लोक 59

याम् आसाद्य विलासिन्यो अन्-अङ्गालिङ्गितैर् अङ्गैः क्वापि चेतो मुनेर् अपि ।
तरङ्ग-भङ्ग-भ्रू-कुटी-तर्जनैर् मानिनी-मनः ॥ ५९ ॥

श्लोक 60

एकं प्रसाद्य कुरुते या द्वयोर् अपि निर्वृतिम् ।
यथा-कामं भटावाप्ति-परिहृष्टाप्सरो-गणे ॥ ६० ॥

श्लोक 61

यथा-काम-भटावाप्ति- तृण-वत् पुरुषा युद्धे याम् आस्वाद्य त्यजन्त्य् असून् ।
यां शीलयित्वापि चिरं बहु-धा बहु-विग्रहाम् ॥ ६१ ॥

श्लोक 62

याम् आसाद्य त्यजन्त्य् असून् नित्यं हर्षाति-वेगेन तत्-पूर्वम् इव सेवते ।
शोकोद्वेगा-रति-भयैर् यां दृष्ट्वा नाभिभूयते ॥ ६२ ॥

श्लोक 63

गोष्ठी-महोत्सवोद्यानं न यस्याः शोभते विना ।
स्मृत्वा स्मृत्वा च बहु-शो वियुक्तः शोचते यया ॥ ६३ ॥

श्लोक 64

स्मृत्वा तु यां च बहु-शो अ-प्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या ।
अपीन्द्रं मन्यते दुः-स्थं हृदय-स्थितया यया ॥ ६४ ॥

श्लोक 65

अ-निर्देश्य-सुखास्वादा स्वयं-वेद्यैव या परम् ।
इति चित्रास्व् अवस्थासु प्रियाम् अनुकरोति या ॥ ६५ ॥

श्लोक 66

प्रियाति-प्रिय-तां याति यत् प्रियस्य विशेषतः ।
या प्रीतिर् या रतिर् वा वाग् या पुष्टिर् इति च स्तुता ॥ ६६ ॥

श्लोक 67

देव-दानव-गन्धर्व-यक्ष-राक्षस-मानुषैः ।
पान-प्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥ ६७ ॥

श्लोक 68

यक्ष-राक्षस-मानवैः -यक्ष-राक्षस-मानवैः संभवन्ति न ते रोगा मेदो-ऽनिल-कफोद्भवाः ।
विधि-युक्ताद् ऋते मद्याद् ये न सिध्यन्ति दारुणाः ॥ ६८ ॥

श्लोक 69

संभवन्ति च ये रोगा विधि-युक्ताद् ऋते मद्यात् ते न सिध्यन्ति दारुणाः अस्ति देहस्य सावस्था यस्यां पानं निवार्यते ।
अन्य-त्र मद्यान् निगदाद् विविधौषध-संस्कृतात् ॥ ६९ ॥

श्लोक 70

विविधौषध-संभृतात् आनूपं जाङ्गलं विधिनाप्य् उपकल्पितम् ।
मद्यं सहायम् अ-प्राप्य सम्यक् परिणमेत् कथम् ॥ ७० ॥

श्लोक 71

सु-तीव्र-मारुत-व्याधि-घातिनो लशुनस्य च ।
मद्य-मांस-वियुक्तस्य प्रयोगे स्यात् कियान् गुणः ॥ ७१ ॥

श्लोक 72

प्रयोगः स्यात् कियान् गुणः प्रयोगात् स्यात् कियान् गुणः निगूढ-शल्याहरणे शस्त्र-क्षाराग्नि-कर्मणि ।
पीत-मद्यश् विषहते सुखं वैद्य-विकत्थनाम् ॥ ७२ ॥

श्लोक 73

शस्त्र-क्षाराग्नि-कर्मसु अनलोत्तेजनं रुच्यं शोक-श्रम-विनोदकम् ।
न चातः परम् अस्त्य् अन्यद् आरोग्य-बल-पुष्टि-कृत् ॥ ७३ ॥

श्लोक 74

शोक-श्रम-विनोदनम् रक्षता जीवितं तस्मात् पेयम् आत्म-वता सदा ।
आश्रितोपाश्रित-हितं परमं धर्म-साधनम् ॥ ७४ ॥

श्लोक 75

स्नातः प्रणम्य सुर-विप्र-गुरून् यथा-स्वं वृत्तिं विधाय च समस्त-परिग्रहस्य ।
आपान-भूमिम् अथ गन्ध-जलाभिषिक्ताम् आहार-मण्डप-समीप-गतां श्रयेत् ॥ ७५ ॥

श्लोक 76

स्व्-आस्तृते ऽथ शयने कमनीये मित्र-भृत्य-रमणी-समवेतः ।
स्वं यशः कथक-चारण-संघैर् उद्धतं निशमयन्न् अति-लोकम् ॥ ७६ ॥

श्लोक 77

विलासिनीनां च विलास-शोभि गीतं स-नृत्यं कल-तूर्य-घोषैः ।
काञ्ची-कलापैश् चल-किङ्किणीकैः क्रीडा-विहङ्गैश् च कृतानुनादम् ॥ ७७ ॥

श्लोक 78

गीतं स-नृत्तं कल-तूर्य-घोषैः काञ्ची-कलापैः स्फुट-किङ्किणीकैः मणि-कनक-समुत्थैर् आवनेयैर् विचित्रैः ॥ ७८अ ॥
मणि-कनक-समुत्थैर् औपगेयैर् विचित्रैः मणि-कनक-समुत्थैः पान-पात्रैर् विचित्रैः स-जल-विविध-लेख-क्षौम-वस्त्रावृताङ्गैः ॥ ७८ब् ॥
स-जल-विविध-भक्ति-क्षौम-वस्त्रावृताङ्गैः अपि मुनि-जन-चित्त-क्षोभ-संपादिनीभिश् ॥ ७८च् ॥
चकित-हरिण-लोल-प्रेक्षणीभिः प्रियाभिः ॥ ७८द् ॥

श्लोक 79

चकित-हरिण-लोल-प्रेक्षणाभिः प्रियाभिः स्तन-नितम्ब-कृताद् अति-गौरवाद् अलसम् आकुलम् ईश्वर-संभ्रमात् ।
इति गतं दधतीभिर् अ-संस्थितं तरुण-चित्त-विलोभन-कार्मणम् ॥ ७९ ॥

श्लोक 80

यौवनासव-मत्ताभिर् विलासाधिष्ठितात्मभिः ।
संचार्यमाणं युग-पत् तन्व्-अङ्गीभिर् इतस्-ततः ॥ ८० ॥

श्लोक 81

ताल-वृन्त-नलिनी-दलानिलैः शीतली-कृतम् अतीव शीतलैः ।
दर्शने ऽपि विदधद् वशानुगम् स्वादितं किम् उत चित्त-जन्मनः ॥ ८१ ॥

श्लोक 82

सेवितं किम् उत चित्त-जन्मनः चूत-रसेन्दु-मृगैः कृत-वासं मल्लिकयोज्ज्वलया च स-नाथम् ।
स्फाटिक-शुक्ति-गतं स-तरङ्गं कान्तम् अन्-अङ्गम् इवोद्वहद् अङ्गम् ॥ ८२ ॥

श्लोक 83

मल्लिकयोज्ज्वलयाथ स-नाथम् स्फाटिक-शुक्ति-गतं सु-तरङ्गं तालीशाद्यं चूर्णम् एलादिकं वा हृद्यं प्राश्य प्राग् वयः-स्थापनं वा ।
तत्-प्रार्थिभ्यो भूमि-भागे सु-मृष्टे तोयोन्मिश्रं दापयित्वा ततश् च ॥ ८३ ॥

श्लोक 84

हृद्यं प्राश्यं प्राग् वयः-स्थापनं वा धृति-मान् स्मृति-मान् नित्यम् अन्-ऊनाधिकम् आचरन् ।
उचितेनोपचारेण सर्वम् एवोपपादयन् ॥ ८४ ॥

श्लोक 85

अ-न्यूनाधिकम् आचरन् उदितेनोपचारेण सर्वम् एवोपपालयन् जित-विकसितासित-सरो-ज-नयन-संक्रान्ति-वर्धित-श्रीकम् ।
कान्ता-मुखम् इव सौरभ-हृत-मधु-प-गणं पिबेन् मद्यम् ॥ ८५ ॥

श्लोक 86

ज-नयन-संक्रान्त-वर्धित-श्रीकम् ज-नयनं सत् कान्ति-वर्धित-श्रीकम् पीत्वैवं चषक-द्वयं परिजनं सन्-मान्य सर्वं ततो ॥ ८६अ ॥
पीत्वैवं चषक-त्रयं परिजनं सन्-मान्य सर्वं ततो पीत्वैवं चषक-द्वयं परिजनं संभाव्य सर्वं ततो गत्वाहार-भुवं पुरः सु-भिषजो भुञ्जीत भूयो ऽत्र च ॥ ८६ब् ॥
मांसापूप-घृतार्द्रकादि-हरितैर् युक्तं स-सौवर्चलैर् ॥ ८६च् ॥
द्विस् त्रिर् वा निशि चाल्पम् एव वनिता-संवल्गनार्थं पिबेत् ॥ ८६द् ॥

श्लोक 87

रहसि दयिताम् अङ्के कृत्वा भुजान्तर-पीडनात् ॥ ८७अ ॥
पुलकित-तनुं जात-स्वेदां स-कम्प-पयो-धराम् ॥ ८७ब् ॥
यदि स-रभसं सीधोर् वारं न पाययते कृती ॥ ८७च् ॥
यदि स-रभसं सीधूद्गारं न पाययते कृती किम् अनुभवति क्लेश-प्रायं ततो गृह-तन्त्र-ताम् ॥ ८७द् ॥

श्लोक 88

किम् अनुभवति क्लेश-प्रायां वृथा गृह-तन्त्र-ताम् किम् अनुभवति क्लेश-प्रायां तदा गृह-तन्त्र-ताम् वर-तनु-वक्त्र-संगति-सु-गन्धि-तरं सरकम् ॥ ८८अ ॥
द्रुतम् इव पद्म-राग-मणिम् आसव-रूप-धरम् ॥ ८८ब् ॥
भवति रति-श्रमेण च मदः पिबतो ऽल्पम् अपि ॥ ८८च् ॥
क्षयम् अत ओजसः परिहरन् स शयीत परम् ॥ ८८द् ॥

श्लोक 89

इत्थं युक्त्या पिबन् मद्यं न त्रि-वर्गाद् विहीयते ।
अ-सार-संसार-सुखं परमं चाधिगच्छति ॥ ८९ ॥

श्लोक 90

ऐश्वर्यस्योपभोगो ऽयं स्पृहणीयः सुरैर् अपि ।
अन्य-था हि विपत्सु स्यात् पश्चात् तापेन्धनं धनम् ॥ ९० ॥

श्लोक 91

अन्य-था हि विपत्स्व् अस्य उपभोगेन रहितो भोग-वान् इति निन्द्यते ।
निर्मितो ऽति-कद्-अर्यो ऽयं विधिना निधि-पालकः ॥ ९१ ॥

श्लोक 92

तस्माद् व्यवस्थया पानं पानस्य सततं हितम् ।
जित्वा विषय-लुब्धानाम् इन्द्रियाणां स्व-तन्त्र-ताम् ॥ ९२ ॥

श्लोक 93

तस्माद् अवस्थया पानं विधिर् वसु-मताम् एष भविष्यद्-वसवस् तु ये ।
यथोपपत्ति तैर् मद्यं पातव्यं मात्रया हितम् ॥ ९३ ॥

श्लोक 94

यावद् दृष्टेर् न संभ्रान्तिर् यावन् न क्षोभते मनः ।
तावद् एव विरन्तव्यं मद्याद् आत्म-वता सदा ॥ ९४ ॥

श्लोक 95

अभ्यङ्गोद्वर्तन-स्नान-वास-धूपानुलेपनैः ।
स्निग्धोष्णैर् भावितश् चान्नैः पानं वातोत्तरः पिबेत् ॥ ९५ ॥

श्लोक 96

शीतोपचारैर् विविधैर् मधुर-स्निग्ध-शीतलैः ।
पैत्तिको भावितश् चान्नैः पिबन् मद्यं न सीदति ॥ ९६ ॥

श्लोक 97

उपचारैर् अ-शिशिरैर् यव-गोधूम-भुक् पिबेत् ।
श्लैष्मिको धन्व-जैर् मांसैर् मद्यं मारिचिकैः सह ॥ ९७ ॥

श्लोक 98

श्लैष्मिको जाङ्गलैर् मांसैर् मद्यं मरिचकैः सह तत्र वाते हितं मद्यं प्रायः पैष्टिक-गौडिकम् ।
पित्ते साम्भो मधु कफे मार्द्वीकारिष्ट-माधवम् ॥ ९८ ॥

श्लोक 99

माध्वीकारिष्ट-माधवम् प्राक् पिबेच् छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ।
वातिकस् तु पिबेन् मध्ये सम-दोषो यथेच्छया ॥ ९९ ॥

श्लोक 100

सम-दोषो यथेच्छति सम-दोषो यद्-ऋच्छया मदेषु वात-पित्त-घ्नं प्रायो मूर्छासु चेष्यते ।
सर्व-त्रापि विशेषेण पित्तम् एवोपलक्षयेत् ॥ १०० ॥

श्लोक 101

शीताः प्रदेहा मणयः सेका व्यजन-मारुताः ।
सिता द्राक्षेक्षु-खर्जूर-काश्मर्य-स्व-रसाः पयः ॥ १०१ ॥

श्लोक 102

सिद्धं मधुर-वर्गेण रसा यूषाः स-दाडिमाः ।
षष्टिकाः शालयो रक्ता यवाः सर्पिश् च जीवनम् ॥ १०२ ॥

श्लोक 103

कल्याणकं महा-तिक्तं षट्-पलं पयसाग्निकः ।
पिप्पल्यो वा शिलाह्वं वा रसायन-विधानतः ॥ १०३ ॥

श्लोक 104

त्रि-फला वा प्रयोक्तव्या स-घृत-क्षौद्र-शर्करा ।
प्रसक्त-वेगेषु हितं मुख-नासावरोधनम् ॥ १०४ ॥

श्लोक 105

पिबेद् वा मानुषी-क्षीरं तेन दद्याच् च नावनम् ।
मृणाल-बिस-कृष्णा वा लिह्यात् क्षौद्रेण साभयाः ॥ १०५ ॥

श्लोक 106

पिबेद् वा मानुषं क्षीरं दुरालभां वा मुस्तं वा शीतेन सलिलेन वा ।
पिबेन् मरिच-कोलास्थि-मज्जोशीराहिकेसरम् ॥ १०६ ॥

श्लोक 107

धात्री-फल-रसे सिद्धं पथ्या-क्वाथेन वा घृतम् ।
कुर्यात् क्रियां यथोक्तां च यथा-दोष-बलोदयम् ॥ १०७ ॥

श्लोक 108

पञ्च कर्माणि चेष्टानि सेचनं शोणितस्य च ।
सत्-त्वस्यालम्बनं ज्ञानम् अ-गृद्धिर् विषयेषु च ॥ १०८ ॥

श्लोक 109

मदेष्व् अति-प्रवृद्धेषु मूर्छायेषु च योजयेत् ।
तीक्ष्णं संन्यास-विहितं विष-घ्नं विष-जेषु च ॥ १०९ ॥

श्लोक 110

कर्म संन्यास-विहितं विष-घ्नं विष-जेषु तु आशु प्रयोज्यं संन्यासे सु-तीक्ष्णं नस्यम् अञ्जनम् ।
धूमः प्रधमनं तोदः सूचीभिश् च नखान्तरे ॥ ११० ॥

श्लोक 111

धूमं प्रधमनं तोदः सूचीभिश् च नखान्तरैः केशानां लुञ्चनं दाहो दंशो दशन-वृश्चिकैः ।
कट्व्-अम्ल-गालनं वक्त्रे कपिकच्छ्व्-अवघर्षणम् ॥ १११ ॥

श्लोक 112

कपिकच्छ्वावघर्षणम् उत्थितो लब्ध-संज्ञश् च लशुन-स्व-रसं पिबेत् ।
खादेत् स-व्योष-लवणं बीजपूरक-केसरम् ॥ ११२ ॥

श्लोक 113

लघ्व्-अन्न-प्रति तीक्ष्णोष्णम् अद्यात् स्रोतो-विशुद्धये ।
विस्मापनैः संस्मरणैः प्रिय-श्रवण-दर्शनैः ॥ ११३ ॥

श्लोक 114

लघ्व् अन्नं कटु-तीक्ष्णोष्णम् पटुभिर् गीत-वादित्र-शब्दैर् व्यायाम-शीलनैः ।
स्रंसनोल्लेखनैर् धूमैः शोणितस्यावसेचनैः ॥ ११४ ॥

श्लोक 115

उपाचरेत् तं प्रततम् अनुबन्ध-भयात् पुनः ।
तस्य संरक्षितव्यं च मनः प्रलय-हेतुतः ॥ ११५ ॥