नवनीत वर्गः

श्लोक 1

म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम् नवनीतं हितं गव्यं वृष्यं वर्णबलाग्निकृत्

श्लोक 2

संग्राहि वातपित्तासृक्क्षयार्शोऽदितकासहृत् तद्धितं बालके वृद्धे विशेषादमृतं शिशोः

श्लोक 3

नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु दाहपित्तश्रमहरं मेदः शुक्रविवर्द्धनम्

श्लोक 4

दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत् वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम्

श्लोक 5

नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु मेध्यं किञ्चित्कषायाम्लमीषत्तक्रांश सङ्क्रमात्

श्लोक 6

सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम् श्लेष्मलं गुरु मेदस्यं नवनीतं चिरन्तनम्