श्लोक 1
घोलं तु मथितं तक्रमुदश्विच्छच्छिकाऽपि च ससरं निर्जलं घोलं मथितं त्वसरोदकम्
श्लोक 2
तक्रं पादजलं प्रोक्तमुदश्वित्त्वर्द्धवारिकम्
छच्छिका सारहीना स्यात्स्वच्छा प्रचुरवारिका
घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसालवत्
श्लोक 3
वातपित्तहरं ह्लादि मथितं कफपित्तनुत्
श्लोक 4
तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु वीर्योष्णं दीपनं वृष्यं प्रीणनं वातनाशनम्
श्लोक 5
ग्रहण्यादिमतां पथ्यं भवेत्संग्राहि लाघवात् किञ्च स्वादुविपाकित्वान्न च पित्तप्रकोपणम्
श्लोक 6
अम्लोष्णं दीपनं वृष्यं प्रीणनं वातनाशनम् कषायोष्णविकाशित्वाद्रौ क्ष्याच्चापि कफापहम्
श्लोक 7
न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः
श्लोक 8
उदश्वित् कफकृद् बल्यमामघ्नं परमं मतम्
छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी
वातनुत् कफकृत् सा तु दीपनी लवणान्विता
श्लोक 9
समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः
श्लोक 10
स्तोकोद्धृतघृतं तस्माद् गुरु वृष्यं कफापहम् अनुद्धृतघृतं सान्द्रं गुरुपुष्टिकफप्रदम्
श्लोक 11
वातेऽम्ल शस्यते तक्रं शुण्ठीसैन्धवसंयुतम् पित्ते स्वादु सितायुक्तं व्योषक्षारयुतं कफे
श्लोक 12
हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम् भवेदतीव वातघ्नमर्शोऽतीसारहृत्परम्
श्लोक 13
रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम् मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्
श्लोक 14
तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च पीनसश्वासकासादौ पक्वमेव प्रयुज्यते
श्लोक 15
शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च
अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम्
तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान्
पाण्डुमेदोग्रहण्यर्शोमूत्रग्रहभगन्दरान्
श्लोक 16
मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्
श्लोक 17
नैव तक्रं क्षये दद्यान्नोष्णकाले न दुर्बले न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे
श्लोक 18
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत्