दुग्धवर्गः

श्लोक 1

दुग्धं क्षीरं पयः स्तन्यं बालजीवनमित्यपि दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम्

श्लोक 2

सद्यः शुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम्
जीवनं बृहणं बल्यं मेध्यं वाजीकरं परम्
वयःस्थापनमायुष्यं सन्धिकारि रसायनम्

श्लोक 3

विरेकवान्तिवस्तीनां सेव्यमोजोविवर्द्धनम्

श्लोक 4

जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु च ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये

श्लोक 5

शूलोदावर्त्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे रक्तपित्तेऽतिसारे च योनिरोगे श्रमे क्लमे

श्लोक 6

गर्भस्रावे च सततं हितं मुनिवरैः स्मृतम्
बालवृद्धक्षतक्षीणाः क्षुद्व्यवायकृशाश्च ये
तेभ्यः सदाऽतिशयितं हितमेतदुदाहृतम्

श्लोक 7

गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः दोषधातुमलस्रोतः किञ्चित्क्लेदकरं गुरु

श्लोक 8

शीतलं स्तन्यकृत्स्निग्धं वातपित्तास्रनाशनम् जरासमस्तरोगाणां शान्तिकृत् सेविनां सदा

श्लोक 9

कृष्णाया गोर्भवेद् दुग्धं वातहारि गुणाधिकम्

श्लोक 10

पीताया हरते पित्तं तथा वातहरं भवेत् श्लेष्मलं गुरु शुक्लाया रक्ता चित्रा च वातहृत्

श्लोक 11

बालवत्सविवत्सानां गवां दुग्धं त्रिदोषकृत्

श्लोक 12

वष्कयिण्यास्त्रिदोषघ्नं तर्पणं बलकृत्पयः

श्लोक 13

जाङ्गलानूपशैलेषु चरन्तीनां यथोत्तररम् पयो गुरुतरं स्नेहो यथाऽहारं प्रवर्त्तते

श्लोक 14

स्वल्पान्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम्
तत्तु बल्यं परं वृष्यं स्वस्थानां गुणदायकम्
पलालतृणकार्पासबीजजं रोगिणे हितम्

श्लोक 15

माहिषं मधुरं गव्यात्स्निग्धं शुक्रकरं गुरु निद्रा करमभिष्यन्दि क्षुधाऽधिक्यहरं हिमम्

श्लोक 16

छागं कषायं मधुरं शीतं ग्राहि तथा लघु
रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम्

श्लोक 17

अजानामल्पकायत्वात्कटुतिक्तनिषेवणात् स्तोकाम्बुपानाद्व्यायामात्सर्वरोगापहं पयः

श्लोक 18

मृगीणां जाङ्गलोत्थानामजाक्षीरगुणं पयः

श्लोक 19

आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत्
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम्
गुरु कासानिलोद्भूते केवले चानिले वरम्

श्लोक 20

रूक्षोष्णं वडवाक्षीरं बल्यं शोषानिलापहम् अम्लं पटु लघु स्वादु सर्वमेकशफं तथा

श्लोक 21

औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनं तथा कृमिकुष्ठकफानाहशोथोदरहरं सरम्

श्लोक 22

बृंहणं हस्तिनीदुग्धं मधुरं तुवरं गुरु वृष्यं बल्यं हिमं स्निग्धं चक्षुष्यं स्थिरताकरम्

श्लोक 23

भार्या लघु पयः शीतं दीपनं वातपित्तजित् चक्षुः शूलाभिवातघ्नं नस्याश्च्योतनयोर्वरम्

श्लोक 24

धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम् दीपनञ्च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत्

श्लोक 25

धारोष्णं शस्यते गव्यं धाराशीतन्तु माहिषम् शृतोष्णमाविकं पथ्यं शृतशीतमजापयः

श्लोक 26

आमं क्षीरमभिष्यन्दि गुरु श्लेष्मामवर्द्धनम् ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम्

श्लोक 27

नारीक्षीरं त्वाममेव हितं न तु शृतं हितम् शृतोष्णं कफवातघ्नं शृतशीतन्तु पित्तनुत्

श्लोक 28

अर्द्धोदकं क्षीरशिष्टमामाल्लघुतरं पयः
जलेन रहितं दुग्धमतिपक्वं यथा यथा
तथा तथा गुरु स्निग्धं वृष्यं बलविवर्धनम्

श्लोक 29

क्षीरं तत्कालसूताया घनं पीयूषमुच्यते नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः

श्लोक 30

अपक्वमेव यन्नष्टं क्षीरशाकं हि तत्पयः

श्लोक 31

दघ्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा द्र वभावेन सहितं तक्रपिण्डः स उच्यते

श्लोक 32

नष्टदुग्धभवं नीरं मोरटं जेज्जटोऽब्रवीत् पीयूषञ्च किलाटञ्च क्षीरशाकं तथैव च

श्लोक 33

तक्रपिण्ड इमे वृष्या बृंहणा बलवर्द्धनाः गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः

श्लोक 34

दीप्ताग्नीनां विनिद्रा णां विद्र धौ चाभिपूजिताः
मुखशोष तृषा दाह रक्त पित्त ज्वरप्रणुत्
लघुर्बलकरो रुच्यो मोरटः स्यात्सितायुतः

श्लोक 35

सन्तानिका गुरुः शीता वृष्या पित्तास्रवातनुत् तर्पणी वृंहणी स्निग्धा बलासबलशुक्रला

श्लोक 36

खण्डेन सहितं दुग्धं कफकृत्पवनापहम्
सितासितोपलायुक्तं शुक्रलं त्रिमलापहम्
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं परम्

श्लोक 37

रात्रौ चन्द्र गुणाधिक्याद्व्यायामाकरणात्तथा प्राभातिकं पयः प्रायः प्रादोषाद् गुरु शीतलम्

श्लोक 38

दिवाकरकराघाताद्व्यायामानिलसेवनात् प्राभातिकात्तु प्रादोषं लघु वातकफापहम्

श्लोक 39

वृष्यं बृंहणमग्निदीपनकरं पूर्वाह्नकाले पयो
मध्याह्ने तु बलावहं कफहरं पित्तापहं दीपनम्
बाले बृद्धिकरं क्षयेऽक्षयकरं वृद्धेषु रेतोवहं
रात्रौ पथ्यमनेकदोषशमनं चक्षुर्हितं संस्मृतम्

श्लोक 40

वदन्ति पेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादिकम् भवत्यजीर्णं न शयीत शर्वरीं क्षीरस्य पीतस्य न शेषमुत्सृजेत्

श्लोक 41

विदाहीन्यन्नपानानि दिवा भुङ्क्ते हि यन्नरः तद्विदाहप्रशान्त्यर्थं रात्रौ क्षीरं सदा पिबेत्

श्लोक 42

दीप्तानले कृशे पुंसि बाले वृद्धे पयःप्रिये मतं हिततमं दुग्धं सद्यःशुक्रकरं यतः

श्लोक 43

क्षीरं गव्यमथाजं वा कोष्णं दण्डाहतं पिबेत् लघु वृष्यं ज्वरहरं वातपित्तकफापहम्

श्लोक 44

गोदुग्धप्रभवं किं वा छागीदुग्धसमुद्भवम् भवेत् फेनं त्रिदोषघ्नं रोचनं बलवर्द्धनम्

श्लोक 45

वह्निबृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते

श्लोक 46

विवर्णं विरसं चाम्लं दुर्गन्धं ग्रथितं पयः वर्जयेदम्ललवणयुक्तं कुष्ठादिकृद् यतः