श्लोक 1
समवायिनि हेतौ ये मुनिभिर्गणिता गुणाः कार्येऽपि तेऽखिलाज्ञेयाः परिभाषेति भाषिताः
श्लोक 2
क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः भक्तं लघु पुराणस्यशालेस्तच्चिपिटो गुरुः
श्लोक 3
क्वचिद्योगप्रभावेण गुणान्तरमपेक्षते कदन्नं गुरु सर्पिश्च तद्युक्तं सुपचं भवेत्
श्लोक 4
भक्तमन्नं तथाऽन्धश्च क्वचित्कूरं च कीर्त्तितम् ओदनोऽस्त्री स्रियां भिस्सा दीदिविः पुंसि भाषितः
श्लोक 5
सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् तदुक्तं प्रस्रुतं चोष्णं विशदं गुणवन्मतम्
श्लोक 6
भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु अधौतमस्रुतं शीतं गुर्वरुच्यं कफप्रदम्
श्लोक 7
दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे दाली तु सलिले सिद्धा लवणार्द्र कहिङ्गुभिः
श्लोक 8
संयुक्ता सूपनाम्नी स्यात्कथ्यन्ते तद्गुणा अथ
सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः
निस्तुषो भृष्टसंसिद्धो लाघवं सुतरां व्रजेत्
श्लोक 9
तण्डुला दालिसंमिश्रा लवणार्द्र कहिङ्गुभिः संयुक्ताः सलिले सिद्धाः कृशरा कथिता बुधैः
श्लोक 10
कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा दुर्जरा बुद्धिविष्टम्भमलमूत्रकरी स्मृता
श्लोक 11
वृते हरिद्रा संयुक्ते माषजा भर्जयेद्वटीम्
श्लोक 12
तण्डुलांश्चापि निर्धौतान्सहैव परिभर्जयेत् सिद्धयोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत्
श्लोक 13
लवणार्द्र कहिङ्गूनि मात्रया तत्र निक्षिपेत् एषा सिद्धि समायाता प्रोक्ता तापहरी बुधैः
श्लोक 14
भवेत्तापहरी बल्या वृष्या श्लेष्माणमाचरेत् बृंहणी तर्पणी रुच्या गुर्वी पित्तहरी स्मृता
श्लोक 15
पायसं परमान्नं स्यात्क्षीरिकाऽपि तदुच्यते शुद्धेर्द्धऽपक्वे दुग्धे तु घृताक्तांस्तण्डुलान्पचेत्
श्लोक 16
ते सिद्धाः क्षीरिका ख्याताः ससिताऽज्ययुतोत्तमा
क्षीरिका दुर्जरा प्रोक्ता बृंहणी बलवर्द्धिनी
विष्टम्भिनी हरेत् पित्तं रक्तपित्ताग्निमारुतान्
श्लोक 17
नारिकेरं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् सितागव्याज्यसंयुक्ते तत्पचेन्मृदुनाऽग्निना
श्लोक 18
नारिकेरोद्भवा क्षीरी स्निग्धा शीताऽतिपुष्टिदा गुर्वी सुमधुरावृष्या रक्तपित्तानिलापहा
श्लोक 19
समितावर्त्तिकाः कृत्वा सुसूक्ष्मा यवसन्निभा शुष्काः क्षीरेणसंसाध्या भोज्यावृत्तसिताऽन्विताः
श्लोक 20
सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया
श्लोक 21
गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः प्रोक्षितायन्त्रनिष्पष्टाश्चालिताः समिताः स्मृताः
श्लोक 22
वारिणा कोमलां कृत्वा समितां साधु मर्दयेत् हस्तचालनया तस्या लोप्त्रद्यं सम्यक्प्रसारयेत्
श्लोक 23
अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद् बहिः मृदुना वह्निना साध्या सिद्धो मण्डक उच्यते
श्लोक 24
दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः अथवा सिद्धमांसेन सतक्रवटकेन वा
श्लोक 25
मण्डको बृंहणो वृष्यो बल्यो रुचिकरो भृशम्
पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः
श्लोक 26
कुर्यात्समितयाऽतीव तन्वी पर्पटिका ततः
श्लोक 27
स्वेदयेत्तप्तके तां तु पोलिकां जगदुर्बुधाः तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद् गुणाः
श्लोक 28
समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत्
तस्मिन्घनीकृते न्यस्येल्लवङ्गं मरिचादिकम्
सिद्धषा लप्सिका ख्याता गुणानस्या वदाम्यहम्
श्लोक 29
लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम्
श्लोक 30
शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम्
श्लोक 31
तप्तके स्वेदयेत्कृत्वा भूर्यङ्गारेऽपि तां पचेत् सिद्धैषारोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे
श्लोक 32
रोटिका बलकृद्रुच्या बृंहणी धातुवर्द्धनी वातघ्नी कफकृद् गुर्वी दीप्ताग्नीनां प्रपूजिता
श्लोक 33
शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्दयेत् विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत्
श्लोक 34
अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः दीपनी कफकृद्बल्या पीनसश्वासकासजित्
श्लोक 35
यवजारोटिका रुच्या मधुरा विशदा लघुः मलशुक्रानिलकरी बल्या हन्ति कफामयान्
श्लोक 36
चूर्ण यच्छुष्कमाषाणां चमसी साऽभिधीयते
चमसीरचिता रोटी कथ्यते बलभद्रि का
रूक्षोष्णा वातला बल्या दीप्ताग्नीनां सुपूजिता
श्लोक 37
माषाणां दालयस्तोये स्यापितास्त्यक्तकञ्चुकाः आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता
श्लोक 38
धूमसीरचिता चैव प्रोक्ता झर्झरिका बुधैः झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता
श्लोक 39
चणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुद्गुरुः विष्टम्भिनी न चक्षुष्या तद्गुणा चापि शष्कुली
श्लोक 40
दालि संस्थापिता तोये ततोऽपहृतकञ्चुका शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैः
श्लोक 41
माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः रचिता रोटिका सैव प्रोक्ता बेढमिका बुधैः
श्लोक 42
भवेद्बेढमिका बल्या वृष्या रुच्याऽनिलापहा उष्णा सन्तर्पणी गुर्वी बृंहणी शुक्रला परम्
श्लोक 43
भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत्
श्लोक 44
धूमसीरचिता हिङ्गुहरिद्रा लवणैर्युताः जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिताः
श्लोक 45
पर्पटास्ते सदाऽङ्गारभृष्टाः परमरोचकाः दीपनाः पाचनाः रूक्षा गुरवः किञ्चिदीरिताः
श्लोक 46
मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः
श्लोक 47
चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः
श्लोक 48
माषाणां पिष्टिकां पूर्याल्लवणार्द्र कहिङ्गुभिः तया पिष्टिकया पूर्णा समिता कृत पोलिका
श्लोक 49
ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः रुच्या स्वादी गुरुः स्निग्धा बल्या पितास्रदूषिका
श्लोक 50
चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी तथैव घृतपक्वाऽपि चक्षुष्या रक्तपित्तहृत्
श्लोक 51
अथ वटकः शुष्कः सरसश्च सूखा व रसदार बरा
माषाणांपिष्टिकां युक्तां लवणार्द्र कहिङ्गुभिः
कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः
श्लोक 52
विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः वातामयहरा रुच्या विशेषादर्दितापहाः
श्लोक 53
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः संचूर्ण्यनिक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च
श्लोक 54
लवणं तत्र वटकान्सकलानपि मज्जयेत्
शुक्रलस्तत्र वटको बलकृद्रो चनो गुरुः
श्लोक 55
विबन्धहृद्विदाही च श्लेष्मलः पवनापहः राज्यक्तयाऽतिरोचन्या पाचन्या तांस्तु भक्षयेत्
श्लोक 56
मन्थनी नूतना धार्या कटुतैलेन लेपिता
निर्मलेनाम्बुनाऽपूर्य तस्यां चूर्णं विनिक्षिपेत्
राजिकाजीरकलवणहिङ्गुशुण्ठीनिशाकृतम्
श्लोक 57
निक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्र येत् ततो दिनत्रयादूर्ध्वमम्लाः स्युर्वटका ध्रुवम्
श्लोक 58
काञ्जिकावटको रुच्यो वातघ्नः श्लेष्मकारकः शूलघ्नोऽजीर्णदाहनुद् नेत्ररोगे तु नो हितः
श्लोक 59
अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः
श्लोक 60
अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः वटकस्य गुणैः पूर्वै रेतेऽपि च समन्विताः
श्लोक 61
मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः संस्कारजप्रभावेण त्रिदोषशमना हिताः
श्लोक 62
माषाणां पिष्टिका हिङ्गुलवणार्द्र कसंस्कृता तया विरचिता वस्त्रे वटिकाः साधु शोषिताः
श्लोक 63
भर्जितास्तप्ततैलैस्ता अथवाऽम्बुप्रयोगतः वटकस्य गुणैर्युक्ता ज्ञातव्या रोचना भृशम्
श्लोक 64
कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागुणा विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः
श्लोक 65
मूद्गानां वटिका तद्वद्र चिता साधिता तथा पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता
श्लोक 66
माषपिष्टिकया लिप्तं नागवल्लीदलं महत्
श्लोक 67
तत्तु संस्वेदयेद्युक्त्या स्थाल्यामास्तारकोपरि ततो निष्कास्य तं खण्ड्यं ततस्तैलेन भर्जयेत्
श्लोक 68
अलीकमत्स्य उक्तोऽय प्रकारः पाक पण्डितैः तं वृन्ताक भटित्रेण वास्तूकेन च भक्षयेत्
श्लोक 69
स्थाल्यां घृते वा तैले वा हरिद्रा हिङ्गु भर्जयेत्
अवलेहनसंयुक्तं तक्रं तत्रैव निक्षिपेत्
एषा सिद्धा समरिचा क्वथिता कथिता बुधैः
श्लोक 70
क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी कफानिलाविबन्धघ्नी किञ्चित्पित्तप्रकोपणी
श्लोक 71
अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः बृंहणा रोचना वृष्या बल्या वातगदापहः
श्लोक 72
कोष्ठशुद्धिकराः शुष्काः किञ्चित्पित्तप्रकोपणाः अर्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः
श्लोक 73
मुद्गपिष्टीविरचितान् वटकांस्तैलपाचितान् हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णं विनिक्षिपेत्
श्लोक 74
भृष्टं हिङ्ग्वार्द्र कं सूक्ष्मं मरिचं जीरकं तथा निम्बूरसं यवानीं च युक्त्या सर्वं विमिश्रयेत्
श्लोक 75
मुद्गपिष्टि पचेत्सम्यक् स्थाल्याभास्तारकोपरि तस्यास्तु गोलकं कुर्यात्तन्मध्ये पूरण क्षिपेत्
श्लोक 76
तैले तान्गोलकान्पक्त्वा क्वथितायां निमज्जयेत् गोलकाःपाचक्! प्रोक्तास्ते त्वार्द्र कवटा अपि
श्लोक 77
मुद्गार्द्र कवटा रुच्या लघ्वो बलकारकाः दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजिताः
श्लोक 78
दालयश्चणकानां तु निस्तुषा यन्त्रपेषिताः तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः
श्लोक 79
वटिकावेसनस्यापि क्वथितायां निमज्जिता रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता
श्लोक 80
पाकपात्रे घृतं दद्यात्तैलञ्च तदभावतः तत्र हिङ्गुहरिद्रा च भर्जयेत्तदनन्तरम्
श्लोक 81
छागादेरस्थिरहितं मांसं तत्खण्डितं ध्रुवम् धौतं निर्गालितं तस्मिन्घृते तद्भर्जयेच्छनैः
श्लोक 82
सिद्धयोग्यं जलं दत्वा लवणन्तु पचेत्ततः सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत्
श्लोक 83
द्र व्याणि वेशवारस्य नागवल्लीदलानि च तण्डुलाश्च लवङ्गानि मरिचानि समासतः
श्लोक 84
अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम्
श्लोक 85
शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च बृंहणम् त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्द्धनम्
श्लोक 86
छागादेर्मांसमूर्वादेः कुट्टितं खण्डितं पुनः
शुद्धमांसविधानेन पचेदेतत्सहद्र कम्
सहद्र कं गुणैर्ग्रन्थे शुद्धमांसगुणं स्मृतम्
श्लोक 87
पाकपात्रे घृतं दत्त्वा हरिद्रा हिङ्गु भर्जयेत् छागादेः सकलस्यापि खण्डान्यपि च भर्जयेत्
श्लोक 88
सिद्धयोग्यं जलं दत्त्वा पचेन्मृदुतरं तथा जीरकादियुते तक्रे मांसखण्डानि भावयेत्
श्लोक 89
तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम् कफघ्नं पित्तलं किञ्चित्सर्वाहारस्य पाचनम्
श्लोक 90
पाकपात्रे तु बृहति मांसखण्डानि निक्षिपेत् पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम्
श्लोक 91
हरिद्रा मार्द्र कं शुण्ठीं लवणं मरिचानि च तण्डुलांश्चापि गोधूमाञ्जम्बीराणां रसान् बहून्
श्लोक 92
यथा सर्वाणि वस्तूनि सुपक्वानि भवन्ति हि तथा पचेत्तु निपुणो बहुमण्डस्थितिर्यथा