श्लोक 1
मासं तु पिशितं क्रव्यमामिषं पललं पलम्
मांसं वातहरं सर्वं बृंहणं बलपुष्टिकृत्
प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः
श्लोक 2
मांसवर्गो द्विधा ज्ञेयो जाङ्गलानूपभेदतः
श्लोक 3
मांसवर्गेऽत्र जङ्घाला बिलस्थाश्च गुहाशयाः तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदस्तथा
श्लोक 4
प्रसहा अथ च ग्राम्या अष्टौ जाङ्गलजातयः जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा
श्लोक 5
बल्यास्ते बृंहणं वृष्या दीपना दोषहारिणः मूकतां मिन्मिनत्वं च गद्गदत्वार्दिते तथा
श्लोक 6
बाधिर्य्यमरुचिच्छर्दिप्रमेहमुखजान् गदान् श्लीपदं गलगण्डञ्च नाशयत्यनिलामयान्
श्लोक 7
कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः
श्लोक 8
अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः
श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम्
तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः
श्लोक 9
हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः
श्लोक 10
राजीवोऽपि च मुण्डी चेत्याद्या जङ्घालसंज्ञकाः हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः
श्लोक 11
कुरङ्गईषत्ताम्रः स्यादेणतुल्याकृतिर्महान् ऋष्यो नीलाङ्गको लोके स रोझ इति कीर्त्तितः
श्लोक 12
पृषतश्चन्द्र बिन्दुः स्याद्धरिणात्किञ्चिदल्पकः न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान्
श्लोक 13
राजीवस्तु मृगो ज्ञेयो राजिभिः परितोवृतः यो मृगः शृङ्गहीनः स्यात्स मुण्डीति निगद्यते
श्लोक 14
जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृतः किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः
श्लोक 15
गोधाशशभुजङ्गाखुशल्लक्याद्या बिलेशयाः
बिलेशया वातहरा मधुरा रसपाकयोः
बृंहणा बद्धविण्मूत्रा वीर्योष्णाश्च प्रकीर्त्तिताः
श्लोक 16
सिंहव्याघ्रवृका ॠक्षतरक्षुद्वीपिनस्तथा बभ्रुजम्बूकमार्जारा इत्याद्याः स्युर्गुहाशयाः
श्लोक 17
गुहाशया वातहरा गुरूष्णा मधुराश्च ते स्निग्धा बल्या हिता नित्यं नेत्र गुद विकारिणाम्
श्लोक 18
अथ पर्णमृगाः तेषां गणनां (वृक्ष पर चढने वाले प्राणी)
वनौका वृक्षमार्जारो वृक्षमर्कटिकाऽदयः
एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः
श्लोक 19
स्मृताः पर्ण मृगा वृष्याश्चक्षुष्या शोषिणे हिताः श्वासार्शः कास शमनाः सृष्ट मूत्र पुरीषकाः
श्लोक 20
वर्त्तका लाववर्त्तीरकपिञ्जलकतित्तिराः कुलिङ्गकुक्कुटाद्याश्च विष्किरा समुदाहृताः
श्लोक 21
विकीर्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः
श्लोक 22
विष्किरा मधुराः शीताः कषायाः कटुपाकिनः बल्या वृष्यास्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः
श्लोक 23
कालकण्ठकहारीतकपोतशतपत्रकाः
पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः
प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः
श्लोक 24
प्रतुदा मधुराः पित्तकफघ्नास्तुवरा हिमाः लघवो बद्धवर्चस्काः किञ्चिद्वातकराःस्मृताः
श्लोक 25
काको गृध्र उलूकश्च चिल्लश्च शशघातकः चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः
श्लोक 26
प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात्
श्लोक 27
प्रसहाः खलु वीर्योष्णास्तन्मांसं भक्षयन्ति ये ते शोषभस्मकोन्मादशुक्रक्षीणा भवन्ति हि
श्लोक 28
छागमेषवृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः
ग्राम्या वातहराः सर्वे दीपनाः कफपित्तलाः
मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः
श्लोक 29
लुलायगण्डवाराहचमरीवारणादयः एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यपाम्
श्लोक 30
कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः मधुराः शीतलाः स्निग्धामूत्रलाः श्लेष्म वर्धना
श्लोक 31
हंससारसकारण्डबकक्रौञ्चशरारिकाः
श्लोक 32
नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः प्लवन्ति सलिले यस्मादेते तस्मात्प्लवाः स्मृताः
श्लोक 33
प्लवाः पित्तहराः स्निग्धा मधुरा गुखो हिमाः वात श्लेष्म प्रदाश्चापि बल शुक्र कराः सराः
श्लोक 34
शङ्खः शङ्खनखश्चापिशुक्तिशम्बूककर्कटाः जीवा एवंविधाश्चान्येकोशस्थाः परिकीर्त्तिताः
श्लोक 35
कोशस्था मधुराःस्निग्धा वातपित्तहरा हिमाः बृंहणा बहुवर्चस्का वृष्याश्च बलवर्द्धनाः
श्लोक 36
कुम्भीरकूर्मनक्राश्च गोधामकरशङ्कव घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः
श्लोक 37
पादनोऽपि च ये तेतु कोशस्थानां गुणैः समाः
श्लोक 38
मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः शकुली पृथुरोमा च स सुदर्शन इत्यपि
श्लोक 39
रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकीर्त्तिताः मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः
श्लोक 40
वातघ्ना बृंहणा वृष्या रोचका बलवर्द्धनाः मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः
श्लोक 41
हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः रसे पाके च मधुरः सुगन्धिः सन्निपातहा
श्लोक 42
एणः कषायो मधुरः पित्तासृक्कफवातहृत् संग्राही रोचनो बल्यो ज्वरप्रशमनः स्मृतः
श्लोक 43
कुरङ्गो बृंहणो बल्यः शीतलः पित्तहृद् गुरुः मधुरो वातहृद् ग्राही किञ्चित्कफकरः स्मृतः
श्लोक 44
ऋष्यो नीलाण्डकश्चापि गवयो रोझ इत्यपि गवयो मधुरो बल्यः स्निग्धोष्णः कफपित्तलः
श्लोक 45
पृषतस्तु भवेत्स्वादुर्ग्राहकः शीतलो लघुः दीपनो रोचनः श्वासज्वरदोषत्रयास्रजित्
श्लोक 46
न्यङ्कुः स्वादुर्लघुर्बल्यो वृष्यो दोषत्रयापहः
श्लोक 47
साबरं पललं स्निग्धं शीतलं गुरु च स्मृतम् रसे पाके च मधुरं कफदं रक्तपित्तहृत्
श्लोक 48
राजीवस्तु गुणैर्ज्ञेयः पृषतेन समो जनैः
श्लोक 49
मुण्डी तु ज्वरकासास्रक्षयश्वासापहो हिमः
श्लोक 50
लम्बकर्णः शशः शूली लोमकर्णो बिलेशयः
शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः
वह्निकृत्कफपित्तघ्नो वातसाधारणः स्मृतः
ज्वरातीसारशोषास्रश्वासामयहरश्च सः
श्लोक 51
सेधा तु शल्यकः श्वावित्कथ्यन्ते तद्गुणा अथ शल्यकः श्वासकासास्रशोषदोषत्रयापहः
श्लोक 52
पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः
शकुनिर्विः पतत्री च विष्किरो विकिरोऽण्डजः
धान्याङ्कुरचरा येऽत्र तेषां मांसं लघूत्तमम्
आनूपं बलकृन्मांसं स्निग्धं गुरुतरं स्मृतम्
श्लोक 53
वर्तीको वर्त्तकश्चित्रस्ततोऽन्या वर्त्तका स्मृता
वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः
सुरुच्यः शुक्रदो बल्यो वर्त्तकाऽल्पगुणा ततः
श्लोक 54
लावा विष्करवर्गेषु ते चतुर्धा मता बुधैः
श्लोक 55
पांशुलोगौरकोऽन्यस्तु पौण्ड्रको दर्भरस्तथा लावा वह्निकराः स्निग्धा गरघ्ना ग्राहका हिताः
श्लोक 56
पांशुलः श्लेष्मलस्तेषु वीर्योऽष्णोनिलनाशनः गौरोलघुतरो रूक्षो वह्निकारी त्रिदोषजित्
श्लोक 57
पौण्ड्रकः पित्तकृत्किञ्चिल्लघुर्वातकफापहः दर्भरो रक्तपित्तघ्नो हृदामयहरो हिमः
श्लोक 58
वर्त्तीको वर्त्तिचटको वार्त्तीकश्चैव स स्मृतः वर्त्तीको मधुरः शीतो रूक्षश्च कफपित्तनुत्
श्लोक 59
तित्तिरिः कृष्णवर्णः स्यात्स तु गौरः कपिञ्जलः
तित्तिरिर्बलदो ग्राही हिक्कादोषत्रयापहः
श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणैः
श्लोक 60
चटकः कलविङ्कः स्यात्कुलिङ्गः कालकण्ठकः
श्लोक 61
कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरो वेश्मचटकश्चातिशुक्रलः
श्लोक 62
कुक्कुटः कृकवाकुः स्यात्कालज्ञश्चरणायुधः ताम्रचूडस्तथा दक्षो यामनादी शिखण्डिकः
श्लोक 63
कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलहृद् गुरुः चक्षुष्यः शुक्रकफकृद् बल्यो वृष्यः कषायकः
श्लोक 64
आरण्यकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः वातपित्तक्षयवमिविषमज्वरनाशनः
श्लोक 65
हारीतो रक्तपीतः स्याद्धरितोऽपि स कथ्यते
हारीतो रूक्ष उष्णश्च रक्तपित्तकफापहः
स्वेदस्वरकरः प्रोक्तः ईषद्वातकरश्च सः