श्लोक 1
पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा शाकं षड्विधमुदृष्टं गुरुं विद्याद्यथोत्तरम्
श्लोक 2
प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च
श्लोक 3
शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम्
प्रज्ञाक्षयं च कुरुते पलितं च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः३
श्लोक 4
शाकेषु सर्वेषु वसन्ति रोगास्ते हेतवो देहविनाशनाय तस्माद् बुधः शाकविवर्जनं तु कुर्यात्तथाऽम्लेषु स एव दोषः
श्लोक 5
वास्तूकं वास्तुकं च स्यात्क्षारपत्रं च शाकराट् तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम्
श्लोक 6
प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् वास्तूकद्वितयं स्वादु क्षारं पाके कटूदितम्
श्लोक 7
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् सरं प्लीहास्रपित्तार्शः कृमिदोषत्रयापहम्
श्लोक 8
पोतक्युपोदिका सा तु मालवाऽमृतवल्लरी पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत्
श्लोक 9
अकण्ठ्या पिच्छिला निद्रा शुक्रदा रक्त पित्तजित् बलदा रुचिकृत्पथ्या बृंहणी तृप्तिकारिणी
श्लोक 10
मारिषो वाष्पको मार्ष श्वेतो रक्तश्च संस्मृतः मारिषो मधुरः शीतो विष्टम्भी पित्तनुद् गुरुः
श्लोक 11
वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित्
रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः
श्लोक 12
तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः भण्डीरस्तण्डुलीबीजो विषघ्नश्चाल्पमारिषः
श्लोक 13
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः
श्लोक 14
पानीयतण्डुलीयं तु कञ्चटं समुदाहृतम् कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु
श्लोक 15
पलक्या वास्तुकाकारा छुरिका चीरितच्छदा
श्लोक 16
पलक्या वातला शीता श्मेष्मला भेदिनी गुरुः विष्टम्भिनी मदश्वासपित्तरक्तकफापहा
श्लोक 17
नाडिकं कालशाकं च श्राद्धशाकं च कालकम्
कालशाकं सरं रुच्यं वातकृत्कफशोथहृत्
बल्यं रुचिकरं मेध्यं रक्तपित्तहरं हिमम्
श्लोक 18
पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः नाडीको रक्तपित्तघ्नो विष्टम्भो वातकोपनः
श्लोक 19
कलम्बी शतपर्वी च कथ्यन्ते तद्गुणा अथ कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी
श्लोक 20
लोणालोणी च कथिता वृहल्लोणी तु घोटिका लोणी रूक्षा स्मृता गुर्वी वातश्लेष्महरी पटुः
श्लोक 21
अर्शोघ्नी दीपनी चाम्ला मन्दाग्निविषनाशिनी घोटिकाऽम्ला सराचोष्णा वातकृत्कफपित्तहृत्
श्लोक 22
वाग्दोषव्रणगुल्मघ्नी श्वासकासप्रमेहनुत् शोथे लोचनरोगे च हिता तज्ज्ञैरुदाहृता
श्लोक 23
चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाऽम्ललोणिका अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः
श्लोक 24
चाङ्गेरी दीपनी रुच्या रुक्षोष्णा कफवातनुत् पित्तलाऽम्ला ग्रहण्यर्शः कुष्ठातीसारनाशिनी
श्लोक 25
चुक्रिका स्यात्तु पत्राम्ला रोचनी शतवेधिनी
श्लोक 26
चुक्रा त्वम्लतरा स्वाद्वी वातघ्नी कफपित्तकृत् रुच्या लघुतरा पाके वृन्ताकेनातिरोचनी
श्लोक 27
चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्रा सतिक्तका
चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा
धातुपुष्टिकरी बल्या मेध्या पिच्छिलका स्मृता
श्लोक 28
ब्राह्मी शङ्खधराऽचारी मत्स्याक्षी हिलमोचिका शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका
श्लोक 29
शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी
श्लोक 30
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः शाको जलान्विते देशे चतुष्पत्रीति चोच्यते
श्लोक 31
सुनिषण्णो हिमो ग्राही मेदोदोषत्रयापहः
श्लोक 32
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः वृष्यो रुच्योज्वरश्वासमेहकुष्ठभ्रम प्रणुत्
श्लोक 33
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम् स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत्
श्लोक 34
द्रो णपुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत् भेदनं कामलाशोथमेहज्वरहरं कटु
श्लोक 35
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत् उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत्
श्लोक 36
दद्रुघ्नपत्रं दोषघ्नमम्लं वातकफापहम् कण्डूकासक्रिमिश्वासदद्रुकुष्ठप्रणुल्लघु
श्लोक 37
सेहुण्डस्य दलं तीक्ष्णं दीपनं रेचनं हरेत् आध्मानाष्ठीलिकागुल्मशूलशोथोदराणि च
श्लोक 38
पर्पटो हन्ति पित्तास्रज्वरतृष्णाकफभ्रमान् संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः
श्लोक 39
गोजिह्वा कुष्ठमेहास्रकृच्छ्रज्वरहरी लघुः
श्लोक 40
पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु स्निग्धं वृष्यं तथोष्णं च ज्वरकासक्रिमिप्रणुत्
श्लोक 41
गुडूचीपत्रमाग्नेयं सर्वज्वरहरं लघु कषायं कटुतित्तं च स्वादुपाकं रसायनम्
श्लोक 42
बल्यमुष्णं च संग्राहि हन्याद्दोषत्रयं तृषाम् दाहप्रमेहवातासृक्कामलाकुष्ठपाण्डुताः
श्लोक 43
कासमर्दोऽरिमर्दश्च कासारिः कर्कशस्तथा कासमर्ददलं रुच्यं वृष्यं कासविषास्रनुत्
श्लोक 44
मधुरं कफवातघ्नं पाचनं कण्ठशोधनम् विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु
श्लोक 45
रुच्यं चणकशाकं स्याद् दुर्जरं कफवातकृत् अम्लं विष्टम्भजनकं पित्तनुदृन्तशोथहृत्
श्लोक 46
कलायशाकं भेदि स्याल्लघु तिक्तं त्रिदोषजित्
श्लोक 47
कटुकं सार्षपं शाकं बहुमूत्रमलं गुरु
अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत्
सक्षारलवणं तीक्ष्णं स्वादु शाकेषु निन्दितम्
श्लोक 48
अगस्तिकुसुमं शीतं चातुर्थिकनिवारणम्
नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च
पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिभिर्मतम्
श्लोक 49
कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु वातपित्तहरं शीतं रक्तपित्तक्षयप्रणुत्
श्लोक 50
शिग्रोः पुष्पं तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत्
कृमिहृत्कफवातघ्नं विद्र धिप्लीहगुल्मजित्
मधु शिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम्
श्लोक 51
शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम् प्रदरं नाशयत्येव दुःसाध्यं च न संशयः
श्लोक 52
रसे पाके च मधुरं कषायं शीतलं गुरु कफपित्तास्रजिद् ग्राहि वातलं च प्रकीर्त्तितम्
श्लोक 53
इति पुष्पशाकानि
अथ फलशाकानि
कूष्माडं स्यात्पुष्पफलं पीतपुष्पं बृहत्फलम्
श्लोक 54
कूष्माण्डं बृंहणं वृष्यं गुरु पित्तास्रवातनुत् बालं पित्तापहं शीतं मध्यमं कफकारकम्
श्लोक 55
बृद्धंनातिहिमं स्वादु सक्षारं दीपनं लघु बस्तिशुद्धिकरं चेतोरोगहृत्सर्वदोषजित्
श्लोक 56
कूष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता
कर्कारुग्राहिणी शीता रक्तपित्तहरा गुरुः
पक्वा तिक्ताऽग्निजननी सक्षारा कफवातनुत्
श्लोक 57
अलाबूः कथिता तुम्बी द्विधा दीर्घा च वर्तुला
श्लोक 58
मिष्टतुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु वृष्यं रुचिकरं प्रोक्तं धातु पुष्टिविवर्धनम्
श्लोक 59
इक्ष्वाकुः कटुतुम्बी स्यात्सा तूम्बी च महाफला
कटुतुम्बी हिमा हृद्या पित्तकासविषापहा
तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत्
श्लोक 60
एर्वारुः कर्कटी प्रोक्ता कथ्यन्ते तद्गुणा अथ
श्लोक 61
कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः रुच्या पित्तहरा सामा पक्वा तृष्णाऽग्निपित्तकृत्