अष्टाङ्गसंग्रहः सूत्रस्थानम् षष्ठोऽध्यायः contd.

श्लोक 74

सक्षीरशाकपीयूषा रोचना वह्निसादनाः।
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः॥

श्लोक 75

विद्याद्दधिघृतादीनां गुणदोषान् यथा पयः।
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे॥
इति क्षीरवर्गः।

श्लोक 76

इक्षोः सरो गुरुः स्निग्धो वृंहणः कफमूत्रकृत्॥

श्लोक 77

वृष्यः शीतः पवनजित् भुक्ते वातप्रकोपनः।
रक्तपित्तप्रशमनः स्वादुपाकरसो रसः॥

श्लोक 78

सोऽग्रे सलवणो दन्तपीडितः शर्करासमः।
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्॥

श्लोक 79

किञ्चित् कालविधृत्या च विकृतिं याति यान्त्रिकः।
विदाही गुरु विष्टम्भी तेनासौतत्र पौण्ड्रकः।
शैत्यप्रसादमाधुर्याद्वरस्तमनुवांशिकः॥

श्लोक 80

शातपर्वककान्तारनैपालाद्यास्ततः क्रमात्।
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः॥

श्लोक 81

फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्।
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृत् गुडः॥

श्लोक 82

प्रभूतक्रिमिमज्जासृङ्भेदोमांसकफोऽपरः।
हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत्॥

श्लोक 83

वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः।
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः॥

श्लोक 84

तद्गुणा तिक्तमधुरा कषाया याषशर्करा।
त्रिदोषघ्नी सिता काशेषुदर्भच्छदसम्भवा॥

श्लोक 85

दाहतृट्च्छर्दिमूर्च्छासृक्तिपत्तघ्नः सर्वशर्कराः।
शर्करेक्षुविकाराणां फाणितं च वरावरे॥

श्लोक 86

चक्षुष्यं च्छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्।
कुष्ठमेहकृमिच्छर्दिश्वासकासातिसारजित्॥

श्लोक 87

व्रणशोधनसन्धानरोपणं वातलं मधु।
रूक्षं कषायमधुरम् तत्तुल्या मधुशर्करा॥

श्लोक 88

उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्।
विषान्वयत्वेन विषपुष्पेभ्योऽपि यतो मधु॥

श्लोक 89

कुर्वते ते स्वयं यच्च सविषा भ्रमरादयः।
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते॥

श्लोक 90

अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते।
गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु॥

श्लोक 91

न हि कष्टतमं किञ्चित्तदजीर्णाद्यतो नरम्।
उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम्॥

श्लोक 92

नानाद्रव्यात्मकत्वाच्च्च योगवाहि परं मधु।
वृष्ययोगैरतो युक्तं वृषतामनुवर्तते॥

श्लोक 93

भ्रामरं पौष्पिकं क्षौद्रं माक्षिकं च यथोत्तरम्।
वरं जीर्णं च तेष्वन्त्ये द्वे एव ह्युपयोजयेत्॥
इति इक्षु वर्गः।

श्लोक 94

तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च।
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च॥

श्लोक 95

कृशानां बृंहणायालं स्थूलानां कर्शनाय च।
बद्धविट्कं क्रिमिघ्नं च संस्कारात्सर्वरोगजित्॥

श्लोक 96

तैलप्रयोगादजरा निर्विकारा जितश्रमाः।
आसन्नतिबला युद्धे दैत्याधिपतयः पुरा॥

श्लोक 97

सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु।
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्॥

श्लोक 98

रुक्छोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति॥

श्लोक 99

उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्।
दन्तीमूलकरक्षोघ्नकरञ्जारिष्टशिग्रुजम्॥

श्लोक 100

सुवर्चलेड्गुदीपीलुशाङ्खिनीनीपसम्भवम्।
सरलागरुदेवाह्वशिंशपासारजन्म च॥

श्लोक 101

तुवरारुष्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत्।
अर्शःकुष्ठक्रिमिश्लेष्मशुक्रमेदोनिलापहम्॥

श्लोक 102

करञ्जनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत्।
कषायतिक्तकटुकं सारलं व्रणणोधनम्॥

श्लोक 103

भृशोष्णतीक्ष्णकटुके तुवरारुष्करोद्भवे।
विशेषात् क्रिमिकुष्ठघ्ने तथोर्ध्वाधोविरेचने॥

श्लोक 104

अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम्।
त्रपुसोर्वारुकूष्माण्डश्लेष्मातकप्रियालजम्॥

श्लोक 105

वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम्।
पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम्॥

श्लोक 106

तिलतैलं वरं तेषु कौसुम्भमवरं परम्।
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ॥

श्लोक 107

मांसानुगस्वरूपौ च विद्यान्मेदोपि ताविव।
बौलूकी सौकरी पाकहंसजा कुक्कुटोद्भवा॥

श्लोक 108

वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा।
काकमद्गु वसा तद्वत् कारण्डोत्था च निन्दिता॥

श्लोक 109

दीपनं रोचनं मद्यं तीक्ष्णोक्ष्णं तुष्टिपुष्टिदम्।
सत्वादुतिक्तकटुकमम्लपाकरसं सरम्॥

श्लोक 110

सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु।
नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम्॥

श्लोक 111

कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्।
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा॥

श्लोक 112

गुरु तद्दोषजननं नवं जीर्णमतोऽन्यथा।
पेयं नोष्णोपचरेण न विरिक्तक्षुधातुरैः॥

श्लोक 113

नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा।
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः॥

श्लोक 114

सुरनिलघ्नी मेदोसृक्स्तन्यमूत्रकफावहा।
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च॥

श्लोक 115

शूलकासवमिश्वासविबन्धाध्मानपीनसान्।
शूलप्रवाहिकाटोपतृष्णाशोफार्शसां हितः॥

श्लोक 116

जगलः पाचनो ग्राही रूक्षस्तद्वच्च मेदकः।
बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः॥

श्लोक 117

नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा।
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते॥

श्लोक 118

विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला।
कौहली बृंहणी गुर्वी श्लेष्मलस्तु मधूलकः॥

श्लोक 119

यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः।
ग्रहणीपाण्डुकुष्ठार्शः शोषशोफोदरज्वरान्॥

श्लोक 120

हन्ति गुल्माक्रिमिफीहः कषायकटुवातलः।
मार्द्विकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्॥

श्लोक 121

अल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम्।
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु॥

श्लोक 122

शार्करः सुरभिः त्वादुर्हृद्यो नातिमदो मघुः।
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः॥

श्लोक 123

वातपित्तकरः शीधुः स्नेहश्लेष्मविकारहा।
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः॥

श्लोक 124

च्छेदि मध्वासवस्तीक्ष्णो मेहपीनसकासजित्।
सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णोऽनिलापहः॥

श्लोक 125

मैरेयो मधुरो हृष्यः सरः सन्तर्पणो गुरुः।
धातक्यभिषुतो जीर्णो रूक्षो रोचनदीपनः॥

श्लोक 126

द्राक्षासवो मधुसमः परमं स तु दीपनः।
मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः॥

श्लोक 127

समासादासवो हृद्यो वातलः सौषधानुगः।
द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः॥

श्लोक 128

मद्याकरा यत्तेभ्योऽन्यत्तन्मद्यप्रतिरूपकम्।
गुणैर्यथोद्बणैर्विद्यान्मद्यमाकरसङ्करात्॥

श्लोक 129

रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्।
विदाहि भृशतीक्ष्णोक्ष्णं हृद्यं रुचिकरं सरम्॥

श्लोक 130

दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्।
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्॥

श्लोक 131

कन्दमूलफलाद्यांश्च तद्वद्विद्यात्तदासुतान्।
शाण्डाकी चाऽसुतं चान्यत् कालाम्लं रोचनं लघु॥

श्लोक 132

धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम्।
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्॥

श्लोक 133

शस्तमास्थापने हृद्यं लघु वातकफापहम्।
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके॥

श्लोक 134

क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे।
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते॥
इति मद्यवर्गः।

श्लोक 135

मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु॥

श्लोक 136

क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान्।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु॥

श्लोक 137

विरेकास्थापनालेपस्वेदादिषु च पूजितम्।
दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम्॥

श्लोक 138

श्वासकासहरं च्छागं पूरणात् कर्णशूलजित्।
दद्यात् क्षारे किलासे च गजवाजिसमुद्भवम्॥

श्लोक 139

हन्त्युन्मादमपस्मारं क्रिमीन्मेहञ्च रासभम्।
कषायतिक्तमेतेषां हिध्माश्वासहरं शकृत्॥

श्लोक 140

मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत्।
प्रसहानामपस्मारमुन्मादञ्च नियच्छति॥

श्लोक 141

महामृगसमुद्भूतं कुष्ठहृज्जलचारिणाम्।
नेत्ररोगहरं पित्तं प्रवृद्धं च नियच्छति॥

श्लोक 142

पित्तं तिक्तं विषहरं रोचना कफवातजित्।
तिक्ता पाप्माहरामूत्रं मानुषं तु विषापहम्॥

श्लोक 143

तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्।
इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः॥
इति षष्ठोऽध्यायः