अष्टाङ्गसंग्रहः सूत्रस्थानम् षष्ठोऽध्यायः

श्लोक 1

अथातोद्रवद्रव्यविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्।
तन्वव्यक्तरसं मृष्टं शीतं शुच्यमृतोपमम्॥

श्लोक 3

सूर्योध्दृतप्रमुक्तत्वाल्लघु वातकंफापहम्।
शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित्॥

श्लोक 4

गङ्गाम्बु नभसो भ्रष्टं त्वर्केन्दुमारुतैः।
हिताहितत्वे तत् भूयो देशकालावपेक्षते॥

श्लोक 5

येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम्।
अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा॥

श्लोक 6

सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना।
खातधौतशिलापृष्ठवस्त्रादिभ्यश्च्युतं जलम्॥

श्लोक 7

हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत्।
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्॥

श्लोक 8

श्वेते कषायं तत्स्वादु कृष्णे तिक्तं च पाण्डुरे।
नीले कषायमधुरं देशे लवणमूषरे॥

श्लोक 9

सक्षारं कपिले मिश्रं मिश्रेऽथाम्बुगुणाधिके।
मधुरं लवणाम्लं तु भवेत्भूमिगुणाधिके॥

श्लोक 10

तेजोधिके तिक्तकटु कषायं पवनाधिके।
दिव्यानुकारि त्वव्यक्तरसत्वात् खगुणाधिके॥

श्लोक 11

शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतम्।
कौपसारसताटाकचौण्डप्रास्रवणौद्भिदम्॥

श्लोक 12

वापीनदीतोयमिति तत् पुनः स्मृतमष्टधा।
सक्षारं पित्तकृत् कौपं दीपनान्नातिवातलम्॥

श्लोक 13

सारसं स्वादु लघु च ताटाकं गुरु वातलम्।
चौण्डं तु पित्तलं दोषहरं प्रास्रवणोदकम्॥

श्लोक 14

औद्भिदं स्वादु पित्तघ्नं स्वादु वापीजलं गघु।
नादेयं वातलं रूक्षं कटुकं च तदादिशेत्॥

श्लोक 15

धन्वानूपमहीध्राणां सामीप्यात् गुरुलाघवम्।
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः॥

श्लोक 16

पथ्याः समासात्ता नद्यो विपरीतास्ततोऽन्यथा।
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः॥

श्लोक 17

हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिताः।
क्रिमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते॥

श्लोक 18

प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः।
उदरश्लीपदातङ्कान् सह्यविन्ध्यभवाः पुनः॥

श्लोक 19

कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः।
बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत्॥

श्लोक 20

कीटाहिमूत्रविट्कोथतृणजालोत्कराविलम्।
पङ्कपङ्कजशैवालहठपर्णादिसंस्तृतम्॥

श्लोक 21

सूर्येन्दुपवनादृष्टं जुष्टं च क्षुद्रजन्तुभिः।
अभिवृष्टं विवर्णं च कलुषं स्थूलफेनिलम्॥

श्लोक 22

विरसं गन्धवत्तप्तं दन्तग्राह्यतिशैत्यतः।
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्॥

श्लोक 23

लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्।
तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान्॥

श्लोक 24

कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः।
तद्वर्जयेदभवे वा तोयस्यान्यस्य शस्यते॥

श्लोक 25

घनवस्त्रपरिस्रावैः क्षुद्रजन्त्वभिरक्षणम्।
व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः॥

श्लोक 26

पर्णीमूलबिसग्रन्थिमुक्ताकतकशैवलैः।
वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम्॥

श्लोक 27

पाटलाकरवीरादिकुसुमैर्गन्धनाशनम्।
पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे॥

श्लोक 28

अजीर्णे क्वथितं चा++आमे पक्वे जीर्णेऽपि नेतरत्।
शीते विधिरयं तप्ते त्वजीर्णे शिशिरं त्यजेत्॥

श्लोक 29

पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्।
अतोऽत्यन्तनिषेधेन न क्वचिद्वारि वार्यते॥

श्लोक 30

आस्यशोषाङ्गसादाद्या मृत्युर्वा तदलाभतः।
न हि तोयाद्विना वृत्तिः स्वस्थस्य व्याधितस्य वा॥

श्लोक 31

केवलं सौषधं पक्वमाममुष्णं हितं च तत्।
समीक्ष्य मात्रया युक्तममृतं विषमन्यया॥

श्लोक 32

अतियोगेन सलिलं तृष्यतोऽपि प्रयोजितम्।
प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः॥

श्लोक 33

वर्धयत्यामतृण्निद्रातन्द्राध्मानाङ्गगौरवम्।
कासाग्निसादहृल्लासप्रसेकश्वासपीनसान्॥

श्लोक 34

पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितम्।
तस्मादयोगपानेन लाघवान्न वियोजयेत्॥

श्लोक 35

आमविष्टब्धयोः कोष्णं निष्पिपासोऽप्यपः पिबेत्।
यावत्यः क्लेदयन्त्यन्नमतिक्लेदोऽग्निनाशनः॥

श्लोक 36

विबद्धः कफवाताभ्यां मुक्तामाशयबन्धनः।
पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः॥

श्लोक 37

अनव्बस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च।
नाल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत्॥

श्लोक 38

तेजसः प्रतिपक्षत्वान्मन्दाग्निर्वर्जयेज्जलम्।
सर्वमेव तथा स्यन्दप्लीहविद्रधिगुल्मिनः॥

श्लोक 39

पाण्डूदरातिसारार्शोग्रहणीशोषशोफिनः।
काममल्पमशक्तौ तु पेयमौषधसंस्कृतम्॥

श्लोक 40

ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः।
भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम्॥

श्लोक 41

अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात् कफम्।
मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम्॥

श्लोक 42

शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान्।
तृष्णोष्णदाहपित्तासृग्विषाणि च निहन्ति तत्॥

श्लोक 43

क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात्।
क्वथितं फेनरहितमवेगममलं हितम्॥

श्लोक 44

हिध्माध्मानानिलश्लेष्मतृट्कासश्वासपीनसे।
पार्श्वशूलाममेदस्सु सद्यःशुद्धौ नवज्वरे॥

श्लोक 45

दीपनं पाचनं कण्ठ्यं लघु बस्तिविशोधनम्।
पाषाणरूप्यमृद्धेमजतुतापार्कतापितम्॥

श्लोक 46

पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडरितिजित्।
लघ्वरूक्षं क्लमघ्नञ्च तोयंक्वथितशीतलम्॥

श्लोक 47

संसर्गे पित्तकफयोः सन्निपाते च शस्यते।
तोयं वन्हिगुणभ्रष्टं पाकेऽम्लं सर्वदोषकृत्॥

श्लोक 48

भवेत् पर्युषितं तच्च तोयं हिमकरोद्भवम्।
अतिशैत्यगुरुस्थैर्यङ्घातैः कफवातकृत्॥

श्लोक 49

चन्द्रकान्तभवं रक्षोविषपित्तज्वरापहम्।
दृष्टिमेधावपुस्थैर्यकरं स्वादु हिमं लघु॥

श्लोक 50

नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु।
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम्।
दिव्यं वारि वरं वर्षे नादेयमवरं॥
इति तोयवर्गः।

श्लोक 51

स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलं॥

श्लोक 52

प्रायः पयः अत्र गव्यं तु जीवनीयं रसायनम्।
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्॥

श्लोक 53

श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः।
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्॥

श्लोक 54

हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्।
अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु॥

श्लोक 55

आजं शोषज्वरश्वासरक्तपित्तातिसारजित्।
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु॥

श्लोक 56

शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्।
मानुषं वातपित्तासृग्भिघाताक्षिरोगजित्॥

श्लोक 57

तर्पणाश्च्योतनैर्नस्यैः अहृद्यं तूष्णमाविकम्।
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्॥

श्लोक 58

हस्तिन्याः स्थैर्यकृत् बाढं उष्णं त्वैकशफं लघु।
शाखावातहरं साम्ललवणं जडताकरम्॥

श्लोक 59

पयोऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा।
भवेत् गरीयोऽतिशृतं धारोष्णममृतोपमम्॥

श्लोक 60

पिण्याकाम्लाशिनीनां तु गुर्वभिष्यन्दि तत् भृशम्।
अचेष्टया च प्रादोषात् गरीयः स्मृतमौषसम्॥

श्लोक 61

व्याख्यातस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि।
ह्रस्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत्॥

श्लोक 62

अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्।
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्॥

श्लोक 63

रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे।
पीनसे मूत्रकुछ्रे च रूक्षं तु ग्रहणीगदे॥

श्लोक 64

नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न।
नामुद्गसूपं नाक्षौद्रं नाघृतं नासितोपलम्॥

श्लोक 65(1)

न चानामलकं नापि नित्यं नो मन्दमन्यथा।
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयप्रदम्॥

श्लोक 65(2)

तक्रं लघु कषायाम्लं दीपनं कफवातजित्।
शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः॥

श्लोक 66

गुल्मप्लीहघृतव्यापद्गरपाण्ड्वामयान् जयेत्।
तद्वन्मस्तु सरं स्रोतश्शोधि विष्टम्भजिल्लघु॥

श्लोक 67

शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतं।
यक्ष्मार्शोर्द्दितपित्तासृग्वातजिद् ग्राहि दीपनम्॥

श्लोक 68

क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित्।
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्॥

श्लोक 69

बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्।
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्॥

श्लोक 70

वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्।
स्नेहानामुत्तमं शीतं वयसः स्थापनं घृतम्॥

श्लोक 71

सहस्रवीर्यं विधिभिः शृतं कर्मसहस्रकृत्।
मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान्॥

श्लोक 72

पुराणं जयति व्याधीन् व्रणशोधनरोपणम्। पूर्वोक्तांश्चाधिकान् कुर्यात् गुणांस्तदमृतोपमम्॥

श्लोक 73

तद्वच्च घृतमण्डोऽपि रुक्षस्तीक्ष्णस्तनुश्च सः।
कीलाटदधिकूचीकातक्रपिण्डकमोरटाः॥