अष्टाङ्गहृदयम्/उत्तरस्थानम् Adhyaay 6

श्लोक 1

उन्मादाः षट् पृथग्-दोष-निचयाधि-विषोद्भवाः ।
उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः ॥ १ ॥

श्लोक 2

शारीर-मानसैर् दुष्टैर् अ-हिताद् अन्न-पानतः ।
विकृता-सात्म्य-स-मलाद् विषमाद् उपयोगतः ॥ २ ॥

श्लोक 3

शारीर-मानसैर् दोषैर् विकृता-सात्म्य-स-मल-विषमाद् उपयोगतः विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् ।
क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात् ॥ ३ ॥

श्लोक 4

व्याधि-वेग-समुद्भवात् व्याधि-वेग-समुद्भ्रमात् आधिभिर् चित्त-विभ्रंशाद् विषेणोपविषेण च ।
एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः ॥ ४ ॥

श्लोक 5

विषेणोपविषेण वा एभिर् विहीन-सत्-त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् ।
उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात् ॥ ५ ॥

श्लोक 6

देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वद् रथः ।
भ्रमत्य् अ-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता ॥ ६ ॥

श्लोक 7

देही दुःख-सुख-भ्रष्टो अ-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् ।
गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च ॥ ७ ॥

श्लोक 8

अ-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः ।
आस्यात् फेनागमो ऽजस्रम् अटनं बहु-भाषि-ता ॥ ८ ॥

श्लोक 9

अभीक्ष्णं वेणु-वीणादि- आस्येन वेणु-वीणादि-शब्दादि-करणं मुहुः अटनं बहु-भाषितम् अलङ्कारो ऽन्-अलङ्कारैर् अ-यानैर् गमनोद्यमः ।
गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता ॥ ९ ॥

श्लोक 10

तल्-लाभे वावमान-ता तल्-लाभेष्व् अवमान-ता उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः ।
पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः ॥ १० ॥

श्लोक 11

उत्पीडितारुणाक्षि-त्वं शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता ।
अ-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम् ॥ ११ ॥

श्लोक 12

नेत्र-त्वक्-पीत-वर्ण-ता अ-सति ज्वलने ज्वाला अ-सत्य-ज्वलनोल्कादि- कफाद् अ-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता ।
स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः ॥ १२ ॥

श्लोक 13

बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने ।
उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते ॥ १३ ॥

श्लोक 14

सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् ।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥ १४ ॥

श्लोक 15

संनिपातात् तद्-आत्मकम् धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् ।
पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥ १५ ॥

श्लोक 16

रोदित्य् अ-कस्मान् म्रियते तद्-गुणान् बहु मन्यते ।
शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते ॥ १६ ॥

श्लोक 17

रोदित्य् अ-कस्मात् स्मयते विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः ।
वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥ १७ ॥

श्लोक 18

नष्ट-च्छायो ऽ-बलेन्द्रियः अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् ।
पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम् ॥ १८ ॥

श्लोक 19

कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् ।
स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम् ॥ १९ ॥

श्लोक 20

कफ-पित्तोद्भवे ऽप्य् आदौ स्निग्ध-स्विन्नस्य वस्तींश् च शिरसश् च विरेचनम् तथास्य शुद्ध-देहस्य प्रसादं लभते मनः ।
इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥ २० ॥

श्लोक 21

तथैव शुद्ध-देहस्य हर्षणाश्वासनोत्त्रास-भय-ताडन-तर्जनम् ।
अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः ॥ २१ ॥

श्लोक 22

धूमान् पानं च सर्पिषः युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः ।
हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् घृताढकम् ॥ २२ ॥

श्लोक 23

सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् ।
द्वौ प्रस्थौ स्व-रसाद् ब्राह्म्या घृत-प्रस्थं च साधितम् ॥ २३ ॥

श्लोक 24

व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः ।
स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः ॥ २४ ॥

श्लोक 25

व्योष-श्यामा-त्रिवृद्-बिम्बी- सातला-कृमिजित्-कल्कैः सर्वैस् तैर् अक्ष-संमितैः पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् ।
उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम् ॥ २५ ॥

श्लोक 26

वाक्-स्वर-स्मृति-मेधा-कृद् धन्यं ब्राह्मी-घृतं स्मृतम् ।
वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः ॥ २६ ॥

श्लोक 27

वरा-विशालाकौत्पला-वरा-विशाला-पत्त्रैला- द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः ।
बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-दाडिमैः ॥ २७ ॥

श्लोक 28

वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः ।
स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत् ॥ २८ ॥

श्लोक 29

मालती-कुमुदोत्पलैः रुदन्ती-पद्मक-हिमैः प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु ।
पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे ॥ २९ ॥

श्लोक 30

कासापस्मार-पाप्म-जित् पाण्डु-कण्डू-विषे शोफे अ-रेतस्य् अ-प्रजसि वा दैवोपहत-चेतसि ।
अ-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके ॥ ३० ॥

श्लोक 31

अ-रेतस्य् अल्प-रजसि बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् ।
कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च ॥ ३१ ॥

श्लोक 32

एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् ।
रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम् ॥ ३२ ॥

श्लोक 33

गृष्टि-क्षीरे चतुर्-गुणे गृष्टि-क्षीरं चतुर्-गुणम् वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः ।
शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम् ॥ ३३ ॥

श्लोक 34

वीरर्द्धि-मेदा-काकोली- महा-कल्याणकं स्मृतम् बृंहणं संनिपात-घ्नं पूर्वस्माद् अधिकं गुणैः ।
जटिला पूतना केशी चारटी मर्कटी वचा ॥ ३४ ॥

श्लोक 35

त्रायमाणा जया वीरा चोरकः कटु-रोहिणी ।
वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥ ३५ ॥

श्लोक 36

अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुली-द्वयम् ।
कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥ ३६ ॥

श्लोक 37

कटम्भरा-वृश्चिकाली-स्थिराश् चाहृत्य तैर् घृतम् सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् ।
महा-पैशाचकं नाम घृतम् एतद् यथामृतम् ॥ ३७ ॥

श्लोक 38

सिद्धं चतुर्थकोन्माद- सिद्धं चातुर्थकोन्माद- बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् ।
ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥ ३८ ॥

श्लोक 39

स्मृति-बुद्धि-करं चैव बालानाम् अङ्ग-वर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् ।
ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम् ॥ ३९ ॥

श्लोक 40

रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता ।
वर्तिर् नस्याञ्जनालेप-धूपैर् उन्माद-सूदनी ॥ ४० ॥

श्लोक 41

काच्छीं च हस्ति-मूत्रेण सौराष्ट्रीं बस्त-मूत्रेण -धूपैर् उन्माद-नाशिनी अवपीडाश् च विविधाः सर्षपाः स्नेह-संयुताः ।
कटु-तैलेन चाभ्यङ्गो ध्मापयेच् चास्य तद् रजः ॥ ४१ ॥

श्लोक 42

स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः ।
शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः ॥ ४२ ॥

श्लोक 43

स-हिङ्गु तीक्ष्ण-धूमश् च -जलूका-वृष-बस्त-जैः -जलौका-वृक-बस्त-जैः मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् ।
धूप-धूमाञ्जनाभ्यङ्ग-प्रदेह-परिषेचनम् ॥ ४३ ॥

श्लोक 44

धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः ।
वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ ४४ ॥

श्लोक 45

तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः ।
शीतानि चान्न-पानानि मधुराणि लघूनि च ॥ ४५ ॥

श्लोक 46

विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेद् एवं मुच्यते मति-विभ्रमात् ॥ ४६ ॥

श्लोक 47

विध्येत् सिरां यथोक्तां च प्रक्षिप्या-सलिले कूपे शोषयेद् वा बुभुक्षया ।
आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः ॥ ४७ ॥

श्लोक 48

आश्वासयेत् सुहृद्भिस् तं ब्रूयाद् इष्ट-विनाशं वा दर्शयेद् अद्भुतानि वा ।
बद्धं सर्षप-तैलाक्तं न्यसेद् वोत्तानम् आतपे ॥ ४८ ॥

श्लोक 49

ब्रूयाद् इष्टस्य नाशं वा न्यस्तं चोत्तानम् आतपे कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् ।
कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥ ४९ ॥

श्लोक 50

बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे ।
सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम् ॥ ५० ॥

श्लोक

त्रासयेच् छस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥ ५०+(१)अब् ॥

श्लोक 51

ब्व् तस्करैः शत्रुभिस् तथा अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् ।
भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥ ५१ ॥

श्लोक 52

देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥ ५२ ॥

श्लोक 53

सर्वतो ऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया ।
इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते ॥ ५३ ॥

श्लोक 54

सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् ।
काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान् ॥ ५४ ॥

श्लोक 55

तस्य तत्-सदृश-प्राप्तिः -सान्त्वाश्वासैः प्रसादयेत् -प्रियाश्वासैः प्रदर्शयेत् सान्त्वाश्वासैः शमं नयेत् परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् ।
भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम् ॥ ५५ ॥

श्लोक 56

भूतानुबद्धम् ईक्षेत यद्य् उन्मादे ततः कुर्याद् भूत-निर्दिष्टम् औषधम् ।
बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम् ॥ ५६ ॥

श्लोक 57

यद्य् उन्मादे च तत् कुर्याद् स्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् ।
पक्वामकानि मांसानि सुरां मैरेयम् आसवम् ॥ ५७ ॥

श्लोक 58

पक्वामाह्वानि मांसानि सुरा-मैरेयम् आसवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।
चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च ॥ ५८ ॥

श्लोक 59

निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते ॥ ५९ ॥

श्लोक 60

निवृत्तामिष-मद्यो ऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा ।
धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम् ॥ ६० ॥
इन्द्रियाणां प्रसन्न-त्वं गतोन्मादस्य लक्षणम्