अष्टाङ्गहृदयम्/निदानस्थानम् Adhyaay 6

श्लोक 1

तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्लं व्यवाय्य् आशु-करं लघु ।
विकाषि विशदं मद्यम् ओजसो ऽस्माद् विपर्ययः ॥ १ ॥

श्लोक 2

तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्ल-व्यवाय्य् आशु-करं लघु विकाशि विशदं मद्यम् तीक्ष्णादयो विषे ऽप्य् उक्ताश् चित्तोपप्लाविनो गुणाः ।
जीवितान्ताय जायन्ते विषे तूत्कर्ष-वृत्तितः ॥ २ ॥

श्लोक 3

तीक्ष्णादिभिर् गुणैर् मद्यं मन्दादीन् ओजसो गुणान् ।
दशभिर् दश संक्षोभ्य चेतो नयति वि-क्रियाम् ॥ ३ ॥

श्लोक 4

आद्ये मदे द्वितीये तु प्रमादायतने स्थितः ।
दुर्-विकल्प-हतो मूढः सुखम् इत्य् अधिमुच्यते ॥ ४ ॥

श्लोक 5

आद्ये मदे द्वितीये च आद्ये मदे द्वितीये स सुखम् इत्य् अभिमुच्यते सुखम् इत्य् अभिमन्यते सुखम् इत्य् अवमन्यते मध्यमोत्तमयोः संधिं प्राप्य राजस-तामसः ।
निर्-अङ्कुश इव व्यालो न किञ्-चिन् नाचरेज् जडः ॥ ५ ॥

श्लोक 6

न किं किं वाचरेज् जडः इयं भूमिर् अ-वद्यानां दौःशील्यस्येदम् आस्पदम् ।
एको ऽयं बहु-मार्गाय दुर्-गतेर् देशिकः परम् ॥ ६ ॥

श्लोक 7

इयं भूमिर् अ-विद्यानां निश्-चेष्टः शव-वच् छेते तृतीये तु मदे स्थितः ।
मरणाद् अपि पापात्मा गतः पाप-तरां दशाम् ॥ ७ ॥

श्लोक 8

धर्मा-धर्मं सुखं दुःखम् अर्थान्-अर्थं हिता-हितम् ।
यद् आसक्तो न जानाति कथं तच् छीलयेद् बुधः ॥ ८ ॥

श्लोक 9

मद्ये मोहो भयं शोकः क्रोधो मृत्युश् च संश्रिताः ।
सोन्माद-मद-मूर्छायाः सापस्मारापतानकाः ॥ ९ ॥

श्लोक 10

यत्रैकः स्मृति-विभ्रंशस् तत्र सर्वम् अ-साधु यत् ।
अ-युक्ति-युक्तम् अन्नं हि व्याधये मरणाय वा ॥ १० ॥

श्लोक 11

मद्यं त्रि-वर्ग-धी-धैर्य-लज्जादेर् अपि नाशनम् ।
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥ ११ ॥

श्लोक 12

स्निग्धाः सत्-त्व-वयो-युक्ता मद्य-नित्यास् तद्-अन्वयाः ।
मेदः-कफाधिका मन्द-वात-पित्ता दृढाग्नयः ॥ १२ ॥

श्लोक 13

विपर्यये ऽतिमाद्यन्ति विश्रब्धाः कुपिताश् च ये ।
मद्येन चाम्ल-रूक्षेण सा-जीर्णे बहुनाति च ॥ १३ ॥

श्लोक 14

सा-जीर्णे बहुनापि च वातात् पित्तात् कफात् सर्वैश् चत्वारः स्युर् मदात्ययाः ।
सर्वे ऽपि सर्वैर् जायन्ते व्यपदेशस् तु भूयसा ॥ १४ ॥

श्लोक 15

सामान्यं लक्षणं तेषां प्रमोहो हृदय-व्यथा ।
विड्-भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरो ऽ-रुचिः ॥ १५ ॥

श्लोक 16

प्रमोहो हृदये व्यथा शिरः-पार्श्वास्थि-रुक्-कम्पो मर्म-भेदस् त्रिक-ग्रहः ।
उरो-विबन्धस् तिमिरं कासः श्वासः प्रजागरः ॥ १६ ॥

श्लोक 17

शिरः-पार्श्वास्थि-रुक्-स्तम्भो स्वेदो ऽति-मात्रं विष्टम्भः श्वयथुश् चित्त-विभ्रमः ।
प्रलापश् छर्दिर् उत्क्लेशो भ्रमो दुः-स्वप्न-दर्शनम् ॥ १७ ॥

श्लोक 18

विशेषाज् जागर-श्वास-कम्प-मूर्ध-रुजो ऽनिलात् ।
स्वप्ने भ्रमत्य् उत्पतति प्रेतैश् च सह भाषते ॥ १८ ॥

श्लोक 19

पित्ताद् दाह-ज्वर-स्वेद-मोहातीसार-तृड्-भ्रमाः ।
देहो हरित-हारिद्रो रक्त-नेत्र-कपोल-ता ॥ १९ ॥

श्लोक 20

श्लेष्मणा छर्दि-हृल्-लास-निद्रोदर्दाङ्ग-गौरवम् ।
सर्व-जे सर्व-लिङ्ग-त्वं मुक्त्वा मद्यं पिबेत् तु यः ॥ २० ॥

श्लोक 21

श्लेष्मणश् छर्दि-हृल्-लास- सहसान्-उचितं वान्यत् तस्य ध्वंसक-विक्षयौ ।
भवेतां मारुतात् कष्टौ दुर्-बलस्य विशेषतः ॥ २१ ॥

श्लोक 22

सहसान्-उचितं चान्यत् तस्य ध्वंसक-विट्-क्षयौ ध्वंसके श्लेष्म-निष्ठीवः कण्ठ-शोषो ऽति-निद्र-ता ।
शब्दा-सह-त्वं तन्द्रा च विक्षये ऽङ्ग-शिरो-ऽति-रुक् ॥ २२ ॥

श्लोक 23

विट्-क्षये ऽङ्ग-शिरो-ऽति-रुक् हृत्-कण्ठ-रोगः संमोहः कासस् तृष्णा वमिर् ज्वरः ।
निवृत्तो यस् तु मद्येभ्यो जितात्मा बुद्धि-पूर्व-कृत् ॥ २३ ॥

श्लोक 24

हृत्-कण्ठ-रोधः संमोहः विकारैः स्पृश्यते जातु न स शारीर-मानसैः ।
रजो-मोहा-हिताहार-परस्य स्युस् त्रयो गदाः ॥ २४ ॥

श्लोक 25

रसासृक्-चेतना-वाहि-स्रोतो-रोध-समुद्भवाः ।
मद-मूर्छाय-संन्यासा यथोत्तर-बलोत्तराः ॥ २५ ॥

श्लोक 26

मदो ऽत्र दोषैः सर्वैश् च रक्त-मद्य-विषैर् अपि ।
सक्तान्-अल्प-द्रुताभाषश् चलः स्खलित-चेष्टितः ॥ २६ ॥

श्लोक 27

रूक्ष-श्यावारुण-तनुर् मदे वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्त-पीताभः कलह-प्रियः ॥ २७ ॥

श्लोक 28

मदे वात-कृते भवेत् स्व्-अल्प-संबद्ध-वाक् पाण्डुः कफाद् ध्यान-परो ऽलसः ।
सर्वात्मा संनिपातेन रक्तात् स्तब्धाङ्ग-दृष्टि-ता ॥ २८ ॥

श्लोक 29

स्व्-अल्पा-संबद्ध-वाक् पाण्डुः पित्त-लिङ्गं च मद्येन विकृतेह-स्वराङ्ग-ता ।
विषे कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकस् तु सः ॥ २९ ॥

श्लोक 30

विषात् कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकश् च सः लक्षयेल् लक्षणोत्कर्षाद् वातादीन् शोणितादिषु ।
अरुणं कृष्ण-नीलं वा खं पश्यन् प्रविशेत् तमः ॥ ३० ॥

श्लोक 31

शीघ्रं च प्रतिबुध्येत हृत्-पीडा वेपथुर् भ्रमः ।
कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके ॥ ३१ ॥

श्लोक 32

कार्श्यं श्यावारुण-च्छाये पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत् तमः ।
विबुध्येत च स-स्वेदो दाह-तृट्-ताप-पीडितः ॥ ३२ ॥

श्लोक 33

भिन्न-विण् नील-पीताभो रक्त-पीताकुलेक्षणः ।
कफेन मेघ-संकाशं पश्यन्न् आकाशम् आविशेत् ॥ ३३ ॥

श्लोक 34

तमश् चिराच् च बुध्येत स-हृल्-लासः प्रसेक-वान् ।
गुरुभिः स्तिमितैर् अङ्गैर् आर्द्र-चर्मावनद्ध-वत् ॥ ३४ ॥

श्लोक 35

सर्वाकृतिस् त्रिभिर् दोषैर् अपस्मार इवापरः ।
पातयत्य् आशु निश्-चेष्टं विना बीभत्स-चेष्टितैः ॥ ३५ ॥

श्लोक 36

विना बैभत्स्य-चेष्टितैः दोषेषु मद-मूर्छायाः कृत-वेगेषु देहिनाम् ।
स्वयम् एवोपशाम्यन्ति संन्यासो नौषधैर् विना ॥ ३६ ॥

श्लोक 37

वाग्-देह-मनसां चेष्टाम् आक्षिप्याति-बला मलाः ।
संन्यासं संनिपतिताः प्राणायतन-संश्रयाः ॥ ३७ ॥

श्लोक 38

कुर्वन्ति तेन पुरुषः काष्ठी-भूतो मृतोपमः ।
म्रियेत शीघ्रं शीघ्रं चेच् चिकित्सा न प्रयुज्यते ॥ ३८ ॥

श्लोक 39

काष्ठ-भूतो मृतोपमः अ-गाधे ग्राह-बहुले सलिलौघ इवाटते ।
संन्यासे विनिमज्जन्तं नरम् आशु निवर्तयेत् ॥ ३९ ॥

श्लोक 40

अभिन्यासे च मज्जन्तं मद-मान-रोष-तोष-प्रभृतिभिर् अरिभिर् निजैः परिष्वङ्गः ।
युक्ता-युक्तं च समं युक्ति-वियुक्तेन मद्येन ॥ ४० ॥

श्लोक 41

बल-काल-देश-सात्म्य-प्रकृति-सहायामय-वयांसि ।
प्रविभज्य तद्-अनुरूपं यदि पिबति ततः पिबत्य् अमृतम् ॥ ४१ ॥