अष्टाङ्गसंग्रहः कल्पस्थानम् 6

श्लोक 1

अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

विबन्धगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः।
कुक्षिशूलाङ्गरुग्घिध्माहृत्पीडाकर्तनस्रवाः।
अयोगादतियोगाच्च बस्तेः स्युः षट्षडापदः॥

श्लोक 3

अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः।
शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा॥

श्लोक 4

बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्।
करोति वातविण्मूत्रविबन्धमतिदारुणम्॥

श्लोक 5

नाभिबस्तिरुनां दाहं हृल्लेपं श्वयथुं गुदे।
कण्डूं गण्डानि वैवर्ण्यमरतिं वह्निमार्दवम्॥

श्लोक 6

क्वाथद्वयं प्राग्विहितं मध्येदोषेऽतिसारिणि।
उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते।
फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्॥

श्लोक 7

बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्।
सुराविण्मूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्॥

श्लोक 8

सशेषामे निरूहेण मृदुना दोष ईरितः।
मूर्छयत्यनिलं मार्गं रुणद्ध्यग्निं हिनस्ति च॥

श्लोक 9

गौरवक्लमहृच्छूलदाहसम्मोहवेष्टनम्।
ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः॥

श्लोक 10

पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्।
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्॥

श्लोक 11

वचानागरशठ्यो वा दधिमण्डेन मूर्छिताः।
पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥

श्लोक 12

दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्।
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्।
बस्तिमस्य विदद्ध्याच्च समूत्रं दाशमूलिकम्॥

श्लोक 13

युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा।
बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात् समीरणम्॥

श्लोक 14

सविमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्।
विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्।
रूणद्धि हृदयं शूलैरितश्चेतश्च धावति॥

श्लोक 15

स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्।
बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमूत्रवान्।
सरलामरदारुभ्यां साधितं चानुवासनम्॥

श्लोक 16

बहुदोषेऽबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः।
शीतोऽल्पश्चावृतो दोषैः प्रतिहन्ति समीरणम्॥

श्लोक 17

ऊर्ध्वं सोऽनुसरन् देहं कुर्याद्वायुः शिरोरुजम्।
ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम्॥

श्लोक 18

तमुष्णतैललवणप्रदिग्धं स्विन्नमर्दितम्।
तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः।
विरेकैर्बस्तिभिश्चाशु योज्येदानुलोमिकैः॥

श्लोक 19

स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः।
उत्क्लेश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्॥

श्लोक 20

शोफं बस्तावपाने च सदनं चोरुजङ्क्षयोः।
विबद्धमारुतो जन्तुरभीक्ष्णं स प्रवाहते॥

श्लोक 21

स्वेदाभ्यङ्गनिरूहांश्च शोधनीयानुलोमिकान्।
विदध्याल्लङ्क्षयित्वा च वृत्तिं तस्य विरिक्तवत्॥

श्लोक 22

कुर्वतो वेगसंरोधं पीडितो वातिमात्रया।
अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः॥

श्लोक 23

मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्।
निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्॥

श्लोक 24

मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम्।
वीजेदाक्लमनाशाच्च प्राणायामं च कारयेत्॥

श्लोक 25

पृष्ठपार्श्वोदरं मृद्यात् करैरुष्णैरधोमुखम्।
केशेषूत्क्षिप्य धुन्वीत भाययेद्व्यालदंष्ट्रिभिः।
शस्त्रोल्कारजपुरुषैर्बस्तिरेति तथा ह्यधः॥

श्लोक 26

पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा।
प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः।
अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥

श्लोक 27

कुष्ठक्रमुककल्कं च पाययेदम्लसंयुतम्।
औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिंतसोस्यानुलोमयेत्।
गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोनुलोमनम्॥

श्लोक 28

पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः।
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः॥

श्लोक 29

बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः।
पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः।
सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्॥

श्लोक 30

बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते।
शिरस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः॥

श्लोक 31

बस्तिरत्युष्णतीक्ष्णाम्लघनोऽति स्वेदितस्य वा।
अल्पदोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः॥

श्लोक 32

अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत्।
विरेचनातियोगेन स तुल्याकृतिसाधनः॥

श्लोक 33

पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकोत्पले।
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने॥

श्लोक 34

द्राक्षायाः पक्कलोष्टस्य प्रसादे मधुकस्य वा।
विनीय सघृतं बस्तिं युञ्ज्याद्दाहेऽतियोगजे॥

श्लोक 35

स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णोऽतिमात्रकः।
दुःस्थिताय प्रणिहितो बस्तिर्दुःशोधिताय वा॥

श्लोक 36

अतिप्रवृत्तो मरुतं कोपयेत् स विमार्गगः।
करोत्यङ्गरुजां जृम्भां स्तम्भं भेदं च पर्वणाम्॥

श्लोक 37

तं तैललवणाभ्यक्तं स्वेदितं प्रस्तरादिभिः।
बिल्वकोलयवैरण्डवषार्भूबृहतीद्वयःइ॥

श्लोक 38

आस्थापयेत् ससिन्धूत्थैर्जाङ्गलैराशितं रसैः।
तैलेनानिलजिद्द्रव्यविपक्वेनानुवासयेत्॥

श्लोक 39

मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्।
कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणं च यत्॥

श्लोक 40

बलाबृहत्यादिवराकाश्मर्यफलसैन्धवैः।
सप्रसन्नारनालाम्लैस्तैलं पक्त्वानुवासयेत्॥

श्लोक 41

उष्णाम्बुनाक्षं पिप्पल्या दद्याल्लवणसंयुतम्।
धूमलेहरसक्षीरस्वेदांश्चान्नं च वातजित्॥

श्लोक 42

अतितीक्ष्णः सवातो वा न वा सम्यक्प्रपीडितः।
घट्टयेद्धृदयं बस्तिस्तत्र काशकुशोत्कटैः॥

श्लोक 43

स्यात् साम्ललवणस्कन्धकरीरबदरीनलैः।
शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनम्॥

श्लोक 44

मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णातिमात्रकः।
हृत्वा बस्तिर्मलाञ्छीघ्रं वातपित्ते प्रकोपयेत्॥

श्लोक 45

नाभिबस्तिगुदांस्ते हि कृन्ततोऽस्य मुहुर्मुहुः।
विवर्णाल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्॥

श्लोक 46

स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः।
यष्ठ्याह्वतिलकल्केन बस्तिःस्यात् क्षीरभोजिनः॥

श्लोक 47

ससर्जरसयष्ट्याह्वं जिङ्गणीकर्दमाञ्जनम्।
विनीय दुग्धे बस्तिः स्याद्व्यक्ताम्लरसभोजिनः।
पिच्छिलश्च हितो बस्तिः स्नेहश्च मधुरैः शृतः॥

श्लोक 48

बस्तिःक्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा।
गुदं लिखन् दहन् क्षिण्वन् करोत्यस्रपरिस्रवम्॥

श्लोक 49

स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः।
बहुशश्चातियोगेन मोहं गच्छति चासकृत्॥

श्लोक 50

तत्रार्द्रैः शाल्मलीपत्रैः क्षुणैराजं पयः शृतम्।
पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान्॥

श्लोक 51

वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च।
सुवर्चलोपोदकयोः कच्छुदारे च शस्यते॥

श्लोक 52

गुदे च शीतमधुरान् कुर्यात् सेकप्रलेपनान्।
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥

श्लोक 53

दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्।
तद्धि पित्तशकृद्वातान् हत्वा दाहादिकान् जयेत्॥

श्लोक 54

विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्।
युञ्ज्याद्वातिविरिक्तस्य क्षीणविट्कस्य भोजनम्।
माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्॥

श्लोक 55

आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः।
स घनातिविषाकुष्ठनतदारुवचाः पिबेत्॥

श्लोक 56

शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते।
पक्वं तत्र स्ववर्गीयो बस्तिः शेष्ठं भिषग्जितम्॥

श्लोक 57

षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति तु।
केवलैः सहषट्त्रिंशद्विद्यात् सोपद्रवांश्च तान्॥

श्लोक 58

शूलप्रवाहिकाध्मानपरिकर्तारुचिज्वरान्।
तृण्मोहदाहमूर्छादींश्चैषां विद्यादुपद्रवान्॥

श्लोक 59

तत्रामेऽन्तरपानं तु कट्वम्ललवणैर्युतम्।
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥

श्लोक 60

वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते।
स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे॥

श्लोक 61

रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः।
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः॥

श्लोक 62

शकृता वायुना वामे तेन वर्चसि वानिले।
संसृष्टेऽन्तरपानं स्यात् कट्वम्ललवणैर्युतम्॥

श्लोक 63

पित्तेनामेऽसृजा तद्वत् तयोरामेन वा पुनः।
संसृष्टयोर्भवेत् पानं सकटुस्वादुतिक्तकम्॥

श्लोक 64

तथामे कफसंसृष्टे कषायकटुतिक्तकम्।
आमेन तु कफे युक्ते कषायलवणोषणम्॥

श्लोक 65

वातेन विशि पित्ते वा विट्पित्तास्रैस्तथानिले।
स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः।
बस्तिर्वातेन रक्ते तु कार्यः स्वाद्वम्लतिक्तकः॥

श्लोक 66

शकृच्छोणितयोः पित्तशकृतोरस्रपित्तयोः।
बस्तिरन्योन्यसंसर्गे कसायस्वादुतिक्तकः॥

श्लोक 67

कफेन विशि पित्ते वा कफे विट्पित्तयोः।
कटुतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः॥

श्लोक 68

मधुरोषणतिक्तस्तु रक्ते कफविमूर्छिते।
मारुते कफसंसृष्टे कट्वम्ललवणो भवेत्।
स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे॥

श्लोक 69

त्रिचतुःपञ्चषड्योगानेवमेव विकल्पयेत्।
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥

श्लोक 70

युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्।
निरामाणां तु पञ्चानां बस्तिः षड्सिको हितः॥

श्लोक 71

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः।
शङ्खं सर्जरसं लाक्षां कत्तृणं च पलांशिकम्॥

श्लोक 72

पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्।
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्॥

श्लोक 73

कच्छुराधातकीबिल्वसमङ्गारक्तमूलिभिः।
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः॥

श्लोक 74

बालोदुम्बरकट्वङ्गसमग्गाप्लक्षपल्लवैः।
मसूरधातकीपुष्पबलाभिश्च तथा भवेत्॥

श्लोक 75

नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात्।
यथायथं यथावस्थं तासां कुर्वीत साधनम्॥
॥इति षष्ठोऽध्यायः॥