धान्यवर्गः

श्लोक 1

शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम् शिम्बीधान्यं क्षुद्र धान्यमित्युक्तं धान्यपञ्चकम्

श्लोक 2

शालयो रक्तशाल्याद्या व्रीहयः षष्टिकादयः
यवादिकं शूकधान्यं मुद्गाद्यंशिम्बिधान्यकम्
कङ्ग्वादिकं क्षुद्र धान्यं तृणधान्यञ्च तत्स्मृतम्

श्लोक 3

कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः

श्लोक 4

रक्तशालि सकलमः पाण्डुकः शकुनाहृतः सुगन्धकः कर्दमको महाशालिश्च दूषकः

श्लोक 5

पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः

श्लोक 6

इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः

श्लोक 7

शालयो मधुरा स्निग्धा बल्या बद्धाल्पवर्चसः
कषाया लघवो रुच्याः स्वर्या वृष्याश्च बृंहणाः
अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा

श्लोक 8

शालयो दग्धमृज्जाताः कषाया लघुपाकिनः सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः

श्लोक 9

कैदारा वातपित्तघ्ना गुरवः कफशुक्रलाः कषायाश्चाल्पवर्चस्का मेध्याश्चैव बलावहाः

श्लोक 10

स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि

श्लोक 11

वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः श्लेष्मलाश्चाल्पवर्चस्काः कषाया गुरवो हिमाः

श्लोक 12

वापितेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवापिताः

श्लोक 13

रोपितास्तु नवा वृष्या पुराणा लघवः स्मृताः तेभ्यस्तुरोपिता भूयः शीघ्रपाका गुणाधिकाः

श्लोक 14

छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफापहाः बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः

श्लोक 15

रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् चक्षुष्यो मूत्रलः स्वर्यः शुक्रलस्तृड्ज्वरापहः

श्लोक 16

विषव्रणश्वासकासदाहनुद् वह्निपुष्टिदः तस्मादल्पान्तरगुणाः शालयो महदादयः

श्लोक 17

वार्षिकाः कण्डिताः शुक्ला व्रीहयश्चिरपाकिनः कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि

श्लोक 18

शालामुखो जतुमुख इत्याद्या व्रीहयः स्मृताः कृष्णब्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलः

श्लोक 19

पाटलः पाटलापुष्पवर्णको ब्रीहिरुच्यते कुक्कुटाण्डाकृतिव्रीहिः कुक्कुटाण्डक उच्यते

श्लोक 20

शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः

श्लोक 21

व्रीहयः कथिताः पाके मधुरा वीर्यतो हिमाः
अल्पाभिष्यदिनो बद्धवर्चस्काः षष्टिकैः समाः
कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे

श्लोक 22

गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः

श्लोक 23

षष्टिकः शतपुष्पश्च प्रमोदकमुकुन्दकौ
महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः
एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात्

श्लोक 24

षष्टिका मधुरा शीता लघवो बद्धवर्चसः वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः

श्लोक 25

षष्टिका प्रवरा तेषां लघ्वी स्निग्धा त्रिदोषजित्

श्लोक 26

स्वाद्वी मृद्वी ग्राहिणी च बलदा ज्वरहारिणी रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे

श्लोक 27

यवस्तु सितशूकः स्यान्निःशूकोऽतियवः स्मृतः तोक्यस्तद्वत्स हरितस्ततः स्वल्पश्च कीर्त्तितः

श्लोक 28

यवः कषायो मधुरः शीतलो लेखनो मृदुः व्रणेषु तिलवत्पथ्यो रूक्षो मेधाऽग्निवर्धनः

श्लोक 29

कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः

श्लोक 30

कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत्
अस्मादतियवो न्यूनस्तोक्यो न्यूनतरस्ततः

श्लोक 31

गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः महागोधूम इत्याख्यः पश्चाद्देशात्समागतः

श्लोक 32

मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा निः शूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिघः

श्लोक 33

गोधूमः मधुरः शीतो वातपित्तहरो गुरुः कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः

श्लोक 34

जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत्

श्लोक 35

मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखः स्मृतः

श्लोक 36

शमीजाः शिम्बिजाः शिम्बीभवाः सूप्याश्च वैदलाः

श्लोक 37

वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः
वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारिणः

श्लोक 38

मुद्गो रूक्षो लघुर्ग्राही कफपित्तहरो हिमः स्वादुरल्पानिलो नेत्र्! यो ज्वरघ्नो वनजस्तथा

श्लोक 39

मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः

श्लोक 40

सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः चरकादिभिरप्युक्त एष एव गुणाधिकः

श्लोक 41

माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिलापहः स्रंसनस्तर्पणो बल्यः शुक्रलो वृंहणः परः

श्लोक 42

भिन्नमूत्रमलः स्तन्यो मेदःपित्तकफप्रदः गुदकीलार्दितश्वासपक्तिशूलानि नाशयेत्

श्लोक 43

कफपित्तकरा माषाः कफपित्तकरं दधि कफपित्तकरा मत्स्या वृन्ताकं कफपित्तकृत्

श्लोक 44

राजमाषो महामाषश्चपलश्च बलः स्मृतः राजमाषो गुरुः स्वादुस्तुवरस्तर्पणः सरः

श्लोक 45

रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः
श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः
यो महांस्तेषु भवति स एवोक्तो गुणाधिकः

श्लोक 46

निष्पावो राजशिम्बिः स्याद्वल्लकः श्वेतशिम्बिकः निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः

श्लोक 47

कषायः स्तन्यपित्तास्रमूत्रवातविबन्धकृत् विदाह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः

श्लोक 48

मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ

श्लोक 49

मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः

श्लोक 50

मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका
मसूरो मधुरः पाके संग्राही शीतलो लघुः
कफपित्तास्रजिद्रू क्षो वातलो ज्वरनाशनः

श्लोक 51

आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका

श्लोक 52

आढकी तुवरा रूक्षा मधुरा शीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्

श्लोक 53

चणको हरिमन्थः स्यात्सकलप्रिय इत्यपि
चणकः शीतलो रूक्षः पित्तरक्तकफापहः
लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः

श्लोक 54

स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः आर्द्र भृष्टो बलकरो रोचनश्च प्रकीर्त्तितः

श्लोक 55

शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः स्विन्नः पित्तकफौ हन्यात् सूपः क्षोभकरो मतः

श्लोक 56

आद्रो र्ऽतिकोमलो रुच्यः पित्तशुक्रहरो हिमः कषायो वातलो ग्राही कफपित्तहरो लघुः

श्लोक 57

कलायो वर्त्तुलः प्रोक्तः सतीनश्च हरेणुकः कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः

श्लोक 58

त्रिपुटः खण्डिकोऽपि स्यात्कथ्यन्ते तद्गुणा अथ त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम्

श्लोक 59

कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः

श्लोक 60

कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ

श्लोक 61

कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान्

श्लोक 62

हन्ति हिक्काऽश्मरीशुक्रदाहानाहान् सपीनसान् स्वेदसंग्राहको मेदोज्वरकृमिहरः सरः

श्लोक 63

तिलः कृष्णः सितो रक्तः स वन्योऽल्पतिलःस्मृतः तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः

श्लोक 64

विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः

श्लोक 65

दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमतिप्रदः
कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः
अन्ये हीनतराः प्रोक्तास्तज्ज्ञै रक्तादयस्तिलाः

श्लोक 66

अतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा

श्लोक 67

अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः उष्णा दृक्छुक्रवातघ्नी कफपित्तविनाशिनी

श्लोक 68

तुवरी ग्राहिणी प्रोक्ता लघ्वी कफविषास्रजित् तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोष्ठकृमिप्रणुत्

श्लोक 69

सर्षपः कटुकः स्नेहस्तुन्तुभश्च कदम्बकः गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते

श्लोक 70

सर्षपस्तु रसे पाके कटुः स्निग्धः सतिक्तकः तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्धनः

श्लोक 71

रक्षोहरो जयेत्कण्डूं कुष्ठकोष्ठकृमिग्रहान् यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः

श्लोक 72

राजीतु राजिका तीक्ष्णगन्धा क्षुज्जनिकाऽसुरी क्षवः क्षुताभिजनकः कृष्णीका कृष्णसर्षपः

श्लोक 73

राजिका कफपित्तघ्नी तीक्ष्णोष्णा रक्तपित्तकृत्
किञ्चित् रूक्षाऽग्निदा कण्डूकुष्ठकोष्ठकृमीन्हरेत्
अतितीक्ष्णा विशेषेण तद्वत्कृष्णाऽपि राजिका

श्लोक 74

क्षुद्र धान्यं कुधान्यं च तृणधान्यमिति स्मृतम् क्षुद्र धान्यमनुष्णं स्यात्कषायं लघु लेखनम्

श्लोक 75

मधुरं कटुकं पाके रूक्षं च क्लेदशोषकम् वातकृद् बद्धविट्कं च पित्तरक्तकफापहम्

श्लोक 76

स्त्रियां कङ्गुप्रियङ्गु द्वे कृष्णारक्ता सिता तथा पीता चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता

श्लोक 77

कङ्गुस्तु भग्नसन्धानवातकृद् बृंहणी गुरुः रूक्षा श्लेष्महराऽतीव वाजिनां गुणकृद् भृशम्

श्लोक 78

चीनाकः काककङ्गुश्च सुश्लक्ष्णः श्लक्ष्णकः स्मृतः चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद् गुणैः

श्लोक 79

श्यामाकः श्यामकः श्यामास्त्रिबीजः स्यादविप्रियः
सुकुमारो राजधान्यं तृणबीजोत्तमश्च सः
श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत्

श्लोक 80

कोद्र वः कोरदूषः स्यादुद्दालो वनकोद्र वः
कोद्र वो वातलो ग्राही हिमः पित्तकफापहः
उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्

श्लोक 81

चारुकः शरबीजः स्यात्कथ्यन्ते तद्गुणा अथ
चारुको मधुरो रूक्षो रक्तपित्तकफापहः
शीतलो लघुवृष्यश्च कषायो वातकोपनः

श्लोक 82

यवा वंशभवा रूक्षाः कषायाः कटुपाकिनः बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः

श्लोक 83

कुसुम्भबीजं वरटा सैव प्रोक्ता वरट्टिका

श्लोक 84

वरटा मधुरा स्निग्धा रक्तपित्तकफापहा कषाया शीतला गुर्वी स्यादवृष्याऽनिलापहा

श्लोक 85

गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम् गवेधुः कटुका स्वाद्वी कार्श्यकृत्कफनाशिनी

श्लोक 86

प्रसाधिका तु नीवारस्तृणान्नमिति च स्मृतम् नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत्

श्लोक 87

यावनालो हिमः स्वादुर्लोहितः श्लेष्मपित्तजित् अवृष्यस्तुवरो रूक्षः क्लेदकृत्कथितो लघुः

श्लोक 88

धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम् तत्तु वर्षोषितं पथ्यं यतो लघुतरं हि तत्

श्लोक 89

वर्षोषितं सर्वधान्यं गौरवं परिमुञ्चति न तु त्यजति वीर्यं स्वं क्रमान्मुञ्चत्यतः परम्

श्लोक 90

एतेषु यवगोधूमतिलमाषा नवा हिताः पुराणा विरसा रूक्षा न तथा गुणकारिणः