आम्रादिफलवर्गः

श्लोक 1

आम्रश्चूतो रसालश्च सहकारोऽतिसौरभः कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः

श्लोक 2

आम्रपुष्पमतीसारककफपित्तप्रमेहनुत् असृग्दुष्टिहरं शीतं रुचिकृद् ग्राहि वातलम्

श्लोक 3

आमं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत्

श्लोक 4

आम्रमामं त्वचाहीनमातपेऽतिविशोषितम् अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित्

श्लोक 5

पक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम्
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम्
कषायानुरसं वह्निश्लेश्मशुक्रविवर्द्धनम्

श्लोक 6

तदेव वृक्षसम्पक्वं गुरु वातहरं परम् मधुराम्लरसं किञ्चिद्भवेत्पित्तप्रकोपणम्

श्लोक 7

आम्रं कृत्रिमपक्वञ्च तद्भवेत्पित्तनाशनम् रसस्याम्लस्य हीनस्तु माधुर्याच्च विशेषतः

श्लोक 8

चूषितं तत्परं रुच्यं बलवीर्यकरं लघु शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम्

श्लोक 9

तद्र सो गालितो बल्यो गुरुर्वातहरः सरः अहृद्यस्तर्पणोऽतीव बृंहणः कफवर्द्धनः

श्लोक 10

तस्य खण्डं गुरु परं रोचनं चिरपाकि च मधुरं बृंहणं बल्यं शीतलं वातनाशनम्

श्लोक 11

वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम् वृष्यं वर्णकरं स्वादु दुग्धाम्र गुरु शीतलम्

श्लोक 12

मन्दानलत्वं विषमज्वरं च रक्तामयं बद्धगुदोदरं च आम्रातियोगो नयनामयं वा करोति तस्मादति तानि नाद्यात्

श्लोक 13

एतदम्लाम्रविषयं मधुराम्लपरं न तु मधुरस्य परं नेत्रहितत्वाद्या गुणा यतः

श्लोक 14

शुण्ठ्यम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च

श्लोक 15

पक्वस्य सहकारस्य पटे विस्तारितो रसः घर्मशुष्को मुहुर्दत्त आम्रावर्त्त इति स्मृतः

श्लोक 16

आम्रावर्त्तस्तृषाच्छर्दि वातपित्तहरः सरः रुच्यः सूर्यांशुभिः पाकाल्लघुश्च स हि कीर्त्तितः

श्लोक 17

आम्रबीजं कषायं स्याच्छर्द्यतीसारनाशनम् ईषदम्लञ्च मधुरं तथा हृदयदाहनुत्

श्लोक 18

आम्रस्य पल्लवो रुच्यः कफपित्तविनाशनः

श्लोक 19

आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम्

श्लोक 20

पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतम्
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि बृंहणम्
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्

श्लोक 21

राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्रकः

श्लोक 22

राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु ग्राहि रूक्षं विबन्धाध्मवातकृत्कफपित्तनुत्

श्लोक 23

कोशाम्र उक्तः क्षुद्रा म्रः कृमिवृक्षः सुकोशकः कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः

श्लोक 24

तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत्

श्लोक 25

पनशः कण्टकिफलः पलसोऽतिबृहत्फलः पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम्

श्लोक 26

तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलंभृशम् बल्यं शुक्रपदं हन्ति रक्तपित्तक्षतव्रणान्

श्लोक 27

आमं तदेव विष्टम्भि वातलं तुवरं गुरु दाहकृन्मधुरं बल्यं कफमेदोविवर्द्धनम्

श्लोक 28

पनसोद्भूतबीजानि वृष्याणि मधुराणि च गुरूणि बद्धविट्कानि सृष्टमूत्राणि संवदेत्

श्लोक 29

मज्जा पनसजो वृष्यो वातपित्तकफापहः विशेषात्पनसो वर्ज्यो गुल्मिभिर्मन्दवह्निभिः

श्लोक 30

लकुचः छुद्र पनसो लिकुचो डहुर्रित्यपि आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा

श्लोक 31

मधुरश्च तथाऽम्लञ्च दोषत्रितयरक्तकृत् शुक्राग्निनाशनं वाऽपि नेत्रयोरहितं स्मृतम्

श्लोक 32

सुपक्वं तत्तु मधुरमम्लं चानिलपित्तहृत् कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्

श्लोक 33

कदली वारणा मोचाऽम्बुसारांऽशुमतीफला मोचाफलं स्वादु शीतं विष्टम्भि कफकृद् गुरु

श्लोक 34

स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित्
पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च बृंहणम्
क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत्

श्लोक 35

माणिक्यमर्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति उक्ता गुणास्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम्

श्लोक 36

चिर्भिटं धेनुदुग्धं च तथा गोरक्षकर्कटी

श्लोक 37

चिर्भिटं मधुरं रूक्षं गुरु पित्तकफापहम् अनुष्णं ग्राहि विष्टम्भि पक्वं तूष्णञ्च पित्तलम्

श्लोक 38

नारिकेलो दृढफलो लाङ्गली कूर्चर्श्षकः तुङ्गः स्कन्धफलश्चैव तृणराजः सदाफलः

श्लोक 39

नारिकेलफलं शीतं दुर्जरं बस्तिशोधनम् विष्टम्भि बृंहणं बल्यं वातपित्तास्रदाहनुत्

श्लोक 40

विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरपित्तदोषान् तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः

श्लोक 41

तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु पिपासापित्तजित्स्वादु बस्तिशुद्धिकरं परम्

श्लोक 42

नारिकेलस्य तालस्य खर्जूरस्य शिरांसि तु कषायस्निग्धमधुरबृंहणानि गुरूणि च

श्लोक 43

कालिन्दं कृष्णबीजं स्यात्कालिङ्गञ्च सुवर्त्तुलम्
कालिन्दं ग्राहि दृक्पित्त शुक्र हृच्छीतलं गुरु
पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित्

श्लोक 44

दशाङ्गुलं तु खर्बूजं कथ्यन्ते तद्गुणा अथ

श्लोक 45

खर्बूजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम्

श्लोक 46

तेषु यच्चाम्लमधुरं सक्षारञ्च रसाद्भवेत् रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम्

श्लोक 47

त्रपुसं कण्टकिफलं सुधावासः सुशीतलम् त्रपुसं लघु नीलञ्च नवं तृट्क्लमदाहजित्

श्लोक 48

स्वादु पित्तापहं शीतं रक्तपित्तहरं परम्
तत्पक्वमम्लमुष्णं स्यात्पित्तलं कफवातनुत्
तद्बीजं मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित्

श्लोक 49

घोरण्टः पूगी पूगश्च गुवाकः क्रमुकोऽस्य तु फलं पूगीफलं प्रोक्तमुद्वेगं च तदीरितम्

श्लोक 50

पूगं गुरु हिमं रूक्षं कषायं कफपित्तजित् मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम्

श्लोक 51

आद्र रं! तद् गुर्वभिष्यन्दि वह्निदृष्टिहरं स्मृतम् स्विन्नं दोषत्रयच्छेदि दृढमध्यं तदुत्तमम्

श्लोक 52

तालस्तु लेख्यपत्रः स्यात्तृणराजो महोन्नतः

श्लोक 53

पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम् दुर्जरं बहुमूत्रञ्च तन्द्रा ऽभिष्यन्दशुक्रदम्

श्लोक 54

तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः सरः

श्लोक 55

अम्लीभूतं तदा तु स्यात्पित्तकृद्वातदोषहृत्

श्लोक 56

बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
बालं बिल्बफलं बिल्वकर्कटी बिल्वपेशिका
ग्राहिणी कफवातामशूलघ्नी बिल्वपेषिका

श्लोक 57

बालं बिल्वफलं ग्राहि दीपनं पाचनं कटु कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम्

श्लोक 58

पक्वं गुरु त्रिदोषं स्याद् दुर्जरं पूतिमारुतम् विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत्

श्लोक 59

फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम्

श्लोक 60

बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम् द्रा क्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम्

श्लोक 61

कपित्थस्तु दधित्थः स्यात्तथा पुष्पफलः स्मृतः कपिप्रियो दधिफलस्तथा दन्तशठोऽपि च

श्लोक 62

कपित्थमामं संग्राहि कषायं लघु लेखनम्
पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित्
स्यादम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम्

श्लोक 63

नारङ्गो नागरङ्गः स्यात्त्वक्सुगन्धो मुखप्रियः

श्लोक 64

नारङ्गो मधुराम्लः स्याद्रो चनो वातनाशनः अपरं त्वम्लमत्युष्णं दुर्जरं वातहृत् सरम्

श्लोक 65

तिन्दुकः स्फूर्जकः कालस्कन्धश्चासितकारकः
स्यादामं तिन्दुकं ग्राहि वातलं शीतलं लघु
पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु

श्लोक 66

तिन्दुको यस्तु कथितो जलदो दीर्घपत्रकः

श्लोक 67

कुपीलुः कुलकः काकतिन्दुकः काकपीलुकः काकेन्दुर्विषतिन्दुश्च तथा मर्कटतिन्दुकः

श्लोक 68

कुपीलुः शीतलं तिक्तं वातलं मदकृल्लघु परं व्यथाहरं ग्राहि कफपित्तास्रनाशनम्

श्लोक 69

फलेन्द्रा कथिता नन्दी राजजम्बूर्महाफला
तथा सुरभिपत्रा च महाजम्बूरपि स्मृता
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम्

श्लोक 70

क्षुद्र जम्बुः सूक्ष्मपत्रा नादेयी जलजम्बुका जम्बूः संग्राहिणी रूक्षा कफपित्तास्रदाहजित्

श्लोक 71

पुंसि स्त्रियाञ्च कर्कन्धूर्बदरी कोलमित्यपि

श्लोक 72

फेनिलं कुवलं घोण्टा सौवीरं बदरं महत् अजप्रिया कुहा कोली विषमोभयकण्टका