वटादिवर्गः

श्लोक 1

वटो रक्तफलः शृङ्गीन्यग्रोधः स्कन्धजो ध्रुवः क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः

श्लोक 2

वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत्

श्लोक 3

बोधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः
पिप्पलो दुर्जरः शीतःपित्तश्लेष्मव्रणास्रजित्
गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः

श्लोक 4

पारीषोऽन्य पलाशश्च कपिचूतः कमण्डलुः गर्दभाण्डः कन्दरालः कपीतनसुपार्श्वकौ

श्लोक 5

पारीषो दुर्जरः स्निग्धः कृमिशुक्रकफप्रदः फलेऽम्लो मधुरो मूले कषायस्वादुमज्जकः

श्लोक 6

नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः

श्लोक 7

नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः कटुपाकरसो ग्राही विषपित्तकफास्रजित्

श्लोक 8

उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः

श्लोक 9

उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित् मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः

श्लोक 10

काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला
मलयुः स्तम्भकृत्तिक्ता शीतला तुवरा जयेत्
कफपित्तव्रणश्वित्रकुष्ठपाण्ड्वर्शकामलाः

श्लोक 11

प्लक्षो जटी पर्करी च पर्कटी च स्त्रियामपि

श्लोक 12

प्लक्षः कषायः शिशिरो व्रणयोनिगदापहः दाहपित्तकफास्रघ्नः शोथहा रक्तपित्तहृत्

श्लोक 13

शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः

श्लोक 14

शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः दोषशोथविसर्पघ्नः कासव्रणविषापहः

श्लोक 15

अथ क्षीरिवृक्षपञ्चकं त्वक्पञ्चकञ्च
न्यग्रोधोदुम्बराश्वत्थपारीषप्लक्षपादपाः
पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक्पञ्चवल्कलम्

श्लोक 16

क्षीरिवृक्षा हिमा वर्ण्या योनिरोगव्रणापहाः रूक्षाः कषाया मेदोघ्ना विसर्पामथनाशनाः

श्लोक 17

शोथपित्तकफास्रघ्नाः स्तन्या भग्नास्थियोजकः त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित्

श्लोक 18

तेषां पत्रं हिमं ग्राहि कफवातास्रनुल्लघु विष्टम्भाघ्मानजित्तिक्तं कषायं लघु लेखनम्

श्लोक 19

शालस्तु सर्जकार्श्याश्वकर्णकाः शस्यशम्बरः
अश्वकर्णः कषायः स्याद् व्रणस्वेदकफक्रिमीन्
ब्रध्नविद्र धिबाधिर्ययोनिकर्णगदान् हरेत्

श्लोक 20

सर्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः

श्लोक 21

अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्

श्लोक 22

शल्लकी गजभक्ष्या च सुवहा सुरभी रसा महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा

श्लोक 23

शल्लकी तुवरा शीता पित्तश्लेष्मातिसारजित् रक्तपित्तव्रणहरी पुष्टिकृत्समुदीरिता

श्लोक 24

शिंशपा पिच्छिला श्यामा कृष्णसारा च सा गुरु कपिला सैव मुनिभिर्भस्मगर्भेतिकीर्त्तिता

श्लोक 25

शिंशपा कटुका तिक्ता कषाया शोषहारिणी
उष्णवीर्या हरेन्मेदः कुष्ठश्वित्रवमिक्रिमीन्
बस्तिरुग्व्रणदाहास्रबलासान् गर्भपातिनी

श्लोक 26

ककुभोऽजुननामाख्यो नदीसर्जश्च कीर्त्तितः इन्द्र द्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः

श्लोक 27

कुकुभः शीतलो हृद्यः क्षतक्षयविषास्रजित् मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्

श्लोक 28

बीजकः पीतसारश्च पीतशालक इत्यपि बन्धूकपुष्पः प्रियकः सर्जकश्चासनः स्मृतः

श्लोक 29

बीजकः कुष्ठवीसर्पश्वित्रमेहगुद क्रिमीन् हन्ति श्लेष्मास्रपित्तञ्च त्वच्यः केश्यो रसायनः

श्लोक 30

खदिरो रक्तसारश्च गायत्री दन्तधावनः कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः

श्लोक 31

खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत्

श्लोक 32

तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत्

श्लोक 33

खदिरः श्वेतसारोऽन्य कदरः सोमवल्कलः कदरो विशदो वर्ण्यो मुखरोगकफास्रजित्

श्लोक 34

इरिमेदो विट्खदिरः कालस्कन्धोऽरिमेदकः
इरिमेदः कषायोष्णो मुखदन्तगदास्रजित्
हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषव्रणान्

श्लोक 35

रोहीतको रोहितको रोही दाडिमपुष्पकः रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः

श्लोक 36

बब्बूलः किङ्किरातः स्यात्किङ्किराटः सपीतकः

श्लोक 37

स एव कथितस्तज्ज्ञैराभाषट्पदमोदिनी बब्बूलः कफनुद् ग्राही कुष्ठक्रिमिविषापहः

श्लोक 38

अरिष्टकस्तु मङ्गल्यः कृष्णवर्णोऽथसाधनः
रक्तबीजः पीतफेनः फेनिलो गर्भपातनः
अरिष्टकस्त्रिदोषघ्नो ग्रहजिद् गर्भपातनः

श्लोक 39

पुत्रजीवो गर्भकरो यष्टीपुष्पोऽथसाधकः

श्लोक 40

पुत्रजीवी गुरुर्वृष्यो गर्भदः श्लेष्मवातहृत् सृष्टमूत्रमलो रूक्षो हिमः स्वादुः पटुः कटुः

श्लोक 41

इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः
इङ्गुदः कुष्ठभूतादिग्रहव्रणविषक्रिमीन्
हन्त्युष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्

श्लोक 42

जिङ्गिनी झिङ्गिनी झिङ्गी सुनिर्यासा प्रमोदिनी

श्लोक 43

जिङ्गिनी मधुरा सोष्णा कषाया योनिशोधिनी कटुका व्रणहृद्रो गवातातीसारहृत् पटुः

श्लोक 44

तमाल उक्तस्तापिच्छः कालस्कन्धोऽमितद्रुमः
लोकस्कन्धो नीलध्वजो नीलतालश्च स स्मृतः
तमालः शालवद्वेद्यो दाहविस्फोटहृत् पुनः

श्लोक 45

तूणी तुन्नक आपीनस्तुणिकः कच्छकस्तथा कुठेरकः कान्तलको नन्दीवृक्षश्च नन्दकः

श्लोक 46

तूणी रक्तः कटुः पाके कषायो मधुरो लघुः तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्तजित्

श्लोक 47

भूर्जपत्रः स्मृतो भूर्जश्चर्मी बहुलवल्कलः
भूर्जो भूतग्रहश्लेष्मकर्णरुक्पित्तरक्तजित्

श्लोक 48

कषायो राक्षसघ्नश्च मेदोविषहरः परः

श्लोक 49

पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः

श्लोक 50

पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् भग्नसंधानकृद् दोषग्रहण्यर्शः क्रिमीन् हरेत्

श्लोक 51

तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम्

श्लोक 52

वातलं कफपित्तास्रकृच्छ्रजिद् ग्राहि शीतलम् तृड्दाहशमकं वातरक्तकुष्ठहरं परम्

श्लोक 53

फलं लघूष्णं मेहार्शःकृमिवातकफापहम् विपाके कटुकं रूक्षं कुष्ठं गुल्मोदरप्रणुत्

श्लोक 54

शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी

श्लोक 55

शाल्मली शीतला स्वाद्वी रसे पाके रसायनी श्लेष्मला पित्तवातास्रहारिणी रक्तपित्तजित्

श्लोक 56

निर्यासः शाल्मलेः पिच्छा शाल्मलीवेष्टकोऽपि च मोचास्रावोमोचरसो मोचनिर्यास इत्यपि

श्लोक 57

मोचास्रावो हिमो ग्राही स्निग्धो वृष्यः कषायकः प्रवाहिकाऽतिसारामकफपित्तास्रदाहनुत्

श्लोक 58

कुत्सितः शाल्मलि प्रोक्तो रोचनः कूटशाल्मलि कूटशाल्मलिकस्तिक्तः कटुकः कफवातनुत्

श्लोक 59

भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः भूतानाहविबन्धास्रमेदः शूलकफापहः

श्लोक 60

धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः
धवः शीतः प्रमेहार्शः पाण्डुपित्तकफापहः
मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक्

श्लोक 61

धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः

श्लोक 62

धन्वङ्गः कफपित्तास्रकासहृत्तुवरो लघुः बृंहणो बलकृद्रू क्षः सन्धिकृद् व्रणरोपणः

श्लोक 63

करीरः क्रकरीपत्रो ग्रन्थिलो मरुभूरुहः
करीरः कटुकस्तिक्त स्वेद्युष्णो भेदनः स्मृतः
दुर्नामकफवातामगरशोथव्रणप्रणुत्

श्लोक 64

शाखोटः पीतफलको भूतावासः खरच्छदः शाखोटो रक्तपित्तार्शोवातश्लेष्मातिसारजित्

श्लोक 65

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः वरुणः पित्तलो भेदीश्लेष्मकृच्छ्राश्ममारुतान्

श्लोक 66

निहन्ति गुल्मवातास्रकृमींश्चोष्णोऽग्निदीपनः कषायो मधुरस्तिक्तः कटुकोरूक्षको लघुः

श्लोक 67

कटभी स्वादुपुष्पश्च मधुरेणुः कटम्भरः कटभी तु प्रमेहार्शोनाडीव्रणविषक्रिमीन्

श्लोक 68

हन्त्युष्णा कफकुष्ठघ्नी कटू रूक्षा च कीर्तिता तत्फलं तुवरं ज्ञेयं विशेषात्कफशुक्रहृत्

श्लोक 69

मोक्षस्तु मोक्षकोऽपि स्याद् गोलीढोगोलिहस्तथा क्षारश्रेष्ठः क्षारवृक्षो द्विविधः श्वेतकृष्णकः

श्लोक 70

मोक्षकः कटुकस्तिक्तो ग्राह्युष्णः कफवातहृत् विषमेदोगुल्मकण्डूबस्तिरुक्कृमिशुक्रनुत्

श्लोक 71

शिरीषिका टिण्टिनिका दुर्बलाऽम्बुशिरीषिका त्रिदोषविषकुष्ठार्शोहरी वारिशिरीषिका

श्लोक 72

शमी शक्तुफला तुङ्गा केशहन्त्री शिवाफला मंगल्या च तथा लक्ष्मीः शमीरः साऽल्पिका स्मृता

श्लोक 73

शमी तिक्ता कटुः शीता कषाया रेचनी लघुः कफकासभ्रमश्वासकुष्ठार्शः कृमिजित् स्मृता

श्लोक 74

सप्तपर्णो विशालत्वक् शारदो विषमच्छदः

श्लोक 75

सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित् दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः सरः

श्लोक 76

तिनिशः स्यन्दनो नेमी रथद्रुर्वञ्जुलस्तथा
तिनिशः श्लेष्मपित्तास्रमेदःकुष्ठप्रमेहजित्
तुवरः श्वित्रदाहघ्नो व्रणपाण्डुकृमिप्रणुत्

श्लोक 77

भूमीसहो द्वारदारुर्वरदारुः खरच्छदः भूमीसहस्तु शिशिरो रक्तपित्तप्रसादनः