श्लोक 1
अथ पुष्पवर्गः वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
श्लोक 2
पङ्केरुहं तामरसं सारसं सरसीरुहम् बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च
श्लोक 3
कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम्
श्लोक 4
विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम्
श्लोक 5
धवलं कमलं शीतं मधुरं कफपित्तजित् तस्मादल्पगुणं किञ्चिदन्यद्र क्तोत्पलादिकम्
श्लोक 6
मूलनालदलोत्फुल्लफलैः समुदिता पुनः पद्मिनी प्रोच्यते प्राज्ञैर्बिसिन्यादि च सा स्मृता
श्लोक 7
पद्मिनी शीतला गुर्वी मधुरा लवणा च सा पित्तासृक्कफनुद्रू क्षा वातविष्टम्भकारिणी
श्लोक 8
संवर्त्तिका नवदलं बीजकोशस्तु कर्णिका किञ्जल्कः केशरः प्रोक्तो मकरन्दो रसः स्मृतः पद्मनालं मृणालं स्यात्तथा बिसमिति स्मृतम्
श्लोक 9
संवर्त्तिका हिमा तिक्ता कषाया दाहतृट्प्रणुत् मूत्रकृच्छ्रगुदव्याधिरक्तपित्तविनाशिनी
श्लोक 10
पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा मुखवैशद्यकृल्लघ्वी तृष्णाऽस्रकफपित्तनुत्
श्लोक 11
किञ्जल्कः शीतलो वृष्यः कषायो ग्राहकोऽपिसः कफपित्ततृषादाहरक्तार्शोविषशोथजित्
श्लोक 12
मृणालं शीतलं वृष्यं पित्तदाहास्रजिद् गुरु
श्लोक 13
दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम्
श्लोक 14
पद्मचारिण्यतिचराऽव्यथा पद्मा च शारदा पद्माऽनुष्णा कटुस्तिक्ता कषाया कफवातजित् मूत्रकृच्छ्श्मशूलघ्नो श्वासकासविषापहा
श्लोक 15
श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम्
श्लोक 16
कुमुद्वती कैरविका तथा कुमुदिनीति च
श्लोक 17
सा तु मूलादिसर्वाङ्गैरुक्ता समुदिता बुधैः पद्मिन्या ये गुणाः प्रोक्ताः कुमुदिन्याश्च ते स्मृताः
श्लोक 18
सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम् कल्हारं शीतलं ग्राहि विष्टम्भि गुरु रूक्षणम्
श्लोक 19
वारिपर्णी कुम्भिका स्याद्वारिमूली खमूलिका शैवालं जलनीली स्याच्छैवलं जलजञ्च तत्
श्लोक 20
वारिपर्णी हिमा तिक्ता लघ्वी स्वाद्वी सरा कटुः दोषत्रयहरी रूक्षा शोणितज्वरशोषकृत्
श्लोक 21
शैवालं तुवरं तिक्तं मधुरं शीतलं लघु स्निग्धं दाहतृषापित्तरक्तज्वरहरं परम्
श्लोक 22
शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा महाकुमारी गन्धाढ्या लाक्षापुष्पा ऽतिमञ्जुला
श्लोक 23
शतपत्री हिमा हृद्या ग्राहिणी शुक्रला लघुः दोषत्रयास्रजिद्वर्ण्या कट्वी तिक्ता च पाचनी
श्लोक 24
नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्
श्लोक 25
श्रीपदी षट्पदानन्दा वार्षिकी मुक्तबन्धना
श्लोक 26
वार्षिकी शीतला लघ्वी तिक्ता दोषत्रयापहा कर्णाक्षिमुखरोगघ्नी तत्तैलं तद्गुणं स्मृतम्
श्लोक 27
जातिर्जाती च सुमना मालती राजपुत्रिका चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका
श्लोक 28
जातीयुगं तिक्तमुष्णं तुवरं लघु दोषजित् शिरोऽक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित्
श्लोक 29
यूथिका गणिकाऽम्बष्ठा सा पीता हेमपुष्पिका यूथीयुगं हिमं तिक्तं कटुपाकरसं लघु
श्लोक 30
मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम्
श्लोक 31
चाम्पेयश्चम्पकः प्रोक्तोहेमपुष्पश्च स स्मृतः एतस्य कलिका गन्धफलेति कथिता बुधैः
श्लोक 32
चम्पकः कटुकस्तिक्तः कषायो मधुरो हिमः विषक्रिमिहरः कृच्छ्रकफवातास्नपित्तजित्
श्लोक 33
बकुलो मधुगन्धश्च सिंहकेसरकस्तथा बकुलस्तुवरोऽनुष्णः कटुपाकरसो गुरुःकफपित्तविषश्वित्रकृमिदन्तगदापहः
श्लोक 34
शिवमल्ली पाशुपत एकाष्ठीलो वको वसुः
श्लोक 35
वकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः योनिशूलतृषादाहकुष्ठशोथास्रनाशनः
श्लोक 36
कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः कदम्बो मधुरः शीतः कषायो लवणो गुरुः सरो विष्टम्भकृद्रू क्षः कफस्तन्यानिलप्रदः
श्लोक 37
कुब्जको भद्र तरुणी वृत्तपुष्पोऽतिकेसरः महासहा कण्टकाढ्या नीलालिकुलसंकुला
श्लोक 38
कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः
श्लोक 39
मल्लिका मदयन्ती च शीतभीरुश्च भूपदी
श्लोक 40
मल्लिकोष्णा लघुर्वृष्या तिक्ता च कटुका हरेत् वातपित्तास्यदृग्व्याधिकुष्ठारुचिविषव्रणान्
श्लोक 41
माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः माधवी मधुरा शीता लघ्वी दोषत्रयापहा
श्लोक 42
केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः सुवर्णकेतकी त्वन्या लघुपुष्पा सुगन्धिनी
श्लोक 43
केतकः कटुकः स्वादुर्लघुस्तिक्तः कफापहः उष्णा तिक्तरसा ज्ञेया चक्षुष्या हेमकेतकी
श्लोक 44
किङ्किरातो हेमगौरः पीतकः पीतभद्र कः
श्लोक 45
किङ्किरातो हिमस्तिक्तः कषायश्च हरेदसौ कफपित्तपिपासाऽस्रदाहशोषवमिक्रिमीन्
श्लोक 46
कर्णिकारः परिव्याधः पादपोत्पल इत्यपि कर्णिकारः कटुस्तिक्तस्तुवरो शोधनो लघुः रञ्जनः सुखदः शोथश्लेष्मास्रव्रणकुष्ठजित्
श्लोक 47
अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः कङ्केलि पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा
श्लोक 48
अशोकः शीतलस्तिक्तो ग्राही वर्ण्यः कषायकः दोषापचीतृषादाहकृमिशोषविषास्रजित्
श्लोक 49
अम्लातोऽम्लाटनः प्रोक्तस्तथाऽम्लातक इत्यपि
श्लोक 50
कुरण्टको वर्णपुष्पः स एवोक्तो महासहः अम्लाटनः कषायोष्णः स्निग्धः स्वादुश्च तिक्तकः
श्लोक 51
सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका सहाचरः सहचरः स च भिन्द्यपि कथ्यते
श्लोक 52
कुरण्टकोऽत्रपीते स्याद्र क्त कुरबकः स्मृतः नीले बाणा द्वयोरुक्तो दासी चार्त्तगलश्च सः
श्लोक 53
र्स्यैः! कुष्ठवातास्रकफकण्डूविषापहः तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः
श्लोक 54
कुन्दं तु कथितं माध्यं सदापुष्पञ्च तत्स्मृतम् कुन्दं शीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत्
श्लोक 55
मुचुकुन्दः क्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः मुचुकुन्दः शिरःपीडापित्तास्रविषनाशनः
श्लोक 56
तिलकः क्षुरकः श्रीमान्पुरुषश्छिन्नपुष्पकः तिलकः कटुकः पाके रसे चोष्णो रसायनः कफकुष्ठक्रिमीन्वस्तिमुखदन्तगदान्हरेत्
श्लोक 57
बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च बन्धूकः कफकृद् ग्राही वातपित्तहरो लघुः
श्लोक 58
ओड्रपुष्पं जपा चाथ त्रिसन्ध्या साऽरुणा सिता जपा संग्राहिणी केश्या त्रिसन्ध्या कफवातजित्
श्लोक 59
सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला सिन्दूरी विषपित्तास्रतृष्णावान्तिहरी हिमा
श्लोक 60
अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः
श्लोक 61
अगस्तिः पित्तकफजिच्चातुर्थिकहरो हिमः रूक्षो वातकरस्तिक्तः प्रतिश्यायनिवारणः
श्लोक 62
तुलसी सुरसा ग्राम्या सुलभा बहुमञ्जरी अपेतराक्षसी गौरी भूतघ्नी देवदुन्दभिः
श्लोक 63
तुलसी कटुका तिक्ता हृद्योष्णा दाहपित्तकृत् दीपनी कुष्ठकृच्छ्रास्रपार्श्वरुक्कफवातजित् शुक्ला कृष्णा च तुलसी गुणैस्तुल्या प्रकीर्त्तिता
श्लोक 64
मारुतोऽसौ मरुबको मरुन्मरुरपि स्मृतः फणी फणिज्जकश्चापि प्रस्थपुष्पः समीरणः
श्लोक 65
मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णः पित्तलो लघुः
श्लोक 66
वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत् कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः
श्लोक 67
उक्तो दमनको दान्तो मुनिपुत्रस्तपोधनः गन्धोत्कटो ब्रह्मजटो विनीतः कलपत्रकः
श्लोक 68
दमनस्तुवरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः ग्रहणाद् विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित्
श्लोक 69
बर्बरी तुवरी तुङ्गी खरपुष्पाऽजगन्धिका पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ
श्लोक 70
तत्र शुक्लेऽजकः प्रोक्तो वटपत्रस्ततोऽपरः बर्बरीत्रितयं रूक्षं शीतं कटु विदाहि च
श्लोक 71
तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च पित्तलं कफवातास्रकण्डूकृमिविषापहम्