श्लोक 1
अथ गुडूच्यादिवर्गः अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः रामपत्नीं बलात्सीतां जहार मदनातुरः
श्लोक 2
ततस्तं वलवान् रामो रिपुं जायाऽपहारिणम् वृतो बानरसैन्येन जघान रणमूर्धनि
श्लोक 3
हते तस्मिन्सुरारातौ रावणे बलगर्विते देवराजः सहस्राक्षः परितुष्टश्चराघवे
श्लोक 4
तत्र ये वानराः कैचिद्रा क्षसैर्निहता रणे तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः
श्लोक 5
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका
श्लोक 6
गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च
श्लोक 7
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली चक्रलक्षणिका धीरा विशल्या च रसायनी
श्लोक 8
चन्द्र हासा वयस्था च मण्डली देवनिर्मिता गुडूची कटुका तिक्ता स्वादुपाका रसायनी
श्लोक 9
संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपिनी दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम्
श्लोक 10
कामलाकुष्ठवातास्रज्वरकृमिवमीन्हरेत् प्रिमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत्
श्लोक 11
ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम्
श्लोक 12
वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्
श्लोक 13
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः
श्लोक 14
गम्भारी भद्र पर्णी च श्रीपर्णी मधुपर्णिका काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी
श्लोक 15
कृष्णवृन्ता मधुरसा महाकुसुमिकाऽपि च काश्मीरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः
श्लोक 16
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा
श्लोक 17
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत्
श्लोक 18
स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान्
श्लोक 19
पाटलि पाटलाऽमोघा मधुदूतो फलेरुहा कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा
श्लोक 20
ताम्रपुष्पी च कथिताऽपरा स्यात्पाटला सिता मुष्कको मोक्षको घण्टापाटलिकाष्टपाटला
श्लोक 21
पाटला तुवरा तिक्ताऽनुष्णा दोषत्रयापहा अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी
श्लोक 22
पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् पित्तातिसारहृत्कण्ठ्यं फलं हिक्काऽस्रपित्तहृत्
श्लोक 23
अग्निमन्थो जयः सस्याच्छ्रीपर्णी गणिकारिका जया जयन्ती तर्कारी नादेयी वैजयन्तिका
श्लोक 24
अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः
श्लोक 25
श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः
श्लोक 26
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरःश्योनाको दीपनः पाके कटुकस्तुवरो हिमः ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः
श्लोक 27
टुण्टुकस्य फलं बालं रूक्षं वातकफापहम्
श्लोक 28
हृद्यं कषायं मधुरं रोचनं लघु दीपनम् गुल्मार्शःकृमिहृत् प्रौढं गुरु वातप्रकोपणम्
श्लोक 29
श्रीफलः सर्वतोभद्रा पाटला गणिकारिका श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम्
श्लोक 30
पञ्चमूलं महत् तिक्तं कषायँ कफवातनुत् मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम्
श्लोक 31
शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांऽशुमत्यपि
श्लोक 32
शालपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित्
श्लोक 33
शोषदोषत्रयहरी बृंहण्युक्ता रसायनी तिक्ता विषहरी स्वादुः क्षतकासकृमिप्रणुत्
श्लोक 34
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा
श्लोक 35
पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुराऽसरा हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः
श्लोक 36
वार्त्ताकी क्षुद्र भण्टाकी महती बृहती कुली हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी बृहती ग्राहिणी हृद्या पाचनी कफवातहृत्
श्लोक 37
कटुतिक्ताऽस्यवैरस्यमलारोचकनाशिनी उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित्
श्लोक 38
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका कण्टालिका कण्टकिनी धावनी बृहती तथा
श्लोक 39
श्वेता क्षुद्रा चन्द्र हासा लक्ष्मणा क्षेत्रदूतिका गर्भदा चन्द्र मा चन्द्री चन्द्र पुष्पा प्रियङ्करी
श्लोक 40
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः
श्लोक 41
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान्
श्लोक 42
तयोः फलं कटु रसे पाके च कटुकं भवेत् शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु हन्यात्कफमरुत्कण्डूकासमेदः कृमिज्वरान्
श्लोक 43
तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद् गर्भकारिणी
श्लोक 44
गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि
श्लोक 45
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका गोक्षुरः शीतलःस्वादुर्बलकृद्बस्तिशोधनः
श्लोक 46
मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः प्रमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत्
श्लोक 47
शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम्
श्लोक 48
पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत्
श्लोक 49
उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम् दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः तन्द्रा शोथज्वरानाहपार्श्वपीडाऽरुचीर्हरेत्
श्लोक 50
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा माङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी
श्लोक 51
जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः
श्लोक 52
मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा
श्लोक 53
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला
श्लोक 54
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित्
श्लोक 55
माषपर्णी सूर्यपर्णी काम्बोजी हयपुच्छिका पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा
श्लोक 56
माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलासकृत् मधुरा ग्राहिणी शोथवातपित्तज्वरास्रजित्
श्लोक 57
अष्टवर्गः सयष्टीको जीवन्ती मुद्गपर्णिका माषपर्णी गणोऽय तु जीवनीय इति स्मृतः
श्लोक 58
जीवनो मधुरश्चापि नाम्ना स परिकीर्त्तितः जीवनीयगणः प्रोक्तः शुक्रकृद् बृंहणो हिमः
श्लोक 59
गुरुर्गर्भप्रदः स्तन्यकफकृत्पित्तरक्तहृत् तृष्णां शोषं ज्वरं दाहं रक्तपित्तं व्यपोहति
श्लोक 60
शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्वहस्तकः पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः
श्लोक 61
वातारिस्तरुणश्चापि रुबूकश्च निगद्यते रक्तोऽपरो रुबूकः स्यादुरुबूको रुबुस्तथा
श्लोक 62
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत्
श्लोक 63
शूलशौथकटीबस्तिशिरःपीडोदरज्वरान् व्रघ्नश्वासकफानाहकासकुष्ठाप्तमारुतान्
श्लोक 64
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् मूत्रकृच्छ्रहरं चापि पित्तरक्तप्रकोपणम् वातार्यग्रदलं गुल्मबस्तिशूलहरं परम्
श्लोक 65
कफवातकृमीन्हन्ति वृद्धिं सप्तविधामपि एरण्डफलमत्युष्णं गुल्मशूलानिलापहम्
श्लोक 66
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् तद्वन्मज्जा च विडभेदी वातश्लेष्मोदरापहः
श्लोक 67
श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च श्वेतपुष्पः सदापुष्पः स चालर्कः प्रतापसः
श्लोक 68
रक्तोऽपरोऽकनामा स्यादर्कपर्णो विकीरणः रक्तपुष्पः शुक्लफलस्तथाऽस्फोटः प्रकीर्त्तितः
श्लोक 69
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन्
श्लोक 70
अलर्ककुसुमं वृष्यं लघु दीपनपाचनम् अरोचकप्रसेकार्शः कासश्वासनिवारणम्
श्लोक 71
रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठकृमिघ्नं कफनाशनञ्च अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत्
श्लोक 72
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु कुष्ठगुल्मोदरहरं श्रेष्ठमेतद्विरेचनम्
श्लोक 73
सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च सुधासमन्तदुग्धा च स्नुक्स्त्रियां स्यात्स्नुही गुडा
श्लोक 74
सेहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः शूलामाष्ठीलिकाऽध्मानकफगुल्मोदरानिलान्
श्लोक 75
उन्मादमोहकुष्ठार्शः शोथमेदोऽश्मपाण्डुताः व्रणशोथज्वरप्लीहविषदूषीविषं हरेत्
श्लोक 76
उष्णवीर्यं स्नुहीक्षीरं स्निग्धञ्च कटुकं लघु गुल्मिनां कुष्ठिनाञ्चापि तथैवोदररोगिणाम्
श्लोक 77
हितमेतद्विरेकार्थं ये चान्ये दीर्घरोगिणः
श्लोक 78
शातला सप्तला सारा विमला विदुला च सा तथा निगदिता भूरिफेना चर्मकषेत्यपि
श्लोक 79
शातला कटुका पाके वातला शीतला लघुः तिक्ता शोथकफानाहपित्तोदावर्त्तरक्तजित्
श्लोक 80
कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि विशल्याऽग्निशिखाऽनन्तावह्निवक्त्रा च गर्भनुत् कलिहारी सरा कुष्ठशोफार्शोव्रणशूलजित्
श्लोक 81
सक्षारा श्लेष्मजित्तिक्ताकटुका तुवराऽपि च तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तलागर्भपातिनी
श्लोक 82
करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा
श्लोक 83
करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम्
श्लोक 84
वीर्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्
श्लोक 85
धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः देवता कितवस्तूरी महामोही शिवप्रियः
श्लोक 86
मातुलो मदनश्चास्य फले मातुलपुत्रकः धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत्
श्लोक 87
कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः
श्लोक 88
वासको वासिका वासा भिषङ्माता च सिंहिका सिंहास्यो वाजिदन्ता स्यादाटरूषोऽटरूषकः
श्लोक 89
अटरूषो वृषस्ताम्रः सिंहपर्णश्च स स्मृतः वासको वातकृत्स्वर्यः कफपित्तास्रनाशनः
श्लोक 90
तिक्तस्तुवरको हृद्यो लघुशीतस्तृडर्त्तिहृत् श्वासकासज्वरच्छर्दिमेहकुष्ठक्षयापहः
श्लोक 91
पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः कथितः पांशुपर्यायस्तथा कवचनामकः
श्लोक 92
पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान् संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः
श्लोक 93
निम्बः स्यात्पिचुमर्दश्च पिचुमन्दश्च तिक्तकः अरिष्टः पारिभद्र श्च हिङ्गुनिर्यास इत्यपि