श्लोक 88
ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् तृष्णादाहवमिश्वासकासकार्श्यकृमिप्रणुत् आर्द्र न्तु तद्गुणं स्वादु विशेषात्पित्तनाशनम्
श्लोक 89
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः अतिलम्बी सितच्छत्रा संहितच्छत्रिकाऽपि च
श्लोक 90
छत्रा शालेयशालीनो मिश्रेया मधुरा मिसिः शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः
श्लोक 91
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत्
श्लोक 92
अग्निंमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत्
श्लोक 93
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा
श्लोक 94
वल्लरी चन्द्रि का मन्था मिश्रपुष्पा च कैरवी कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा
श्लोक 95
मेथिकावातशमनीश्लेष्मघ्नीज्वरनाशिनी ततः स्वल्पगुणावन्या वाजिनां सा तु पूजिता
श्लोक 96
चन्द्रि का चर्महन्त्री च पशुमेहनकारिका नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा
श्लोक 97
चन्द्र शूरं हितं हिक्कावातश्लेष्मातिसारिणाम् असृग्वातगदद्वेषि बलपुष्टिविवर्द्धनम्
श्लोक 98
मेथिका चन्द्र शूरश्च कालाऽजाजी यवानिका एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम्
श्लोक 99
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम्
श्लोक 100
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम्
श्लोक 101
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत्
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम्
श्लोक 102
वचोग्रगन्धा षड्र्गन्था गोलोमी शतपर्विका क्षुद्र पत्री च मङ्गल्या जटिलोग्रा च लोमशा
श्लोक 103
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत्
श्लोक 104
पारसीक वचा शुक्ला प्रोक्ता हैमवतीति सा हैमवत्युदिता तद्वद्वातं हन्ति विशेषत
श्लोक 105
सुगन्धाऽप्युग्रगन्धा च विशेषात्कफकासनुत् सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी
श्लोक 106
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता
श्लोक 107
द्वीपान्तरवचा किञ्चित्तिक्तोष्णा वह्निदीप्तिकृत् विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी
श्लोक 108
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् व्यपोहति विशेषेण फिरङ्गामयनाशिनी
श्लोक 109
हपुषा हबुषा विस्रा पराऽश्वत्थफला मता मत्स्यगन्धाप्लीहहन्त्री विषघ्नी ध्वांक्षनाशिनी
श्लोक 110
हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् पराऽप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपिन
श्लोक 111
पुंसि क्लीवे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः तण्डुलश्च तथा वेल्लममोघा चित्रतण्डुलः
श्लोक 112
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत्
श्लोक 113
नाडी हिङ्गु पलाशाख्या जन्तुका रामठी च सा वंशपत्री च पिण्डाह्वा सुवीर्य्या हिङ्गुनाडिका तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः
श्लोक 114
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च
श्लोक 115
वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन् कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत्
श्लोक 116
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी
श्लोक 117
वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित्
श्लोक 118
समुद्र फेनः फेनश्च हिण्डीरोऽब्धिकफस्तथा
श्लोक 119
समुद्र फेनश्चक्षुष्यो लेखनः शीतलश्च सः कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः
श्लोक 120
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके
श्लोक 121
अष्टवर्गोऽष्टभिर्द्र व्यैः कथितश्चरकादिभिः
श्लोक 122
अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः भग्नसन्धानकृत्कामबलासबलवर्द्धनः वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत्
श्लोक 123
जीवकर्षभकौ ज्ञेयौ हिमाद्रि शिखरोद्भवौ रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ
श्लोक 124
जीवकः कूर्चकाकार ऋषभो वृष शृङ्गवत् जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः
श्लोक 125
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ
श्लोक 126
महामेदाऽभिधः कन्दो मोरङ्गादौ प्रजायते
श्लोक 127
महामेदा वनीमेदा स्यादित्युक्तं मुनीश्वरैः
श्लोक 128
शुक्लार्द्र कनिभः कन्दो लताजातः सुपाण्डुरः महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते
श्लोक 129
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः
श्लोक 130
शल्यपर्णी मणिच्छिद्रा मेदा मेदाभवाध्वरा महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः
श्लोक 131
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम् वृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत्
श्लोक 132
जायते क्षीरकाकोली महामेदोद्भवस्थले
श्लोक 133
यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान्
श्लोक 134
सा प्रोक्ताक्षीरकाकोली काकोलीलिङ्गमुच्यते यथास्यात्क्षीरकाकोली काकोल्यपि तथा भवेत्
श्लोक 135
एषा किञ्चिद्भवेत्कृष्णा भेदोऽयमुभयोरपि काकोली वायसोली च वीरा कायस्थिका तथा
श्लोक 136
सा शुक्ला क्षीरकाकोली वयस्था क्षीरवल्लिका कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी
श्लोक 137
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु वृंहणं वातदाहास्रपित्तशोषज्वरापहम्
श्लोक 138
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः
श्लोक 139
स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा
श्लोक 140
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे
श्लोक 141
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः प्राणैश्वर्यकरी मूर्च्छारक्तपित्तविनाशिनी
श्लोक 142
वृद्धिर्गर्भप्रदा शीता वृंहणी मधुरा स्मृता वृष्या पित्तास्रशमनी क्षतकासक्षयापहा
श्लोक 143
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्लभः तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक्
श्लोक 144
मेदा जीवक काकोली ऋद्धि द्वन्द्वेऽपि चासति वरीविदार्यश्वगन्धावाराहींश्च क्रमात् क्षिपेत्
श्लोक 145
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका
श्लोक 146
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् व्रण शोथ विष च्छर्दि तृष्णाग्लानिक्षयापहा
श्लोक 147
काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत्
श्लोक 148
आरग्बवधो राजवृक्षः शम्पाकश्चतुरङ्गुलः आरेवतो व्याधिघातः कृतमालः सुवर्णकः
श्लोक 149
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः आरग्वधोगुरुःस्वादुः शीतलः स्रंसनोत्तमः
श्लोक 150
ज्वरहृद्रो गापित्तास्रवातोदावर्त्तशूलनुत् तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम्
श्लोक 151
कट्वी तु कटुका तिक्ता कृष्णभेदा कटम्भरा अशोका मत्स्यशकला चक्राङ्गी शकुलादनी मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी
श्लोक 152
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः भेदिनी दीपनी हृद्या कफपित्तज्वरापहा प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्
श्लोक 153
किराततिक्तः कैरातः कटुतिक्तः किरातकः
श्लोक 154
काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः किरातकोऽन्यो नैपालः सोऽद्धतिक्तो ज्वरान्तकः
श्लोक 155
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत्
श्लोक 156
उक्तं कुटजबीजं तु यवमिन्द्र यवं तथा कलिङ्गं चापि कालिङ्गं तथा भद्र यवा अपि
श्लोक 157
क्वचिदिन्द्र स्य नामैव भवेत्तदभिधायकम् फलानीन्द्र यवास्तस्य तथा भद्र यवा अपि
श्लोक 158
इन्द्र यवं त्रिदोषघ्नं संग्राहि कटु शीतलम्
श्लोक 159
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित्
श्लोक 160
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा करहाटो मरुवकः शल्यको विषपुष्पकः
श्लोक 161
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः वान्तिकृद्विद्र धिहरः प्रतिश्यायव्रणान्तकः रूक्ष कुष्ठकफानाहशोथगुल्मव्रणापहः
श्लोक 162
रास्ना युक्तरसा रस्या सुवहा रसना रसा एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा
श्लोक 163
रास्नाऽमपाचिनी तिक्ता गुरूष्णा कफवातजित्
श्लोक 164
शोथश्वाससमीरास्रवातशूलोदरापहा कासज्वरविषाशीतिवातिकामयसिध्महृत्
श्लोक 165
नाकुली सुरसा नागसुगन्धा गन्धनाकुली नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी
श्लोक 166
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान्
श्लोक 167
माचिकाप्रस्थिकाऽम्बष्ठा तथा चाम्बालिकांऽबिका मयूरविदला केशीसहस्रा बालमूलिका
श्लोक 168
माचिकाऽम्ला रसे पाके कषाया शीतला लघुः पक्वातीसारपित्तास्रकफकण्ठामयापहा
श्लोक 169
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा
श्लोक 170
तेजस्विनी कफश्वासकासास्यामयवातहृत् पाचन्युष्णाकटुस्तिक्तारुचिवह्निप्रदीपिनी