श्लोक 1
अथातो वाजीकरणविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहु रात्रेयादयो महर्षयः॥
श्लोक 2
वाजीकरणमन्विच्छेत् सततं विषयी पुमान्।
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्।
अपत्यसन्तानकरं यत्सद्यः सम्प्रहर्षणम्॥
श्लोक 3
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः।
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते।
तद्वाजीकरणं तद्धि देहस्यौजस्करं परम्॥
श्लोक 4
सारो हि जीवलोकस्य स्त्री स्त्रीगुणसमन्विता।
स्त्रियः साद्ध्व्यः प्रसुवते नरान् गुणमयानिव॥
श्लोक 5
गोत्रवृद्धिकराह्येता गृहिण्यो गृहदेवताः।
गृहं हि जीनमेताभिर्न श्रीमदपि शोभते॥
श्लोक 6
न तु ता अपि शोभन्ते जरसानुगता इव।
पुंयोगेन विना स्त्रीणां स हि संवननं परम्॥
श्लोक 7
वाजीकरणनित्यस्य कामं कामं सिषेविषोः।
न शरीरमवाप्नोति न वा रतिरतिः क्षयम्॥
श्लोक 8
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः।
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः॥
श्लोक 9
अदृष्टपुत्रपौत्रस्य कुलतन्त्वन्तवर्त्तिनः।
संसारसुखबाह्यस्य कीदृशं नाम जीवितम्॥
श्लोक 10
असम्बन्धोह्यपुत्रस्य नित्यमेव परः परः।
सीदत्यस्यावसाने च गृहं सुस्थेप्यनायकम्।
अतो वाजीकरा योगा निषेव्याः शुक्रवर्द्धनाः॥
श्लोक 11
कल्यस्योदग्रवयसो वाजीकरणसेविनः।
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते॥
श्लोक 12
चिन्ताजराभ्यां शुक्रं तु व्याधिभिः कर्मकर्शनात्।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्॥
श्लोक 13
शुक्रक्षयात् भयाच्छोकादविस्रम्भादसेवनात्।
अतिहर्षादतिस्थौल्यान्मलोपचयतः श्रमात्॥
श्लोक 14
स्त्रीणामकौशलाद्दोषदर्शनादभिचारतः।
मेढ्रामयात् सुमहतः क्रोधतोऽधर्मकीर्त्तनात्।
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते॥
श्लोक 15
नहि जातबलाः सर्वे नराश्चापत्यभागिनः।
बृहच्छरीरा बलिनः केचिन्नारीषु दुर्बलाः॥
श्लोक 16
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः।
नराश्चटकवत्केचिद्व्रजन्ति बहुशः स्त्रियः॥
श्लोक 17
गजवच्चप्रसिञ्चन्ति केचिन्न बहुगामिनः।
केचित्प्रयत्नैर्वाह्यन्ते वृषाः केचित्स्वभावतः॥
श्लोक 18
तस्मात्प्रयोगान् वक्ष्यामि दुर्बलानां बलप्रदान्।
सुखोपभोगान् बलिनां भूयश्च बलवर्द्धनान्॥
श्लोक 19
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्।
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्॥
श्लोक 20
योगविद्योजयेत् पूर्वं क्षीरमांसरसाशिनाम्।
ततो वाजीकरान्योगान् शुक्रापत्यबलप्रदान्॥
श्लोक 21
शरेक्षुकुशकाशानां विदार्या वीरणस्य च।
मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्॥
श्लोक 22
मेदे द्वे द्वे च काकोल्यौ सूप्यपर्ण्यौ शतावरीम्।
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्॥
श्लोक 23
वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम्।
मधुकं शालिपर्णीं च भागांस्त्रिपलिकान् पृथक्॥
श्लोक 24
माषाणामाढकं चैतत् द्विद्रोणे साधयेदपाम्।
रसेनाढकशेषेण पचेत्तेन घृताढकम्॥
श्लोक 25
दत्वा विदारीधात्रीक्षुरसानामाढकाढकम्।
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्॥
श्लोक 26
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गु द्विपिप्पलीम्।
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्॥
श्लोक 27
तत्सिद्धपूतं चूर्णस्य पृथक्प्रस्थेन योजयेत्।
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च॥
श्लोक 28
मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः।
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च॥
श्लोक 29
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धमुक्।
तेनारोहति वाजीव कुलिङ्गैव हृष्यति॥
श्लोक 30
माषात्मगुप्ताबीजानामाढकं प्रसृतोन्मितम्।
मेदाश्वगन्धर्द्धिवरी वीरा यष्टी द्विजीवकम्॥
श्लोक 31
शूर्पेऽपां विपचेत्तेन पादशेषेण पाचयेत्।
विदारीक्षुरसप्रस्थद्वयेन सदृशेन च॥
श्लोक 32
सर्वैः क्षीरेण हविषो नवात् प्रस्थं शृतेऽत्र च।
सिताक्षौद्रसिताख्यानां पृथग्दद्याच्चतुष्पलम्॥
श्लोक 33
पलं कणात् पुरोभक्तं लिहंस्तत्पलपूर्वकम्।
तरुणीष्ववतृप्तासु प्रसभं रासभायते॥
श्लोक 34
मेदादिभिश्च कर्षांशैः शृतं बाष्कयणं पयः।
सशर्कराक्षौद्रघृतं शुक्रवृद्धिकरं परम्॥
श्लोक 35
पयसा पायसस्तेन माषकण्डूकरीफलैः।
वृष्यो वेगकरः सिद्धः सघृतक्षौद्रशर्करः॥
श्लोक 36
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः॥
श्लोक 37
मधूलिका माषपर्णी सिता शृङ्गाटकं यवाः।
स्वगुप्तामूलयष्ट्याह्वविदारीक्षुरकाः समाः॥
श्लोक 38
सप्रियालाः कृतं चूर्णं पृथङ्मध्वाज्यषड्गुणम्।
पादाभ्यामस्पृशन्भूमिं लिहन्काल्यमतः पिचुम्।
लभते वलमुत्साहं स्त्रीश्च याति कुलिङ्गवत्॥
श्लोक 39
स्वगुप्ता क्षीरकाकोली विदारी जीवकद्वयम्।
तिलाः सलुञ्चिता भृष्टाः शर्कराज्यमधुप्लुतम्।
तच्चूर्णं प्रसृतं लीढ्वा गच्छति प्रमदाशतम्॥
श्लोक 40
प्रसृतं माषचूर्णस्य धात्रीस्वरसभावितम्।
विदारीरजसो वापि लिहन् मधुघृतद्रुतम्।
क्षीरानुपश्चटकवद्दशकृत्वो व्रजेत् स्त्रियः॥
श्लोक 41
चूर्ण विदार्या बहुशः स्वरसेनैव भावितम्।
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदा दश गच्छति॥
श्लोक 42
कृष्णा धात्रीफलरजः स्वरसेनैवभावितम्।
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत्।
स नरोऽशीतिवर्षोपि युवेव परिहृष्यति॥
श्लोक 43
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्।
पयोनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्॥
श्लोक 44
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्।
सिताघृतपयोन्नाशी स नारीषु वृषायते॥
श्लोक 45
धान्यमाषरसः क्षीरं क्षौद्रमिक्षुरसो घृतम्।
द्विमेदाजीवकयुगक्वाथश्चैकत्र योजितः।
पीतः करोति पुरुषं प्रमदाशतगामिनम्॥
श्लोक 46
भल्लातकैश्चतुर्भिस्तु दुग्धस्यार्द्धाढकं पचेत्।
पीतं करोति वृषतां सुजीर्णस्यापि देहिनः॥
श्लोक 47
स्वयङ्गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्।
धारोष्णेन नरः पीत्वा पयसा रासभायते।
उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत्॥
श्लोक 48
सूप्यपर्णी द्विकाकोली जीवकर्षभकैः शृतम्।
लघुना पञ्चमूलेन द्विकाकोलीयुतेन वा।
पयोऽतिवृष्यमभ्यस्य वृद्धोऽपि तरुणायते॥
श्लोक 49
क्षीरिणी च श्वदंष्ट्रा च फाणितं शर्करा मधु।
गृष्टिक्षीरं नवं सर्पिरेतत् पुंसवनं परम्॥
श्लोक 50
अश्वत्थफलमूलत्वक्शृङ्गसिद्धं पयो नरः।
पीत्वा सशर्करं शीतं कुलिङ्ग इव हृष्यति॥
श्लोक 51
पयः पयस्यया सिद्धं शुक्रकृत्साज्यमाक्षिकम्॥
श्लोक 52
शतावरीकत्करसे पयो दशगुणं घृतम्।
शृतं सपिप्पलीक्षौद्रशर्करं वृष्यमुत्तमम्॥
श्लोक 53
शतावरीरसप्रस्थं क्षीरप्रस्थचतुष्टयम्।
प्रस्थं घृतस्य शुक्त्यंशं द्राक्षामांसीपरूषकम्॥
श्लोक 54
जीवकर्षभयष्ट्याह्वबलामेदाकशेरुकम्।
प्रियालबीजं काकोलीयुग्मं चैकत्र पाचयेत्॥
श्लोक 55
पक्वपूते क्षिपेच्चास्मिन् कुडवांशां सितोपलाम्।
गृष्टिक्षीरानुपः प्राश्य तन्नारीषु वृषायते।
विजयेत च वातास्रं पित्तास्रोरःक्षतक्षयान्॥
श्लोक 56
जीवकक्षीरकाकोलीस्थिराहंसपदीघनः।
शठीक्षुगण्डिकायष्टीमृणालैः कर्षिकैः पचेत्॥
श्लोक 57
घृतप्रस्थं दशगुणे क्षीरे तत् बलपुष्टिकृत्।
वन्ध्यानां पुत्रजननं शुक्रवर्द्धनशोधनम्॥
श्लोक 58
जलाढके स्वयंगुप्तामूलात् पञ्चपलं पचेत्।
पादशेषे च संचूर्ण्य कुडवांशाः पृथक् क्षिपेत्॥
श्लोक 59
स्वगुप्तामूलगोधूममाषेक्षुरकपिप्पलीः।
सप्रियालफलक्षौद्राः प्रस्थार्द्धं नवसर्पिषः॥
श्लोक 60
सितोपलातुलापादं कुर्यात्तान् मोदकांस्ततः।
मोदकं भक्षयित्वैकं षष्टिं व्रजति योषिताम्॥
श्लोक 61
पलांशान् बृहतीव्याघ्रीपृश्निपर्णीत्रिकण्टकान्।
द्व्याढकेनाम्भसा पक्त्वा पादशेषे रसे स्थिते॥
श्लोक 62
पलानि क्षीरकाकोल्याः पञ्च मागधिकापलम्।
स्वगुप्ताफलमूलानां माषाणामिक्षुरस्य च॥
श्लोक 63
विदार्या मधुनश्चात्र कुडवं कुडवं क्षिपेत्।
पृथक् द्वौ मुद्गतिलयोर्घृते शष्कुलिकास्ततः।
पचेदेकां ततः प्राश्य शतं व्रजति योषिताम्॥
श्लोक 64
स्वगुप्तामूलचूर्णेन द्रुतेन पयसा कृताः।
घृते सशर्कराक्षौद्रा भक्ष्या वेगशतप्रदाः॥
श्लोक 65
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकान्।
शर्कराया विदार्याश्च चूर्णानीक्षुरकस्य च॥
श्लोक 66
संयोज्य क्षीरसर्पिर्भ्यां घृते पूपलिकाः पचेत्।
पयोनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां परम्॥
श्लोक 67
चूर्णं माषात्तिलाच्छालेर्विदार्याश्च ससैन्धवम्।
रसेन पुण्ड्रकस्येक्षोः प्लुतं वाराहमेदसि।
पक्त्वा शष्कुलिक्राः खादन्नारोहेत् षष्टिमङ्गनाः॥
श्लोक 68
मुखप्रियाणां स्निग्धानां फलानां मधुरात्मनाम्।
फलानामात्मगुप्तायाः शालेर्माषात्तिलात् घृतात्॥
श्लोक 69
मुद्गात् गोधूमतश्चापि कुडवं कुडवं पृथक्।
चूर्णितैर्निस्तुषैस्तैस्तु क्षीरेणालोड्य मर्दितैः।
पक्वां पूपलिकां खादन् स्त्रीषु हृष्यति वाजिवत्॥
श्लोक 70
शर्करामाषगोधूमतुगाक्षीरीपयोघृतैः।
पक्वामुत्कारिकां खादेत् कृकवाकुरसानुपः॥
श्लोक 71
मायुरं तैत्तिरं हांसमेवमेव रसं पिबेत्।
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्॥