श्लोक 68
पादशेषं जलद्रोणे पचेन्नागबलातुलाम्।
तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्॥
श्लोक 69
पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः।
प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः॥
श्लोक 70
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः।
काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः॥
श्लोक 71
मृणालबिसखर्जूरशृङ्गाटककशेरुकैः।
एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयम्॥
श्लोक 72
जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्।
वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्।
उपयुज्य तु षण्मासाद् वृद्धोऽपि तरुणायते॥
श्लोक 73
शर्करा पिप्पलीचूर्णैः सर्पिषा माक्षिकेण च।
संयुतं वा शृतं क्षीरं पिबेत् कासज्वरापहम्॥
श्लोक 74
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम्।
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्॥
श्लोक 75
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतावितम्।
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः॥
श्लोक 76
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्।
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्॥
श्लोक 77
गोमहिष्यश्वनागाजैः क्षीरैर्मांससैस्तथा।
यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताप्लुतैः॥
श्लोक 78
दीप्तेऽग्नौ विधिरेष स्यान्मन्दे दीपनपाचनः।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे॥
श्लोक 79
दशमूलं स्वयंगुप्तां शंखपुष्पीं शठीं बलाम्।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥
श्लोक 80
भार्ङ्गी पुष्करमूलं च द्विपलांशान्यवाढकम्।
हरीतकीशतं चैकं जलपञ्चाढके पचेत्॥
श्लोक 81
यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्।
पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात्॥
श्लोक 82
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्।
लेहाद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥
श्लोक 83
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्।
पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्॥
श्लोक 84
मेहगुल्मग्रहण्यर्शोहृद्रोगरुचिपीनसान्।
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्॥
श्लोक 85
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्।
पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः॥
श्लोक 86
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात्॥
श्लोक 87
बोलस्थविरभल्लातविकङ्कतशतावरीः।
पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्॥
श्लोक 88
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्।
पथ्यासहस्रं सशतं यवानां चाढकद्वयम्॥
श्लोक 89
पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्।
पूते क्षिपेत् सपथ्ये च तत्र जीर्णगुडात्तुलाम्॥
श्लोक 90
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः।
अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च॥
श्लोक 91
शीते प्रस्थद्वयं क्षौद्रात् पिप्पलीकुडवं क्षिपेत्।
चूर्णीकृतात्त्रिजाताच्च त्रिपलं निखनेत्ततः॥
श्लोक 92
धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत्।
रसायनं वसिष्ठोक्तमेतत् पूर्वगुणाधिकम्।
स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते॥
श्लोक 93
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले।
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्॥
श्लोक 94
एकैका मरिचाजाज्योर्धान्यकाद्वे चतुर्थिके।
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्॥
श्लोक 95
कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्।
रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्॥
श्लोक 96
एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात्।
ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विस्सौवर्चलात् पले॥
श्लोक 97
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्चपलानि च।
तच्चूण षोडशपलैः शर्कराया विमिश्रयेत्॥
श्लोक 98
षाडवोयं प्रदेयः स्यादन्नपानेषु पूर्ववत्।
विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते॥
श्लोक 99
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः।
दाल्येते कासिनो यस्य स ना धूमानिमान्पिबेत्॥
श्लोक 100
द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते।
वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः॥
श्लोक 101
मनःशिला बला साजगन्धा त्वक्क्षीरिनागरैः।
तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्॥
श्लोक 102
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया।
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनः॥
श्लोक 103
क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्।
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्॥
श्लोक 104
शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया।
तिल्वकस्य कषायेण विदारीस्वरसेन च।
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्॥
श्लोक 105
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्।
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्॥
श्लोक 106
विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्।
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥
श्लोक 107
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे।
घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा॥
श्लोक 108
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः।
क्रमशः प्रसहास्तद्वत् प्रयोज्याः पिशिताशिनः॥
श्लोक 109
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते।
कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग्वहन् रसः॥
श्लोक 110
चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः।
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले॥
श्लोक 111
शृतैर्नागरदुस्पर्शापिप्पलीशठिपौष्करैः।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्॥
श्लोक 112
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च।
दत्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥
श्लोक 113
कासमर्दाभयामुस्तापाठाकट्फलनागरैः।
पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च॥
श्लोक 114
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके।
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्॥
श्लोक 115
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्।
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः॥
श्लोक 116
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्।
पिबेदुपरिभक्तस्य यवक्षारयुतं नरः॥
श्लोक 117
पिप्पलीनुडसिद्धं वा छागक्षीरयुतं घृतम्।
एतान्यग्निविवृध्यर्थं सर्पीषि क्षयकासिनाम्।
स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये॥
श्लोक 118
श्वाविदां सूचयो दग्धाः सघृतक्षौद्रशर्कराः।
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा॥
श्लोक 119
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्।
लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम्॥
श्लोक 120
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा।
चित्रकत्रिफलाजाजी कर्कटाख्या कटुत्रिकम्।
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा॥
श्लोक 121
पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम्।
शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम्॥
श्लोक 122
सारिवापुष्करजटाकर्कटाख्यारसाञ्जनम्।
पुनर्नवालोहरजस्त्रायमाणायवानिका॥
श्लोक 123
ऋद्धिस्तामलकी भार्ङ्गी विडङ्गं धन्वयासकम्।
क्षारचित्रकचव्याम्लवेतसव्योषदारु च।
सर्वकासान् जयेल्लीढं तच्चूर्णं मधुसर्पिषा॥
श्लोक 124
पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च।
बलारास्ना च तच्चूर्णं समस्तसमशर्करम्॥
श्लोक 125
स्वादेन्मधुघृताभ्यां वा लिह्यात् कासहरं परम्।
तद्वन्मारिचचूर्णं वा सघृतक्षौद्रशर्करम्॥
श्लोक 126
पथ्याशुण्ठीघनगुदैर्गुटिकां धारयेन्मुखे।
सर्वेषु कासश्वासेषु केवलं वा बिभीतकम्॥
श्लोक 127
कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे।
पेयोत्कार्यथवा च्छर्दितृट्कासामातिसारजित्॥
श्लोक 128
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्।
साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा॥
श्लोक 129
ससर्पिर्लवणा कासे हिध्माश्वासे सपीनसे।
पाण्ड्वामये क्षये शोफे कर्णशूले च शस्यते॥
श्लोक 130
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः।
सगौरामलकः साम्लः सर्वकासभिषग्जितम्॥
श्लोक 131
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने॥
श्लोक 132
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः।
क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि॥
श्लोक 133
बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्।
व्यत्यासात् क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते॥
श्लोक 134
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः।
यथादोषबलं तस्य सन्निपातहितं हितम्॥