श्लोक 92
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्धनम् त्वच्यं वशीकरं रुच्यं नवनिर्मलमम्बरम्
श्लोक 93
कदाऽपि न जनैः सद्भिर्धार्यं मलिनमम्बरम् तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम्
श्लोक 94
कुङ्कुमं चन्दनं चापि कृष्णागुरु च मिश्रितम् उष्णं वातकफध्वंसि शीतकाले तदिष्यते
श्लोक 95
चन्दनं घनसारेण बालकेन च मिश्रितम् सुगन्धि परमं शीतमुष्णकाले प्रशस्यते
श्लोक 96
चन्दनं घुसृणोपेतं मृगनाभिसमायुतम् न चोष्णं न च वा शीतं वर्षाकाले तदिष्यते
श्लोक 97
अनुलेपस्तृषामूर्च्छादुर्गन्धस्वेददाहजित् सौभाग्यतेजस्त्वग्वर्णप्रीत्यौजोबलवर्धनः स स्नानानर्हलोकानाममुलेपोऽपि नो हितः
श्लोक 98
सुगन्धिपुष्पपत्राणां धारणं कान्तिकारकम् पापरक्षोग्रहहरं कामदं श्रीविवर्द्धनम्
श्लोक 99
भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम्
श्लोक 100
ग्रहदृष्टिहरं पुष्टिकरं दुःस्वप्ननाशनम् पापदौर्भाग्यशमनं रत्नाभरणधारणम्
श्लोक 101
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगो र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम् देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शने र्नीलं निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके
श्लोक 102
वासःशृङ्गाररत्नानां धारणं प्रीतिबर्धकम् रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम्
श्लोक 103
सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च रोचनासर्षपादीनां मङ्गल्यानां च धारणम्
श्लोक 104
आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम् हिंस्नादिभयविध्वंसि वशीकरणकारणम्
श्लोक 105
ततो भोजनवेलायां कुर्यान्मङ्गल्यदर्शनम् तस्य प्रदर्शनं नित्यमायुर्धर्मविवर्धनम्
श्लोक 106
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः पुष्पस्रक्सर्पिरादित्य आपो राजा तथाऽष्टमः
श्लोक 107
पादुकाधारणं कुर्यात्पूर्वं भोजनतः परम् पादरोगहरं वृष्यं चक्षुष्यं चायुषो हितम्
श्लोक 108
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधः बुभुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा
श्लोक 109
भोजनेच्छाविघातात्स्यादङ्गमर्दोऽरुचिः श्रमः तन्द्रा लोचनदौर्बल्य धातुदाहो बलक्षयः
श्लोक 110
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत् श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा
श्लोक 111
निद्रा विघाततो जृम्भा शिरोलोचनगौरवम् अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च
श्लोक 112
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात् मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः
श्लोक 113
आहारं पचति शिखी दोषानाहारवर्जितः पचेद् दोषक्षये धातून्प्राणान्धातुक्षयेऽपि च
श्लोक 114
आहारः प्रीणनः सद्यो बलकृद् देहधारणः स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्धनः
श्लोक 115
यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम् विचार्य दोषकालादीन्कालयोरुभयोरपि
श्लोक 116
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः
श्लोक 117
याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः
श्लोक 118
क्षुत्सम्भवति पक्वेषु रसदोषमलेषु च काले वा यदि वाऽकाले सोऽन्नकाल उदाहृतः
श्लोक 119
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम्
श्लोक 120
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा उभाभ्यां लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया
श्लोक 121
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः
श्लोक 122
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम् सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा
श्लोक 123
दीनहीनक्षुधाऽत्तानां पापपाषण्डरोगिणाम् कुक्कुटादेः शुनो दृष्टिर्भोजने नैव शोभना
श्लोक 124
दोषहृद् दृष्टिदं पथ्यं हैमं भोजनभाजनम् रौप्यं भवति चक्षुष्यं पित्तहृत्कफवातकृत्
श्लोक 125
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् पैत्तलं वातकृद्रू क्षमुष्णं कृमिकफप्रणुत्
श्लोक 126
आयसे काचपात्रे च भोजनं सिद्धिकारकम् शोथपाण्डुहरं बल्यं कामलाऽपहमुत्तमम्
श्लोक 127
शैलेये मृण्मये पात्रे भोजनं श्रीनिवारणम् दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत्
श्लोक 128
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम्
श्लोक 129
पवित्रं शीतलं पात्रं रचितं स्फटिकेन यत् काचेन रचितं तद्वत्तथा वैदूर्यसम्भवम्
श्लोक 130
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम् अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्
श्लोक 131
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न बाधते
श्लोक 132
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम्
श्लोक 133
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्
श्लोक 134
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान् विना मोचफलं तद्वद्वर्जनीया च कर्कटी
श्लोक 135
मृणालबिसशालूककन्देक्षुप्रभृतीनपि पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन
श्लोक 136
गुरु पिष्टमयं द्र व्यं तण्डुलान्पृथुकानपि न जातु भुक्तवान्खादेन्मात्रां खादेद्बुभुक्षितः
श्लोक 137
घृतपूर्वं समश्नीयात्कठिनं प्राक् ततो मृदु अन्ते पुनर्द्र वाशी तु बलाद्रो गेण मुञ्चति
श्लोक 138
यद्यत्स्वादुतरं तत्तद्विदध्यादुत्तरोत्तरम् भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम्
श्लोक 139
सौमनस्यं बलं पुष्टिमुत्साहं वृद्धिमायुषः स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम्
श्लोक 140
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम् अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम्
श्लोक 141
अतिद्रुताशिताहारे गुणान्दोषान्न विन्दति भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः
श्लोक 142
मन्दानलो नरो द्र व्यं मात्रागुरु विवर्जयेत् स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु
श्लोक 143
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम्
श्लोक 144
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम्
श्लोक 145
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते द्र वो द्र वोत्तरश्चापि न मात्रागुरुरिष्यते
श्लोक 146
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति
श्लोक 147
शुष्कं निरुद्धं विष्टम्भि वह्निव्यापादकृद्भवेत्
श्लोक 148
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून् न जलान्तरितानद्भिः सक्तूनद्यान्न केवलान्
श्लोक 149
पुनर्दानं पृथक्पानं सामिषं पयसा निशि सदन्तच्छेदमुष्णं च सप्त सक्तुषु वर्जयेत्
श्लोक 150
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका
श्लोक 151
यथाकालेऽतिमात्रं यत् तद्भवेद्विषमाशनम् बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम्
श्लोक 152
आलस्यगौरवाटोपसादांश्च कुरुतेऽधिकम् हीनमात्रं तनोःकार्श्यं करोति च बलक्षयम्
श्लोक 153
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति
श्लोक 154
कालेतीतेश्नतो जन्तोर्वायुनोपहतेऽनले कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा
श्लोक 155
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत् वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत्
श्लोक 156
रसेनान्नस्य रसना प्रथमेनोपतर्पिता न तथा स्वादमाप्नोति ततः शोध्याम्बुनान्तरा
श्लोक 157
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि
श्लोक 158
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम्
श्लोक 159
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः
श्लोक 160
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम् तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी
श्लोक 161
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्
श्लोक 162
दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्धनम् वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्
श्लोक 163
विदाहीन्यन्नपानानि यानि भुंङ्क्ते हि मानवः तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत्
श्लोक 164
कुर्यात्क्षीरान्तमाहारं न दध्यन्तं कदाचन लवणाम्लकटूष्णानि विदाहीन्यत्ति यानि तु तद्दोषं हर्तुमाहारं मधुरेण समापयेत्
श्लोक 165
बलवच्छत्रुविनाशनेन शत्रुहन्तुः क्षीणता च दृश्यते तथा च नाशनात्प्रत्यनीकस्य स्वयं च क्षीयते यथा वह्निसन्तप्तलोहस्य तप्ततां नाशयेज्जलम्
श्लोक 166
ननु भोजनावसानसमये प्रयुक्ताः कटुतिक्तकषायरसाः कफं शमयिष्यन्ति वातस्य वृद्धिं विधास्यन्तीति चेतै तन्न कट्वादीनां क्षीणशक्तित्वात् तथा च यदेकं नाशयेद्दोषं तदन्यं वर्धयेत्कुतः नाशने ह्येकदोषस्य यतस्तत्क्षीणशक्तिकम्
श्लोक 167
जग्धाः सर्वेऽपि गच्छन्ति बलिनो वश्यतां रसाः यथा प्रकुपिता दोषा वशं यान्ति बलीयसः
श्लोक 168
एवं भुक्त्वा समाचामेद्रू क्षग्रहणपूर्वकम् भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्
श्लोक 169
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम्
श्लोक 170
दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्तवत् न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति
श्लोक 171
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत् भिउ!क्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते अचिरेणैव तद्वारि तिमिराणि व्यपोहति
श्लोक 172
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान्
श्लोक 173
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा
श्लोक 174
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम् सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम्
श्लोक 175
अङ्गारकमगस्तिं च पावकं सूर्यमश्विनौ पञ्चैतान्संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति
श्लोक 176
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम् अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रि तः
श्लोक 177
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि
श्लोक 178
धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः पूगैः कर्पूरकस्तूरीलवंगसुमनः फलैः
श्लोक 179
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः
श्लोक 180
रतौ सुप्तोत्थिते स्नाते भुक्तेवान्ते च संगरे सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम्