अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 5

श्लोक 1

अथातः क्षतक्षयकासचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्।
क्षीरणे शालीन् जीर्णेऽद्यात् क्षीरेणैव सशर्करान्॥

श्लोक 3

पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्।
भिन्नविट् तु समुस्तातिविषापाठां सवत्सकाम्॥

श्लोक 4

लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्॥

श्लोक 5

इक्ष्वालिकाबिसग्रन्थिपद्मकेसरचन्द्रनैः।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती॥

श्लोक 6

यवानां चूर्णमामानां क्षीरसिद्धं घृतान्वितम्।
ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्॥

श्लोक 7

कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्।
गुडोदकं वा क्वथितं सक्षौद्रमरिचं हिमम्॥

श्लोक 8

चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्।
रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्॥

श्लोक 9

कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः।
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः॥

श्लोक 10

त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता।
द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्॥

श्लोक 11

मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्।
कासश्वासारुचिच्छार्दिमूर्छाहिध्मामदभ्रमान्॥

श्लोक 12

क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्।
रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि॥

श्लोक 13

रक्तेऽतिवृद्धे च्छागं वा जाङ्गलं वा पिबेदसृक्।
वर्षाभूशर्करारक्तशालितण्डुलजं रजः॥

श्लोक 14

रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः।
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्॥

श्लोक 15

यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्।
पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम्॥

श्लोक 16

प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसं तथा।
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः॥

श्लोक 17

तैलं च प्रसृतांशानि तत् सर्वं मृदुनाग्निना।
पचेल्लेहो घृतक्षौद्रयुतः स क्षतकासनुत्॥

श्लोक 18

श्वासहृद्रोगकासघ्नो हितो वृद्धाल्परेतसाम्।
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्॥

श्लोक 19

क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान्।
शतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम्॥

श्लोक 20

शर्करायवगोधूमं जीवकर्षभकौ मधु।
घृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः॥

श्लोक 21

क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः।
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्॥

श्लोक 22

न्यग्रोधोदुम्बराश्वत्थप्लक्षसालप्रियङ्गुभिः।
तालमस्तकजम्वूत्वक्प्रियालैश्च सपद्मकैः॥

श्लोक 23

साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा।
शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः॥

श्लोक 24

वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः।
तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना॥

श्लोक 25

हृत्पार्श्वार्तिषु पानं स्यात् जीवनीयस्य सर्पिषः।
कुर्याद्वा वातरोगघ्नं पित्तरक्तविरोधि यत्॥

श्लोक 26

यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्।
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते हितम्॥

श्लोक 27

घृतं वाष्टगुणे क्षीरे कोललाक्षरसान्वितम्।
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्दलैर्घृतम्॥

श्लोक 28

जीवनीयो गणः शुण्ठी वरी वीरापुनर्नवौ।
बलाभार्ङ्गीस्वगुप्तर्धिशठीतामलकीकणाः॥

श्लोक 29

शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लधु।
द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्॥

श्लोक 30

तैः पचेत् सर्पिषः प्रस्थं कार्षांशैः श्लक्ष्णकल्कितैः।
क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्॥

श्लोक 31

प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः।
पलार्धिकं च मरिचत्वगेलापत्रकेसरम्॥

श्लोक 32

विनीय चूर्णितं तस्माल्लिह्मान्मात्रां यथानलम्।
अमृतप्राशमित्येतन्नराणाममृतं घृतम्॥

श्लोक 33

सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना।
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्॥

श्लोक 34

स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्।
कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत्।
पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम्॥

श्लोक 35

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्।
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्॥

श्लोक 36

पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे।
कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः॥

श्लोक 37

शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्॥

श्लोक 38

मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः।
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥

श्लोक 39

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद् घृतम्। पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले॥

श्लोक 40

पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत्।
समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्॥

श्लोक 41

धात्रीफलविदारीक्षुजीवनीयरसात् घृतात्।
गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्॥

श्लोक 42

सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्ततः।
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्।
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्॥

श्लोक 43

घृतं तु पित्तेऽभ्यधिके लिह्याद्व्यतेऽधिके पिबेत्।
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्।
आक्रामत्यनिलं पीतमूष्माणं निरुणाद्धि च॥

श्लोक 44

क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु।
त्वक्क्षीरीपिप्पलीलाजचूर्णैः स्त्यानानि योजयेत्॥

श्लोक 45

सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात् पयोनु च।
रेतोवीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्॥

श्लोक 46

बला विदारी ह्रस्वं च पञ्चमूलं पुनर्नवम्।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशकास्तथा॥

श्लोक 47

एषां कषाये द्विक्षीरे विदार्याजरसांशके।
जीवनीयैः पचेत् पिष्टैरक्षमात्रिर्घृताढकम्॥

श्लोक 48

सितापलानि पूते च शीते द्वात्रिंशदावपेत्।
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च॥

श्लोक 49

समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम्।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्॥

श्लोक 50

तान् जग्ध्वा पालिकान् क्षीरं मद्यंत्वनुपिबेत् कफे।
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते॥

श्लोक 51

रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते।
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥

श्लोक 52

सर्शकराशृते क्षीरघृततैलाढकत्रये।
चूर्णीकृताः क्षिपेत् पक्वसान्द्रे दशपलाः पृथक्॥

श्लोक 53

द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः।
तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम्॥

श्लोक 54

क्षामः क्षीणः क्षतः शुष्यंस्तान्खादेत् पालिकैर्गुडैः।
तथा सद्यो रसादीनां वृध्या पुष्टिं समश्नुते॥

श्लोक 55

गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्।
रसाद्विदार्याः कुडवं रसात् प्रस्थं च तैत्तिरात्॥

श्लोक 56

दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्।
मधूकषुष्पं कुडवं कुडवं च प्रियालतः॥

श्लोक 57

पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिः।
पृथग्विभीतकान्मज्ञः पिप्पल्याश्च चतुर्थिकाम्॥

श्लोक 58

त्रिंशत्पलानि खण्डाच्च मधुकात् पाणिमानिकाम्।
तथार्धपलिकान्यत्र जीवनीयानि दापयेत्॥

श्लोक 59

सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान्।
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्॥

श्लोक 60

वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च।
क्षीणौजःस्वरशुक्रेषु योनिदोषेषु संस्रवे।
मृतप्रजासु वन्ध्यासु हितं गर्भस्य च स्रुतौ॥

श्लोक 61

वीतत्वगास्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्॥

श्लोक 62

घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्।
स्वण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि॥

श्लोक 63

त्रिजातधान्यमरिचं पृथगर्धपलांशकम्।
अवतारितशीते च दत्वा क्षौद्रं घृतार्धिकम्॥

श्लोक 64

स्वजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्।
कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्॥

श्लोक 65

उरःसन्धानजननं मेधास्मृतिबलप्रदम्।
अश्विभ्यांन्निर्मितं हृद्यं कूष्माण्डकरसायनम्॥

श्लोक 66

पिवेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्।
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्॥

श्लोक 67

एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्।
मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या वित्तौषधस्य च॥