अष्टाङ्गसंग्रहः निदानस्थानम् 5

श्लोक 1

अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

अनेकरोगानुगतो बहुरोगपुरोगमः।
राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः॥

श्लोक 3

नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा।
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः॥

श्लोक 4

देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः।
रसादिशोषणाच्छोषो रोगराट् तेषु राजनात्॥

श्लोक 5

साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्क्षयः।
अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः॥

श्लोक 6

तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः।
शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन्॥

श्लोक 7

मुखानि स्रोतसां रुध्वा तथैवातिविवृत्य वा।
सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेत् गदान्॥

श्लोक 8

रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः।
प्रसेको मुखमाधुर्यंअ सदनं वह्निदेहयोः॥

श्लोक 9

स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम्।
मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः॥

श्लोक 10

हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः।
पाण्योरवेक्षा पादस्य शोफोऽक्ष्णोरतिशुक्लता॥

श्लोक 11

बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्।
स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम्॥

श्लोक 12

नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत्।
पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः॥

श्लोक 13

केशास्थितुषभस्मादिराशौ समधिरोहणम्।
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः॥

श्लोक 14

ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम्॥

श्लोक 15

पीनसश्वासकासांसमूर्धस्वररुजोऽरुचिः।
ऊर्ध्वं विट्स्रंससंशोषावधश्छरिदिस्तु कोष्ठगे॥

श्लोक 16

तिर्यक्स्थे पार्श्वरुक्दोषे सन्धिगे भवति ज्वरः।
रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः॥

श्लोक 17

तेषामुपद्रवान् विद्यात् कण्ठोद्ध्वंसमुरोरुजम्। जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः॥

श्लोक 18

तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम्।
कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात् पादास्यपाणिषु॥

श्लोक 19

दाहोतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः।
कफादरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम्॥

श्लोक 20

प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता॥

श्लोक 21

दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः।
स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च॥

श्लोक 22

विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्।
कुर्यादगच्छन् मांसादीनसृक् चोर्ध्वं प्रधावति॥

श्लोक 23

पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत्।
प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये॥

श्लोक 24

रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु।
अवष्टब्धः स शकृता केवलं वर्तते क्षयी॥

श्लोक 25

लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम्।
वर्जयेत् साधयेदेव सर्वेष्वपि ततोऽन्यथा॥

श्लोक 26

दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा।
स्वरसादो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः॥

श्लोक 27

शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात्।
पित्तात्तालुगले दाहः शोष उक्तावसूयनम्॥

श्लोक 28

लिम्पन्निव कफात् कण्ठं मन्दः खुरखुरायते।
स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात् कषेत्॥

श्लोक 29

धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः।
कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत्॥

श्लोक 30

अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः।
सन्निपातेन मनसः सन्तापेन च पञ्चमः॥

श्लोक 31

कषायतिक्तमधुरं वातादिषु मुखं क्रमात्।
सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्॥

श्लोक 32

छर्दिर्दोषैः पृथक् सर्वैर्द्विष्टैरर्थैश्च पञ्चमी।
उदानो विकृतो दोषान् यूसर्वास्वर्प्ध्वमस्यति॥

श्लोक 33

तासूत्क्लेशास्यलावण्यप्रसेकारुचयोऽग्रगाः।
नाभिं पृष्ठं रुजन् वायुः पार्श्वेचाहारमुत्क्षिपेत्॥

श्लोक 34

ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्।
शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्॥

श्लोक 35

कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः।
पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम्॥

श्लोक 36

सासृगम्लं कटूष्णं च तृण्मूर्छादाहतापवान्।
कफात् स्निग्धं घनं श्वेतं श्लेष्मतन्तुगवाक्षितम्॥

श्लोक 37

मधुरं लवणं भूरिप्रसक्तं लोमहर्षणम्।
मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्॥

श्लोक 38

सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता याच तां त्यजेत्।
पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः॥

श्लोक 39

तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा॥

श्लोक 40

वातादीनेव विमृशेत् कृमितृष्णामदौहृदे।
शूलवेपथुहृल्लासैर्विशेषात् कृमिजां वदेत्॥

श्लोक 41

कृमिहृद्रोगलिग्गैश्च स्मृताः पञ्च तु हृद्गदाः।
तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः॥

श्लोक 42

वातेन शूल्यतेऽत्यर्थं तुद्येते स्फुटतीव च।
भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः॥

श्लोक 43

अकस्माद्दीनता शोको भयं शब्दासहिष्णुता।
वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता॥

श्लोक 44

पित्तात्तृष्णा भ्रमो मूर्च्छा स्वेदोऽम्लकःक्लमः।
छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः॥

श्लोक 45

श्लेष्मणा हृदयं स्तब्धं भारि कंसाश्मगर्भवत्।
कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः॥

श्लोक 46

सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता।
तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः॥

श्लोक 47

हृदयं प्रततञ्चात्र क्रकचेनेव दार्यते।
चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्॥

श्लोक 48

वातात् पित्तात् कफात् तृष्णा सन्निपाताद्रसक्षयात्।
षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम्॥

श्लोक 49

सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात्।
सर्वदेहभ्रमोत्कम्पतापतृट्दाहमोहकृत्॥

श्लोक 50

जिह्वामूलगलक्लोमतालुतोयवहाः सिराः।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम्॥

श्लोक 51

मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः।
कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः॥

श्लोक 52

प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथामयाः॥

श्लोक 53

मारुतात् क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः।
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः॥

श्लोक 54

शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्छास्यतिक्तता।
रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः॥

श्लोक 55

कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्।
स्रोतस्सु सकफस्तेन पङ्कवच्छोष्यते ततः॥

श्लोक 56

शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता।
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः।
आलस्यमविपाकश्च सर्वैः स्यात् सर्वलक्षणा॥

श्लोक 57

आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा।
उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्॥

श्लोक 58

ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्तजैव सा।
या च पानातिपानोत्था तीक्ष्णाग्रेःस्नेहजा च या॥

श्लोक 59

स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा।
तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका॥

श्लोक 60

शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः।
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता॥