श्लोक 1
अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
सकलमपि शरीरमङ्गमित्युच्यते तत्र पुनः षडङ्गं शिरोन्तराधिर्द्वौ बाहू सक्थिनी च नेत्रनाभिपाणिपादादीनि त्वस्य प्रत्यङ्गानि॥
श्लोक 3
महागुणमयेभ्यश्च खपवनतेजोजलभूम्याख्येभ्यो महाभूतेभ्यश्चेतनाधिष्ठितेभ्योऽभिनिर्वृत्तिरङ्गस्य॥
श्लोक 4
भूतानामेव च दृष्टादृष्टविविधकर्मवशादनेकरूपात्सन्निवेशविशेषादाकृतिप्रमाणस्नेहदीप्तिस्वरादीनां सारूप्यमसारूप्यं वा सूक्ष्मस्थूलतारतम्यभेदभिन्नमतिबहुप्रकारं निष्पद्यते॥
श्लोक 5
तत्र सत्त्वबहुलमाकाशम्।
रजोबहुलो वायुः।
उभयबहुलोऽग्निः।
सत्त्वतमोबहुलमम्बु।
तमोबहुला भूः।
तेषामप्रतिघातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमाल्लिङ्गानि।
विशेषतश्च श्रोत्रादिष्विन्द्रियेष्ववस्थानम्।
शब्दस्पर्शरूपरसगन्धैरेकैकप्रवृद्धैरन्वयः॥
श्लोक 6
तत्राकाशजानि श्रोत्रं शब्दः सर्वस्रोतांसि विविक्ता च।
वायवीयानि स्पर्शनं स्पर्शः प्रश्वासोच्छ्वासादिपरिस्पन्दनानि लाघवं च।
आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्तिः सन्तापो मेधा वर्णो भास्तेजः शौर्यं च।
आम्भसानि रसनं रसः स्वेदक्लेदवसारसासृक्शुक्रमूत्रादिद्रवसमूहः शैत्यं स्नेहश्च।
पार्थिवानि घ्राणं गन्धः केशनखास्थ्यादिमूर्तसमूहो धैर्यं स्थैर्यं च॥
श्लोक 7
तेषु मातृजानि मृदूनि त्वग्रक्तमांसमेदोमज्जनाभिहृदयामाशयगर्भशययकृत्प्लीहाक्लोमान्त्रगुदादीनि॥
श्लोक 8
पितृजानि स्थिराणि केशनखास्थिशुक्रसिरास्नाय्वादीनि॥
श्लोक 9
आत्मजानि नानायोनिषूत्पत्तिर्मनश्चेतनेन्द्रियाणि प्राणापानौ धारणमाकृतिस्वरवर्णविशेषाः कामक्रोधलोभभयहर्षधर्मार्धमशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कारसुखदुःखायुरात्मज्ञानानि च॥
श्लोक 10
सात्म्यजान्यायुरारोग्यमनालस्यलोलुपत्वमिन्द्रियप्रसादस्वरवर्णौजःसम्पत्प्रशस्तता प्रहर्षभूयस्त्वं मेधाबलं च॥
श्लोक 11
रसजानि कृत्स्नस्य देहस्य सम्भवो वृत्तिर्वृद्धिस्तृप्तिरलौल्यं पुष्टिरुत्साहश्च॥
श्लोक 12
शुद्धसत्त्वजानि शौचमास्तिकत्वं कृत्ज्ञता दाक्षिण्यं व्यवसायः शौर्यं गाम्भीर्यं बुद्धिर्मेधा स्मृतिः शुक्लवर्त्मरुचिर्भाक्तिराभिषङ्गाभावस्तमोगुणविपर्ययश्च॥
श्लोक 13
राजसानि दुरुपचारताऽनार्यं शौर्यं मात्सर्यममितभाषित्वमहङ्कारो लोलुपत्वं दम्भो मानः क्रोधो हर्षः कामश्च॥
श्लोक 14
तामसान्यज्ञानं विषादः प्रमादो निद्रालस्यं क्षुत्तृष्णा शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुणवैपरीत्यं च॥
श्लोक 15
तत्र सत्त्वं मनस्तस्योषप्लवो रजस्तमश्चेत्येवं भूतात्मकं देहमाहुः॥
श्लोक 16
तस्य पुनः प्रविभागः।
त्वचः कला दोषा धातवो मला बुद्धीन्द्रियाणि तदधिष्ठितानि कर्मेन्द्रियाण्यतीन्द्रियमाशयाः प्राणायतनानि कण्डराजालानि कूर्चारज्जवस्सीवन्योऽस्थिसङ्घाताःसीमन्ता अस्थीन्यस्थिसन्धयः स्नायूनि पेश्यस्सिराधमन्यस्स्रोतांस्यूष्माणो मर्माणि केशश्मश्नुलोमानि प्रकृतिविकृतिभेदाश्च।
तत्रासृजः पच्यमानस्य क्षीरस्येव सन्तानिकाः षट् त्वचो भवन्ति।
त्वक्प्रसादाद्रक्तस्य प्रसादः॥
श्लोक 17
तासामुदकधरा चाद्या।
द्वितीयाऽसृग्धरा।
तृतीया सिध्मकिलासाधिष्ठाना।
चतुर्थी सर्वकुष्ठाधिष्ठाना।
पञ्चमी पुनरलजीविद्रध्यधिष्ठाना।
षष्ठी तु प्राणधरा।
यस्यां छिन्नायां ताम्यत्यन्धमिव च तमः प्रविशति यां चाधिष्ठायारूपंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि॥
श्लोक 18
अन्ये सप्त त्वचो वदन्ति।
तत्र प्रथमा भासिनी नाम या वर्णानामवभासिनी खादीनाञ्च षञ्चानां छायानां सा व्रीहेरष्टादशभागप्रमाणा।
द्वितीया लोहिनी नाम षोडशभागप्रमाणा।
तृतीया श्वेता नाम द्वादशभागप्रमाणा।
चतुर्थी ताम्रा नामाष्टभागप्रमाणा।
पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा।
षष्ठी रोहिणी नाम व्रीहिप्रमाणा।
सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा॥
श्लोक 19
यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथास्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः।
ता धात्वाशयान्तरमर्यादाः सप्त कलाः॥
श्लोक 20
तासां प्रथमा मांसधरा नाम यस्यां मांसे सिरास्नायुधमनीस्रोतसां भूमाविव पङ्कोदकेन बिसमृणालानां प्रतानानि भवन्ति॥
श्लोक 21
द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहयकृत्सु भवति।
मांसाच्च क्षतात् क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्तते॥
श्लोक 22
तृतीया मेदोधरा नाम।
मेदो हि तस्यामुदरेऽण्वस्थिषु च सरक्तं भवति।
तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं च स्थूलास्थिषु च मज्जा।
चतुर्थी श्लेष्मधरा नाम।
तत्स्थेन हि श्लेष्मणा श्लेषिताः सर्वसन्धयो दृढा भवन्ति सोपाङ्गा इवाक्षाः।
पञ्चमी पुरीषधरा नाम।
सा ह्यत्रामपक्वाशयाश्रिता कोष्ठान्तरुण्डुकस्थं मलं विभजति॥
श्लोक 23
षष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था।
सा ह्यन्तरग्नेराधिष्ठानतयामाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्वं च विमुञ्चति। दोषाधिष्ठिता तु दौर्बल्यादाममेव।
ततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा।
बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति॥
श्लोक 24
सप्तमी शुक्रधरा नाम द्व्यङ्गुले दक्षिणे पार्ण्वे बस्तिद्वारस्याधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति॥
श्लोक 25
दोषा धातवो मलाश्च प्रागुदिताः।
पञ्च बुद्धीन्द्रियाणि श्रोत्रं स्पर्शनं दर्शनं रसनं घ्राणं च।
तेषां सभागतया क्रमाद्विषयाः शब्दस्पर्शरूपरसगन्धाः।
पञ्चबुद्धीन्द्रियाधिष्ठानानि कर्णौ त्वगक्षिणी जिह्वा नासिके च॥
श्लोक 26
पञ्च कर्मेन्दिर्याणि वाक्पायूपस्थपाणिपादसंज्ञकानि।
तान्यपि च वचनोत्सर्गहर्षादानगमनार्थानि॥
श्लोक 27
अतीन्द्रियं तु मनः सर्वार्थैरन्वयात् तद्योगेन पञ्चेन्द्रियाणामर्थप्रवृत्तेः बुद्धिकर्मेन्द्रियोभयात्मकत्वाच्च॥
श्लोक 28
सप्ताशयः क्रमादसृक्कफामपित्तपक्ववायुमूत्राधाराः स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयोऽष्टमः।
तेषु सप्तसु प्रतिबद्धानि कोष्ठाङ्गानि हृदययकृत्प्लीहफुफ्फुसोण्डुकवृक्कान्त्रादीनि।
तत्र समानेनाध्मायमानस्य देहोष्मणा पच्यमानस्य शोणितस्याच्छतो जायते यकृत् प्लीहा च।
रक्तफेनात् फुफ्फुसम्।
रक्तकिट्टादुण्डुकः।
रक्तमेदःप्रसादाद् वृक्कौ।
रक्तमांसप्रसादादान्त्राणि।
तानि सार्धत्रिव्यामानि पुंसाम्।
त्रिव्यामानि स्रीणाम्।
रक्तस्यानिलयोगात् कालीयम्।
हृदयं पुनः श्लेष्मरक्तप्रसादात् सम्भवति पद्मकोशसङ्काशं सुषिरमधोमुखम्।
तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगतानाम्।
तस्य वामपार्ण्वे प्लीहा फुफ्फुसश्च दक्षिणतो यकृत् क्लोम च॥
श्लोक 29
तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादादिन्द्रियाणि।
तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलं तत् पितृजम्।
असृजः कृष्णमण्डलं तन्मातृजम्।
मध्ये दृष्टिमण्डलं तदुभयात्मकम्॥
श्लोक 30
पक्ष्मवत्मर्शुक्लकृष्णदृष्ट्याख्यानि पञ्च मण्डलानि।
तत्सन्धयश्चत्वारः।
द्वौ चापाङ्गकनीनयोः इति ते षट्।
षट् च पटलानि।
द्वे वर्त्मनी।
बाह्यं चाश्रितमग्न्यम्भसी।
द्वितीयं मांसं तृतीयं मेदश्चतुर्थमस्थि।
तेषां बहलता दृष्टेः पञ्चमांशेन॥
श्लोक 31
बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः।
श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक्।
नेत्राश्रितं तु तेजो बाह्यतेजसा स्वयोनिना योगाच्छस्त्रमिवाश्मना कर्मण्यं भवति।
अतियोगादुपहन्यते।
तच्च वैद्युतवद् बडवामुखवच्चाम्भोमध्यगमपि वीर्योत्कर्षात्तेजस्त्वं न जहाति।
मांसासृक्कफप्रसादात्तु जिह्वा जायते।
मांसासृक्कफमेदःप्रसादाद् वृषणाविति॥
श्लोक 32
दश प्राणायतनानि मूर्धा जिह्वाबन्धनं कण्ठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तं च।
तेषामाद्यानि सप्त पुनर्महामर्मसंज्ञानि॥
श्लोक 33
षोडश कण्डराः।
तासां द्वे द्वे करचरणेषु।
चतस्रः पृथग्ग्रीवापृष्ठयोः॥
श्लोक 34
षोडश जालानि तेषां मांससिरास्नाय्वस्थिजानि चत्वार्येकैकत्र गुल्फे मणिबन्धे च प्रस्परगवाक्षितानि तानि स्थितानि॥
श्लोक 35
षट् कूर्चा हस्तपादग्रीवामेढ्रेषु॥
श्लोक 36
चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबन्धनार्यं तासां द्वे बाह्ये।
द्वे चाभ्यन्तरस्थिते॥
श्लोक 37
सप्त सीवन्यः।
ताः पञ्च शिरसि जिह्वामेहनयोरेकैका।
परिहार्याश्च शस्त्रेण॥
श्लोक 38
चतुर्दशास्थिसङ्घाताः।
तेषामेकैको गुल्फजानुवङ्क्षणमणिबन्धकूर्परकक्ष्यासु त्रिकशिरसोश्च॥
श्लोक 39
तद्वत् सीमन्ताः।
ते तु पञ्च शिरसीत्यष्टादश॥
श्लोक 40
त्रीणि षष्ट्यधिकान्यस्थिशतानि।
तेषां च चत्वारिंशच्छतं शाखासु।
सविंशं शतमन्तराधौ।
शतमूर्ध्वमिति।
तत्रैकैकस्मिन् सक्थ्नि पञ्च पादनखाः प्रत्येकमङ्ग्ल्यां त्रीण्यस्थीनि तानि पञ्चदश।
पञ्चपादशलाकाः।
तत्प्रतिबन्धकमेकम्।
द्वे द्वे कूर्चगुल्फजङ्घास्वेकैकं पार्ष्णिजानूरुषु।
सर्वाणि च नखास्थ्यादीनि सक्थिवद् बाह्वोश्च॥
श्लोक 41
चतुर्विंशतिः परशुकाः।
तावन्त्येव स्थालकान्यर्बुदानि च।
त्रिंशत् पृष्ठे।
अष्टावुरसि।
एकैकं भागे त्रिके।
नितम्बयोश्च द्वे।
तद्वदक्षकांसांसफलकेषु॥
श्लोक 42
तथा गण्डक्र्णशङ्खेषु जत्रुतालुनोश्च।
त्रयोदश ग्रीवायाम्।
चत्वारि कण्ठनाड्याम्।
द्वे हनुबन्धने।
द्वात्रिंशद्दन्ताः।
तद्वदुलूखलानि च।
त्रीणि नासायां षट् शिरसि॥
श्लोक 43
तानि जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणमध्यशिरस्सु कपालसंज्ञानि।
दशनास्तु रुचकाः।
घ्राणकर्णग्रीवाक्षिकोशेषु तरुणानि।
पाणिपादपार्श्वपृष्ठेषु वलयानि।
शेषाणि नलकानीति।
नामानुगताकृतीनि पञ्चविधान्यस्थीनि।
तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मांसानि॥
श्लोक 44
दशोत्तरं शतद्वयमस्थिसन्धीनाम्।
तेषामष्टषष्टिः शाखासु।
एकोनषष्टिरन्तराधौ।
त्र्यशीतिरूर्ध्वम्।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुलौ प्रत्येकं त्रयः।
द्वावङ्गुष्ठे।
ते चतुर्दश।
एकैको गुल्फजानुवङ्क्षणेषु॥
श्लोक 45
त्रयः कटीकपालेषु। चतुर्विंशतिः पृष्ठवंशे।
तद्वत् पार्श्वयोः।
अष्टावुरसि॥
श्लोक 46
अष्टौ ग्रीवायाम्।
त्रयः कण्ठनाड्याम्।
अष्टदश कण्ठनाडीनिबद्धा हृदययकृत्क्लोमनाडीषु।
द्वात्रिंशद्दन्तमूलेषु।
एकैकः काकलनासामूर्द्धसु।
द्वौ द्वौ गण्डकर्णशङ्खवर्त्मनेत्रहनुसन्धिषु।
द्वावुपरिष्टात् भ्रुवोः।
पञ्च शिरःकपालेषु॥
श्लोक 47
तेऽङ्गुलिगुल्फजानुमणिबन्धकूर्परेषु कोरसंज्ञाः।
कक्षावङ्क्षणदन्तमूलेषूलूखलसंज्ञाः।
अंसपीठगुदभगनितम्बेषु सामुद्गाः।
ग्रीवापृष्ठवंशयोः प्रतराः।
शिरःकटीकपालेषु तुन्नसेवनीसंज्ञाः।
हनूभयतो वायसतुण्डाः।
कण्ठनेत्रहृदययकृत्प्लीहक्लोमनाडीषु मण्डलसंज्ञाः।
श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः।
इत्यस्थिसन्धयोऽष्टविधाः॥
श्लोक 48
स्नायुपेशीसिराश्रितैस्तु सहस्रद्वयं न पुनः शस्त्रप्रणिधाने तेषु वाच्यमस्तीति पृथङ् नोच्यते॥
श्लोक 49
नव स्नायुशतानि।
तेषां षट् शतानि शाखासु।
त्रिंशच्छतद्वयमन्तराधौ।
ऊर्ध्वं सप्ततिः।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं षट् षट्।
तानि त्रिंशत्।
दश दश पादतलकूर्चगुल्फेषु।
त्रिंशज्जङ्घायाम्।
दश जानुनि।
चत्वारिंशदूरौ।
दश वङ्क्षणे॥
श्लोक 50
चत्वारिंशत् कट्याम्।
विंशतिर्मुष्कमेढ्रबस्त्यन्त्रेषु।
अशीतिः पृष्ठे।
षष्टिः प्रार्श्वयोः।
अष्टादशोरसि।
चत्वार्यक्षकयोः।
अष्टावंसयोः॥
श्लोक 51
द्वे द्वे मन्यावटुनेत्रौष्ठतालुषु।
त्रिंशद् ग्रीवायाम्।
त्रीणि जत्रुणि।
चत्वारि हन्वोः।
पञ्च जिह्वायाम्।
द्वादशोत्तराधरेषु दन्तमांसेषु।
षण्मूर्धनि॥
श्लोक 52
तत्र शाखासु सन्धिषु च प्रतानवन्ति।
महास्नावानि तु वृत्तानि तानि कण्डरासंज्ञानि।
बस्त्यामपक्वाशयान्त्रेषु सुषिराणि।
पार्श्वपृष्ठोरश्शिरस्सु पृथूनि॥
श्लोक 53
स्नावबन्धनैर्हि सन्धिषु सुबद्धा तनुर्नौरिव सम्यगीहते।
तस्मादस्थिसिरादिभ्योऽपि तानि यत्नतो रक्षेत्।
यश्च स्नावानि बाह्यान्यभ्यन्तराणि च सम्यग् जानाति स गूढमपि शल्यमाहर्तुं समर्थो भवति॥
श्लोक 54
पञ्च पेशीशतानि।
तासां चत्वारि शतानि शाखासु।
षष्टिरन्तराधौ।
चत्वारिंशदूर्ध्वम्।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं तिस्रः।
ताः पञ्चदश।
दश दश प्रपदे पादतले गुल्फे च।
तथा पादस्योपरि कूर्चे सन्निविष्टाः।
विंशतिर्जङ्घायाम्।
पञ्च जानुनि।
विंशतिरूरौ॥
श्लोक 55
एकैका मेढ्रसेवन्योः।
द्वे वृषणयोः।
दश स्फिजोः।
तिस्रो गुदे तास्तु वलीसंज्ञाः।
द्वे बस्तिशिरसि।
चतस्र उदरे।
नाभ्यामेका।
हृद्यामाशये च।
षट् यकृत्प्लीहोण्डुकेषु।
पृष्ठे पञ्चोर्ध्वसन्निविष्टाः।
दश दीर्घाः पार्श्वयोः।
दश वक्षसि।
तिस्रोऽंसाक्षकोपरितः॥
श्लोक 56
दश ग्रीवायाम्।
अष्टौ गण्डयोः।
अष्टौ हन्वोः।
एकैका गलकाकलजिह्वामूर्धसु।
द्वे द्वे तालुललाटयोः।
नासौष्ठकर्णेषु च॥
श्लोक 57
स्त्रीणां तु विंशतिरधिका।
तत्र दश स्तनयोः।
तासां यौवने परिवृद्धिर्भवति।
दश योनौ।
तासामभ्यन्तराश्रिते द्वे।
मुखाश्रिते वृत्ते द्वे।
तिस्रो गर्भमार्गाश्रयाः।
यस्यां गर्भस्तिष्ठति।
योनिस्तु शङ्खनाभ्याकृतिस्त्र्यावर्ता।
तस्यास्तृतीय आवर्ते पित्तपक्वाशयान्तरे गर्भशय्या।
तस्यां शुक्रार्तवप्रवेशिन्यस्तिस्रः पेश्यः॥
श्लोक 58
ताभिर्हि शरीरे तनुबहलस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नावानि प्रच्छादितानि॥
श्लोक 59
सिराधमनीमुखानां त्वणुशो विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शतानि षट्पञ्चाशानि भवन्ति।
ताभिरिदं गवाक्षितं पिनद्धमाततं च॥
श्लोक 60
तावन्ति च केशश्मश्रुलोमानि।
तासां हि मुखानि तत्प्रतिबद्धान्यतस्तानि ताभिराप्याय्यन्ते।
तैश्च ताः स्वेदमभिवहन्ति।
तथाभ्यङ्गलेपादिवीर्यं त्वचि विपक्वमन्तर्नयन्ति स्पर्शं च गृह्णन्ति॥
श्लोक 61
स्रोतांसि पुनरसङ्ख्येयान्येव।
तथापि तु सिरादीनि यथास्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यन्ते।
इत्येवं परिसङ्ख्याताः शरीरे मूर्तिमन्तः स्थिरा भावाः॥
श्लोक 62
द्रवास्तु यत्तदतियोगेन च्यवमानं पुरीषमनुबध्नाति।
तथा मूत्रं रुधिरमन्यांश्चशरीरे धातून्।
यच्च सर्वशरीरगतं बाह्या त्वग्बिभर्ति।
यच्च त्वगन्तरे व्रणगतं लसीकाशब्दवाच्यम्।
यच्चोष्मानुबद्धं रोमकूपेभ्योऽभिनिष्पतत्स्वेदवाच्यम्।
तदुदकम्॥
श्लोक 63
तस्याद्यस्य चाहारसारस्य रसाख्यस्य रक्तस्य शकृतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्ञश्च स्वेन स्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख्याप्रवृद्धिः।
अर्द्धाञ्जलिः शुक्रस्य।
तावदेव मस्तिष्कमोजश्च।
स्त्रीणां रजसोऽञ्जलयश्चत्वारः।
स्तन्यस्य द्वौ।
उभयमपि चैतद्रसप्रसादात्मकमिति॥
श्लोक 64
समधातोः परिमाणमिदम्।
अतो वृद्धिक्षयौ यथास्वं लक्षणैर्विभावयेदपराश्चापरिसङ्ख्यातान्मूर्तामूर्तान् भावान्।
तद्यथा।
मांसकर्णादिमलान् वायुबुद्धिस्मृत्यादीश्च॥
श्लोक 65
धन्वन्तरीयाः पुनः पठन्ति।
विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः।
तस्मादुदकादीनामपि समत्वं मांसादिवत् परिमाणतो निर्देष्टुमशक्यम्।
केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेदिति॥
श्लोक 66
सर्व एव त्ववयवाः परमाणुभेदेनाति सौक्ष्म्यादसङ्ख्येयतां यान्ति।
तेषां संयोगविभागे परमाणूनां कर्मप्रेरितो वायुः कारणम्॥
श्लोक 67
तदेतदङ्गमभेदेन भेदतश्च गृह्यमाणं बन्धाय मोक्षाय च भवतीति।
भवति चात्र॥
श्लोक 68
इति सर्वावयवशो यो जानाति कलेवरम्।
अहितेषु स मोहेन न कदाचित् प्रवर्तते॥