भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 5

श्लोक 1

भूमिदेशस्त्रिधाऽनूपो जांगलो मिश्रलक्षणः

श्लोक 2

नदीपल्वलशैलाढ्यः फुल्लोत्पलकुलैर्युतः हंससारसकारंडचक्रवाकादिसेवितः

श्लोक 3

शशवाराहमहिषरुरुरोहिकुलाकुलः प्रभूतद्रुमपुष्पाढ्यो नीलशस्यफलान्वितः

श्लोक 4

अनेकशालिकेदारकदलीक्षुविभूषितः अनूपदेशो ज्ञातव्यो वातश्लेष्मामयार्त्तिमान्

श्लोक 5

आकाशसम उच्चश्च स्वल्पपानीयपादपः शमीकरीरबिल्वार्कपीलुकर्कंधुसङ्कुलः

श्लोक 6

हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः सुस्वादुफलवान्देशो वातलो जाङ्गलः स्मृतः

श्लोक 7

बहूदकनगोऽनूपः कफमारुतरोगवान् जाङ्गलोऽल्पाम्बुशाखी च पित्तासृङ्मारुतोत्तरः

श्लोक 8

संसृष्टलक्षणो यस्तु देशः साधारणो मतः समाः सधारणे यस्माच्छीतवर्षोष्णमारुताः समता तेन दोषाणां तस्मात्साधारणो वरः

श्लोक 9

उचिते वर्तमानस्य नास्ति दुर्देशजं भयम् आहारस्वप्नचेष्टाऽदौ तद्देशस्य कृते सति

श्लोक 10

यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम् देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम्

श्लोक 11

स्वे देशेनिचिता दोषा अन्यस्मिन्कोपमागताः बलवन्तस्तथा न स्युर्जलजाः स्थलजास्तथा

श्लोक 12

मानवो येन विधिना स्वस्थस्तिष्ठति सर्वदा तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम्

श्लोक 13

दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम्
आचरन्पुरुषः स्वस्थः सदा तिष्ठति नान्यथा

श्लोक 14

समदोषः समाग्निश्च समधातुमलक्रियः प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते

श्लोक 15

ब्राह्मे मुहूर्ते बुध्येत स्वस्थो रक्षाऽथमायुषः तत्र सर्वाघशान्त्यर्थं स्मरेद्धि मधुसूदनम्

श्लोक 16

दध्याज्यादर्शसिद्धार्थं बिल्वगोरोचनस्रजाम् दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम्

श्लोक 17

स्वमाननं घृते पश्येद् यदीच्छेच्चिरजीवितम् आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम् तदन्त्रकूजनाध्मानोदरगौरववारणम्

श्लोक 18

आटोपशूलौ परिकर्त्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य

श्लोक 19

वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा जठरे वातजाश्चान्येरोगाः स्युर्वातनिग्रहात्

श्लोक 20

बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा विनामो वङ्क्षणानाहः स्यालिङ्गं मूत्रनिग्रहे

श्लोक 21

न वेगितोऽन्यकार्यः स्यान्न वेगानीरयेद्बलात् कामशोकभयक्रोधान्मनोवेगान्विधारयेत्

श्लोक 22

गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम् पवित्रकरमाख्यातमलक्ष्मीकलिपापहृत्

श्लोक 23

प्रक्षालनं मतं पाण्योः पादयोः शुद्धिकारणम् मलश्रमहरं वृष्यं चक्षुष्यं राजसापहम्

श्लोक 24

भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम् कनिष्ठिकाऽग्रवत्स्थूलमृज्वग्रन्थिं तथाऽव्रणम्

श्लोक 25

एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्

श्लोक 26

क्षौद्र त्रिकटुकाक्तेन तैलसिन्धुभवेन वा चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्

श्लोक 27

मधुको मधुरे श्रेष्ठः करञ्जः कटुके तथा
निम्बः स्यात्तिक्तके श्रेष्ठः कषाये खदिरस्तथा

श्लोक 28

समयं तु समालोक्य दोषं च प्रकृतिं तथा यथोचितै रसैर्वीर्यैर्युक्तं द्र व्यं प्रयोजयेत्

श्लोक 29

तेनास्य मुखवैरस्यदन्तजिह्वाऽस्यजा गदाः रुचिवैशद्यलघुता न भवन्ति भवन्ति च

श्लोक 30

अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत् प्लक्षे चैवार्थसम्पत्तिर्वैदर्यां मधुरोध्वनिः

श्लोक 31

खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम्
उदुम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च

श्लोक 32

कदम्बे तु धृतिर्मेधा चम्पके च दृढा मतिः शिरीषे कीर्त्तिसौभाग्यमायुरारोग्यमेव च

श्लोक 33

अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथाऽसने दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा

श्लोक 34

जातीतगरमन्दारैर्दुःस्वप्नं च विनश्यति

श्लोक 35

गुर्वाकस्तालहिन्तालौ केतकश्च बृहत्तृणः खर्जूरं नारिकेलं च सप्तैते तृणराजकाः

श्लोक 36

तृणराजसमुत्पन्नं यः कुर्याद्दन्तधावनम्
नरश्चाण्डालयोनिः स्याद्यावद्गङ्गां न पश्यति

श्लोक 37

न खादेद्गलताल्वोष्ठजिह्वादन्तगदेषु तत् मुखस्य पाके शोथे च श्वासकासवमीषु च

श्लोक 38

दुर्बलोऽजीर्णभुक्तश्च हिक्कामूर्च्छामदान्वितः शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः

श्लोक 39

अर्दितः कर्णशूली च नेत्ररोगी नवज्वरी वर्जयेद्दन्तकाष्ठं तु हृदामययुतोऽपि च

श्लोक 40

जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा पाटितं मृदु तत्काष्ठं मृदुपत्रमयं तथा

श्लोक 41

दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत्सुखम् तज्जिह्वामलवैरस्यदुर्गन्धजडताहरम्

श्लोक 42

गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः कफतृष्णामलहरं मुखान्तःशुद्धिकारकम्

श्लोक 43

सुखोष्णोदकगण्डूषः कफारुचिमलापहः दन्तजाड्यहरश्चापि मुखलाघवकारकः

श्लोक 44

विषमूर्च्छामदार्त्तानां शोषिणां रक्तपित्तिनाम् कुपिताक्षिमलक्षीणरूक्षाणां स न शस्यते

श्लोक 45

मुखप्रक्षालनं शीतपयसा रक्तपित्तजित् मुखस्य पिडिकाशोषनीलिकाव्यङ्गनाशनम्

श्लोक 46

कुर्याद्वाऽपि कदुष्णेन पयसाऽस्यविशोधनम् कफवातहरं स्निग्धं मुखशोषविनाशनम्

श्लोक 47

कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत् प्रातः श्लेष्मणि मध्याह्ने पित्ते सायं समीरणे

श्लोक 48

सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रि याः निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः

श्लोक 49

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत् लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने

श्लोक 50

स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम्

श्लोक 51

अक्ष्णो रूपावहं चैव सहते मारुतातपौ नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत्

श्लोक 52

रात्रौ जागरितः श्रान्तश्छर्दितो भुक्तवांस्तथा ज्वरातुरः शिरः स्नातो नाक्ष्णोरञ्जनमाचरेत्

श्लोक 53

पञ्चरात्रान्नखश्मश्रुकेशरोमाणि कर्त्तयेत् केशश्मश्रुनखादीनां कर्त्तनं सम्प्रसाधनम् पौष्टिकं धन्यमायुष्यं शौचकान्तिकरं परम्

श्लोक 54

उत्पाटयेत्तु लोमानि नासाया न कदाचन तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत्

श्लोक 55

केशपाशे प्रकुर्वीत प्रसाधन्या प्रसाधनम् केशप्रसाधनं केश्यं रजोजन्तुमलापहम्

श्लोक 56

आदर्शालोकनं प्रोक्तं मङ्गल्यं कान्तिकारम् पौष्टिकं बल्यमायुष्यं पापालक्ष्मीविनाशनम्

श्लोक 57

लाघवं कर्मसमर्थ्यं विभक्तघनगात्रता दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते

श्लोक 58

व्यायामदृढगात्रस्य व्याधिर्नास्ति कदाचन विरुद्धं वा विदग्धं वा भुक्तं शीघ्रं विपच्यते

श्लोक 59

भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः न चैवं सहसाऽक्रम्य जरा समधिरोहति

श्लोक 60

न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षकम् स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम्

श्लोक 61

वसन्ते शीतसमये सुतरां स हितो मतः अन्यदाऽपि च कर्त्तव्यो बलार्धेन यथा बलम्

श्लोक 62

हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते मुखं च शोषं लभते तद्बलार्धस्य लक्षणम्

श्लोक 63

किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः यदा सञ्जायते स्वेदो बलार्धं तु तदादिशेत्

श्लोक 64

भुक्तवान्कृतसम्भोगः कासी श्वासी कृशः क्षयी रक्तपित्ती क्षती शोषी न तं कुर्यात्कदाचन

श्लोक 65

अतिव्यायामतः कासो ज्वरश्छर्दिं श्रमः क्लमः तृष्णा क्षयः प्रतमको रक्तपित्तं च जायते

श्लोक 66

अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम् शिरः श्रवणपादेषु तं विशेषेण शीलयेत्

श्लोक 67

सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम् अन्यद्र व्ययुतं तैलं न दुष्यति कदाचन

श्लोक 68

अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम् निद्रा वर्णमृदुत्वायुष्कुरुते देहपुष्टिकृत्

श्लोक 69

अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रि यतर्पकः दृष्टितुष्टिकरो हन्ति शिरोभूमिगतान्गदान्

श्लोक 70

केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा कृष्णतां कुरुते कुर्याच्छिरसःपूर्णतामपि

श्लोक 71

न कर्णरोगा न मलं न च मन्याहनुग्रहः नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णपूरणात्

श्लोक 72

रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते

श्लोक 73

पादाभ्यङ्गश्च तत्स्थैर्यनिद्रा दृष्टिप्रसादकृत् पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्

श्लोक 74

व्यायामक्षुण्णवपुषं पद्भ्यां सम्मर्दितं तथा व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः

श्लोक 75

लोमकूपशिराजालधमनीभिः कलेवरे तर्पयेद्बलमाधत्ते स्नेहयुक्तेऽवगाहने

श्लोक 76

अद्भिः संसिक्तमूलानां तरूणां पल्लवादयः वर्द्धन्ते हि तथा नॄणां स्नेहसंसिक्तधातवः

श्लोक 77

नवज्वरी अजीर्णी च नाभ्यक्तव्यः कथञ्चन तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः

श्लोक 78

पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा शेषाणां च त्विह प्रोक्ता वह्निसादादयो गदाः

श्लोक 79

उद्वर्त्तनं कफहरं मेदोघ्नं शुक्रदं परम् बल्यं शोणितकृच्चापि त्वक्प्रसादमृदुत्वकृत्

श्लोक 80

मुखलेपादृढं चक्षुः पीनो गण्डस्तथाऽननम् कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम्

श्लोक 81

दीपनंवृष्यमायुष्यं स्नानमोजोबलप्रदम् कण्डूमलश्रमस्वेदतन्द्रा तृड्दाहपाप्मनुत्

श्लोक 82

बाह्यैश्च सेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः नरस्य स्नानमात्रस्य दीप्यते तेन पावकः

श्लोक 83

शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत् तदेवोष्णेन तोयेन बल्यं वातकफापहम्

श्लोक 84

शिरः स्नानमचक्षुष्यमत्युष्णेनाग्बुना सदा वातश्लेष्मप्रकोपे तु हितं तच्च प्रकीर्त्तितम्

श्लोक 85

अशीतेनाम्भसा स्नानं पयःपानं नवाःस्त्रियः एतद्वो मानवाः पथ्यं स्निग्धमल्पं च भोजनम्

श्लोक 86

यः सदाऽमलकैः स्नानं करोति स विनिश्चितम् बलीपलितनिर्मुक्तो जीवेद्वर्षशतं नरः

श्लोक 87

स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्

श्लोक 88

स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम् कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम्

श्लोक 89

कौशेयौर्णिकवस्त्रं च रक्तवस्त्रं तथैव च वातश्लेष्महरं तत्तु शीतकाले विधारयेत्

श्लोक 90

मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते तद्धारयेदुष्णकाले तत्रापि लघु शस्यते

श्लोक 91

शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् न चोष्णं न च वा शीतं तत्तुवर्षासु धारयेत्